61104: नादिचि¶
Padacheda: न | S | 0 | 0 |
आत् | S | 5 | 1 |
इचि | S | 7 | 1 |
Sutrartha¶
अवर्णात् प्रथमा-द्वितीययोः इच्-वर्णे परे **प्रथमयोः पूर्वसवर्णः (6.1.102) इत्यनेन पूर्वसवर्णदीर्घः न भवति ।**
अक्-वर्णात् प्रथमाद्वितीयाविभक्तेः अजादौ प्रत्यये परे प्रथमयोः पूर्वसवर्णः (6.1.102) इत्यनेन पूर्वपरयोः यः पूर्वसवर्णदीर्घैकादेशः विधीयते, तस्य अयम् निषेधः । अवर्णात् (इत्युक्ते, अकारात् / आकारात्) प्रथमाद्वितीयाविभक्तेः इजादौ प्रत्यये परे (इत्युक्ते, औ/औट्-प्रत्यये परे) अयम् सवर्णदीर्घः न भवति — इति अस्य सूत्रस्य आशयः । अस्य सूत्रस्य प्रयोगः केवलम् अकारान्तपुंलिङ्गशब्दानाम्, अकारान्तनपुंसकलिङ्गशब्दानाम् विषये एव भवति । उदाहरणे एते — 1) बालौ इति शब्दस्य सिद्धिः —
बाल + औ/औट् [प्रथमा/द्वितीयाद्विवचनस्य प्रत्ययः]
→ बालौ [**वृद्धिरेचि** (6.1.88) इत्यनेन वृद्धि-एकादेशे प्राप्ते ; युगपद् एव **प्रथमयोः पूर्वसवर्णः** (6.1.102) इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते ; **नादिचि** (6.1.104) इत्यनेन पूर्वसवर्णदीर्घस्य निषेधः भवति । अतः **वृद्धिरेचि** (6.1.88) इत्यनेन वृद्धि-एकादेशः ]
‘फले’ इति शब्दस्य सिद्धिः —
फल + औ/औट् [प्रथमा/द्वितीयाद्विवचनस्य प्रत्ययः]
→ फल + शी [**नपुंसकाच्च** (7.1.19) इति औट्-प्रत्ययस्य शी-आदेशः]
→ फल + ई [**लशक्वतद्धिते** (1.3.7) इति शकारस्य इत्संज्ञा, लोपः]
→ फले [**आद्गुणः** (6.1.87) इत्यनेन गुण-एकादेशे प्राप्ते ; युगपद् एव **प्रथमयोः पूर्वसवर्णः** (6.1.102) इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते ; **नादिचि** (6.1.104) इत्यनेन पूर्वसवर्णदीर्घस्य निषेधः । अतः **आद्गुणः** (6.1.87) इत्यनेन गुण-एकादेशः ]
आकारान्तशब्दानाम् विषये यद्यपि नादिचि (6.1.104) इति सूत्रस्य प्रयोगः सम्भवति, तथापि परत्वात् दीर्घाज्जसि (6.1.105) इति सूत्रैणैव सवर्णदीर्घस्य निषेधः क्रियते ।
सूत्रे **इचि इति पदग्रहणस्य प्रयोजनम्**
प्रकृतसूत्रे वस्तुतः “अचि” इति पदम् अनुवृत्तिरूपेण स्वीकर्तुं शक्यते । परन्तु <hl> अवर्णात् अकारे परे प्रकृतसूत्रेण उक्तः निषेधः नैव प्रयोक्तव्यः, अपि तु तत्र प्रथमयोः पूर्वसवर्णः (6.1.102) इत्यस्य प्रयोगः अवश्यं सम्भवति</qt> — इति स्पष्टीकर्तुम् एव अत्र “इचि” इति पृथकम् पदम् स्थापितम् अस्ति । इत्युक्ते, “राम + जस्” इत्यत्र यद्यपि अतो गुणे (6.1.97) इति अपवादसूत्रम् तथा च प्रथमयोः पूर्वसवर्णः (6.1.102) इति उत्सर्गसूत्रं युगपत् प्रवर्तेते, तथापि अत्र परत्वात् पूर्वसवर्णदीर्घः एव करणीयः । अयमेव विषयः भाष्ये प्रथमयोः पूर्वसवर्णः (6.1.102) इत्यत्र