61139: उपात् प्रतियत्नवैकृतवाक्याध्याहारेषु

Padacheda: उपात् | S | 5 | 1 |

प्रतियत्न-वैकृत-वाक्याध्याहारेषु | S | 7 | 3 |

Sutrartha


Vasu English Summary

The augment सुट् is placed before क , when the verb कृ comes after उप , and the sense is that of ‘to take pains for something, to prepare, and to supply and ellipses in a discourse’.

Vasu English Translation

The augment सुट् is placed before क , when the verb कृ comes after उप , and the sense is that of ‘to take pains for something, to prepare, and to supply and ellipses in a discourse’. To take pains in imparting a new quality to a thing in order to increase its value, or to keep it safe from deterioration is called प्रतियत्नः ॥ That which is prepared or altered is called वैकृतं ॥ The word वैकृतं is the same as विकृतं, the affix अण् being added without changing the sense, by considering it to belong to प्रज्ञादि class (5.4.38). To supply by distinct statement the sense of a sentence which is alluded to, is called the अध्याहार of a sentence. Thus in the sense of ‘taking pains’ we have एधोदकस्योपस्कुरुते (See (1.3.32)); काण्डगुणस्योपस्कुरुते ॥ In the sense of ‘altering by preparing’ we have: उपस्कृतं भुङ्क्ते, उपस्कृतं गच्छति ॥ In the sense of ‘supplying a thesis’ we have उपस्कृतं जल्पति, उपस्कृतमधीते ॥ When not having any one of the above five senses (6.1.137) - (6.1.139) we have उपकरोति ॥

Kashika

सतो गुणान्तराधानमाधिक्याय वृद्धस्य वा तादवस्थ्याय समीहा प्रतियत्नः। विकृतमेव वैकृतम्। प्रज्ञादित्वादण् (५.४.३८)। गम्यमानार्थस्य वाक्यस्य स्वरूपेणोपादानं वाक्यस्याध्याहारः। एतेष्वर्थेषु गम्यमानेषु करोतौ धातौ परत उपात् सुट् कात् पूर्वो भवति। प्रतियत्ने तावत् — एधोदकस्योपस्कुरुते। काण्डं गुडस्य उपस्कु रु ते। वैकृते — उपस्कृतं भुङ्क्ते। उपस्कृतं गच्छति। वाक्याध्याहारे — उपस्कृतं जल्पति। उपस्कृतमधीते। एतेष्विति किम्? उपकरोति॥

Siddhanta Kaumudi

उपात्कृञः सुट् स्यादेष्वर्थेषु चात्प्रागुक्तयोरर्थयोः । प्रतियत्नो गुणाधानम् । विकृतमेव वैकृतं विकारः । वाक्यस्याध्याहार आकाङ्क्षितैकदेशपूरणम् । उपस्कृता कन्या । अलंकृतेत्यर्थः । उपस्कृता ब्राह्मणाः । समुदिता इत्यर्थः । एधो दकस्योपस्कुरुते । गुणाधानं करोतीत्यर्थः । उपस्कृतं भुङ्क्ते । विकृतमित्यर्थः । उपस्कृतं ब्रूते । वाक्याध्याहारेण ब्रूत इत्यर्थः ॥

Laghu Siddhanta Kaumudi

उपात्कृञः सुट् स्यादेष्वर्थेषु चात्प्रागुक्तयोरर्थयोः । प्रतियत्नो गुणाधानम् । विकृतमेव वैकृतं विकारः । वाक्याध्याहार आकाङ्क्षितैकदेशपूरणम् । उपस्कृता कन्या । उपस्कृता ब्राह्मणाः । एधो दकस्योपस्कुरुते । उपस्कृतं भुङ्क्ते । उपस्कृतं ब्रूते ॥ {$ {! 7 वनु !} याचने $} ॥ वनुते ॥ {$ {! 8 मनु !} अवबोधने $} ॥ मनुते ॥ मेने । मनिता । मनिष्यते । मनुताम् । अमनुत । मन्वीत । मनिषीष्ट । अमत, अमनिष्ट । अमनिष्यत ॥ इति तनादयः ॥ ८ ॥

Balamanorama

उपात् प्रतियत्नवैकृतवाक्याध्याहारेषु - प्रागुक्तयोरिति । भूषणसमवाययोरित्यर्थः । ननुसंपरिभ्या॑मिति सुट् पदद्वयोपेक्षत्वाद्बहिरङ्गः ।लिटि धातो॑रिति द्वित्वं तु प्रकृतिप्रत्ययमात्रोपेक्षत्वादन्तरङ्गम् । ततस्च संचस्कारेत्यत्र परमपि सुटं बाधित्वा द्वित्वे कृतेऽभ्यासात्प्रागेव सुटि प्राप्ते —

Padamanjari

सत इत्यादि। लब्धसताकस्यार्थस्य पूर्वं ये गुणा आधीयन्ते। येन तद्गुणान्तराधान तत्पुनः किमर्थम् ? इत्याह - आधिक्यायेति। आधिक्यमुवृद्धिः। वृद्धस्य वा तादवस्थयायेति। तस्य वृद्धियुक्तावस्थायाः प्रच्युतिपरिहारायेत्यर्थः। समीहाउचेष्टा। अगम्यमानार्थस्येति। अर्थप्रकरणादिना। वाक्यस्येति। वाक्यैकदेशस्येत्यर्थः। एधो दकस्येति। जातिद्वन्द्वः,’कृञः प्रतियत्ने’ इति षष्ठी,’प्रतियत्नप्रकथनोपयोगेषु कृञः’ इत्यात्मनेपदम्। उपस्कृतं भुङ्क्तु इति। क्रियाविशेषणम्, विकृतं भुङ्क्त इत्यर्थः। उपस्कृतं जल्पतीति। साध्याहारं यथा तथा जल्पतीत्यर्थः। अथैवं कस्मान्न कृतम् -‘सम्प्रतिभ्यां करोतौ भूषणसमवाययोः, उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च’ इति ? सूत्रकारं पृच्छ ॥

Nyaas

सतः इत्यादि। लब्धसत्ताकस्यार्थस्य पुर्वोत्पन्नोभ्यो गुणेभ्यो योऽन्यो गुणस्तद्गुणान्तरम्, तदाधीयत उत्पाद्यते येन तद्गुणान्तराधानम्। तत्पुनः किमर्थम्? इत्याह - आधिक्याय इत्यादि। किं तत्? इत्याह - समीहा इति। तदेवं विद्यमानस्य वस्तन आधिक्याय वृद्धये वृद्धस्य चैव तादवस्थ्याय तस्या वृद्धावस्थाया अपरिहाणाय गुणान्तराधानं ययाधीयते समीहयां चेष्टया स प्रतियत्न इत्युच्यते। विकृतम् इति। जातविक्रियमित्यर्थः। गम्यमानार्थस्य वाक्यस्य स्वरपेण इति। समुदायेषु हि प्रवृत्ताः शब्दा अवयवेष्वपि वर्तन्ते (व्या प।सू।85) इति प्रतीयमानोऽर्थः प्रकरणादिवाक्यस्यैकदेशो वाक्यशब्देनोक्तः। गम्यमानार्थस्यापि सुखप्रतिपत्तये स्वरूपेणोपादानं वाक्याध्याहारः॥

Prakriyasarvasvam

गुणाधाने विकारेऽध्याहारे चार्थे उपात् कृञि सुट् स्यात् । कुसुमैः केशस्योपस्कुरुते । उपस्कृतं गच्छति । सविकारमित्यर्थः । अध्याहारे-उपस्कृत्य४ व्याचष्टे ।