61137: सम्पर्युपेभ्यः करोतौ भूषणे¶
Padacheda: सम्-परि-उपेभ्यः | S | 5 | 3 |
करोतौ | S | 7 | 1 |
भूषणे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The augment सुट् is placed before क when सम् , परि , and उप are followed by the verb कृ and the sense is that of ornamenting.
Vasu English Translation¶
The augment सुट् is placed before क when सम् , परि , and उप are followed by the verb कृ and the sense is that of ornamenting. Thus संस्कर्ता, संस्कर्तुम्, संस्कर्तव्यम् ॥ The म् of सम् is changed to anusvara by (8.3.5). So also परिष्कर्ता परिष्कर्तुं परिष्कर्तव्यम् ॥ The स is changed to ष by (8.3.70). So also with उप, as उपष्कर्ता, उपष्कर्तुम् उपष्कर्तव्यम् ॥ Why do we say ‘when meaning to ornament’? Observe उपकरोति ॥ Sometimes सुट् comes after सम् even when the sense is not that of ornamenting : thus संष्कृतमन्नम् ॥
Kashika¶
सम् परि उप इत्येतेभ्यो भूषणार्थे करोतौ परतः सुट् कात् पूर्वो भवति। सँस्स्कर्ता। सँस्स्कर्तुम्। सँस्स्कर्तव्यम्। अत्र संपुंकानां सत्वम् (८.३.५ वा०) इति समो मकारस्य सकारः, पूर्वस्य चाकारस्यानुनासिकः। परिष्कर्ता। परिष्कर्तुम्। परिष्कर्तव्यम्। सुट्स्तुस्वञ्जाम् (८.३.७०) इति षत्वम्। उपस्कर्ता। उपस्कर्तुम्। उपस्कर्तव्यम्। भूषण इति किम् ? उपकरोति। संपूर्वस्य क्वचिदभूषणेऽपि सुडिष्यते, संस्कृतमन्नमिति॥
Padamanjari¶
सम्पूर्वस्य क्वचिदभूषणेऽपीष्यत इति। एतच्च’संस्कृतंक भक्षाः’ इति निर्देअसाल्लभ्यते ॥
Nyaas¶
सम्पूर्वस्य क्वचिदभूषणेऽपीष्यते इति। कथं पुनरिष्यमाणो लभ्यते? संस्कृतं भक्षाः (4.2.16) इत्याचार्यप्रवृत्तेलिङ्गात्॥
Prakriyasarvasvam¶
एभ्यो भूषणार्थे कृञि परे संहितायां कात्पूर्वः सुट् स्यात् । तुग्वदनुबन्धलोपः । सम् स् करोति ।
Sutra Prayogas¶
परिष्कृततलां (किरातार्जुनीयम्): संपर्युपेभ्यः करोतौ भूषणे इति सुडागमः।
परिष्कृतानां (किरातार्जुनीयम्): संपर्युपेभ्यः करोतौ भूषणे इति सुडागमः।
समस्कुरुत (शिशुपालवधम्): संपर्युपेभ्यः करोतौ भूषणे इति संपूर्वस्य सुडागमः।
पर्यस्कारि (शिशुपालवधम्): संपर्युपेभ्यः करोती भूषणे इति सुडागमः।
अ-संस्कृत्रिम (भट्टिकाव्यम्): संप- र्युपेभ्यः इति सुट् ।