निर्दिष्टः वर्तते — <source> इज्ग्रहणं तु ज्ञापकं पररूप-अभावस्य । यद् अयं नादिचि इति इज्ग्रहणं करोति, तत् ज्ञापयति आचार्यः — न जस्-शसोः पररूपं भवति, इति । कथं कृत्वा ज्ञापकम् ? इज्ग्रहणस्य एतत् प्रयोजनम् — इह मा भूत् — वृक्षाः, वृक्षान् । यदि च जस्-शसोः पररूपं स्यात्, इज्ग्रहणम् अनर्थकं स्यात् । पश्यति तु आचार्यः — न जश्शसोः पररूपं भवति इति, तत् इज्ग्रहणं करोति । — <light>प्रथमयोः पूर्वसवर्णः इत्यत्र महाभाष्यम्</light> । </source> शास्त्ररूपेण “राम + जस्” इत्यत्र अतो गुणे (6.1.97) इति अपवादसूत्रम् तथा च प्रथमयोः पूर्वसवर्णः (6.1.102) इति उत्सर्गसूत्रं यदा युगपत् प्रवर्तेते, तदा प्रथमयोः पूर्वसवर्णः (6.1.102) इत्यनेन प्राप्तस्य पूर्वसवर्णदीर्घस्य एव प्रयोगं साधयितुम् पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः प्रयोगः क्रियते । अतश्च, प्रकृतसूत्रे विद्यमानम् “इचि” इति पदम् पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः अपि ज्ञापकरूपेण प्रयुज्यते । सिद्धान्तकौमुद्याः लक्ष्मीव्याख्याने अयं विषयः निर्दिष्टः अस्ति — <source> अस्य पुरस्तादिति न्यायविषयत्वे नादिचि इत्यत्र इज्ग्रहणं लिङ्गम् । पररूपेण पूर्वसवर्णदीर्घबाधे हि रामाः, रामान् इत्यादौ पररूपप्रवृत्त्या दीर्घ-अप्राप्त्या अचि इति अनुवृत्तौ अपि दोष-अभावेन अज्ग्रहणं व्यर्थीभूय परिभाषां ज्ञापयति । ज्ञापितायाम् तु अस्याम्, पररूपं बाधित्वा प्रथमयोः इति प्राप्त-दीर्घ-निषेध-अभावाय इज्ग्रहणं चरितार्थम् । — <light>प्रथमयोः पूर्वसवर्णः सिद्धान्तकौमुद्याः लक्ष्मी व्याख्या</light> । </source>
Sutrartha (English)¶
When अकार / आकार is followed by a प्रत्यय of प्रथमा or द्वितीया विभक्ति that begins with a letter of इच्-प्रत्याहार, then the पूर्वसवर्णदीर्घ given by ‘प्रथमयोः पूर्वसवर्णः’ does not happen.
Vasu English Summary¶
The substitution of a long vowel homogenous with the first, does not take place when अ or आ is followed by a vowel (other than अ) of the case-affixes of the Nominative and the Accusative.
Vasu English Translation¶
The substitution of a long vowel homogenous with the first, does not take place when अ or आ is followed by a vowel (other than अ) of the case-affixes of the Nominative and the Accusative. Thus वृक्षौ, प्लक्षौ, खट्वे, कुण्डे ॥ Here Rules (6.1.87) &c. apply. Why do we say “after अ or आ?” Observe अग्नी ॥ Why do we say “followed by an इच् (a vowel other than अ)”? Observe वृक्षाः here (VI.I.I02) applies.
Kashika¶
अवर्णादिचि पूर्वसवर्णदीर्घो न भवति। वृक्षौ। प्लक्षौ। खट्वे। कुण्डे। आदिति किम् ? अग्नी। इचीति किम् ? वृक्षाः॥
Siddhanta Kaumudi¶
अवर्णादिचिपरे न पूर्वसवर्णदीर्घः । आद्गुणः (SK69) । एङः पदान्तादति (SK86) । शिवोऽर्च्यः । अत इति तपरः किम् । देवा अत्र । अतीति तपरः किम् । श्व आगन्ता । अप्लुतात्किम् । एहि सुस्रोत3 अत्र स्नाहि । प्लुतस्यासिद्धत्वादतः परोऽयम् । अप्लुतादिति विशेषणे तु तत्सामर्थ्यान्नासिद्धत्वम् । तपरकरणस्य तु न सामर्थ्यं दीर्घनिवृत्त्या चरितार्थत्वात् । अप्लुते इति किम् । तिष्ठतु पय अ3ग्निदत्त । गुरोरनृत (SK97) इति प्लुतः ॥
Laghu Siddhanta Kaumudi¶
आदिचि न पूर्वसवर्णदीर्घः। वृद्धिरेचि। रामौ॥
Balamanorama¶
नादिचि - नादिचि । न-आदिति छेदः । आदिति पञ्चमी । पूर्वसवर्ण इत्यनुवर्तते । तदाह — अवर्णादिति । अनेन शिव — उ इत्यत्र पूर्वसवर्णदीर्घनिषेधः । आद्गुण इति । शिव उ इति स्थिते आद्गुणे इति गुणं बाधित्वा पूर्वसवर्णदीर्घे प्राप्ते तस्मिन्निषिद्धे सति बाधके निवृत्ते गुणः पुनरुन्मिषति ।देवदत्तस्य हन्तरि हते देवदत्तस्य न पुनरुन्मज्जन॑मिति न्यायस्तु नात्र प्रवर्तते । देवदत्ते हते सति तद्धन्तुर्हने देवदत्तस्य न पुनरुन्मेष इति हि तदर्थः । देवदत्तं हन्तुमुद्युक्तस्य हनने तु देवदत्तस्य उन्मेषोऽस्त्येव । प्रकृते च पूर्वसवर्णदीर्घेण गुणो न हतः । किन्तु हननोद्यम सजातीयं प्रसक्तिमात्रं पूर्वसवर्णदीर्घस्य स्थितम् । प्रसक्ते च तस्मिन्निषदे गुणोन्मेषो निर्बाध एवेति स्वादिष्विति सूत्रे कैयटे स्पष्टम् ।अपवादे निषिद्दे उत्सर्गस्य स्थितिः॑ इति न्यायश्च एतन्मूलक एव । ‘तौ सत्’ ‘भिद्योद्ध्यौ नदे’ इत्यादिनिर्देशाश्चात्रानुकूला इत्यलम् । एङः पदान्तादतीति । शिवो-अच्र्य इति स्थिते ओकारस्य अकारस्य च स्थाने पूर्वरूपमोकारः । देवा अत्रेति । देवास्-अत्रेति स्थिते, सस्य रुः तस्य दीर्घादाकारात्परत्वादतः परत्वाऽभावादुत्वं न, — किन्तु ‘भोभगो’ इति यत्वे, लोपः शाकल्यस्ये॑ति [यकार]लोपः । आ आगन्तेति । आस्-आगन्तेति स्थिते सस्य रुः । तस्य ह्रस्वाकारपरकत्वाऽभावादुत्वं न, किन्तु — यत्वं, लोपश्च । एहीति । सुरुआओत३र् — अत्रेति स्थिते प्लुतात्परस्य रोरुत्वनिवृत्तये अप्लुतादिति पदमित्यर्थः । नन्वत्र रोरतः परत्वाभावादेव उत्वनिवृत्तिसिद्धेरप्लुतादिति व्यर्थमेवेत्यत आह — प्लुतस्यासिद्धत्वादिति । उत्वे कर्तव्ये प्लुतस्यासिद्धत्वादतः परोऽयं रुः । अतस्तस्य उत्वे प्राप्ते तन्निवृत्त्यर्थमप्लुतादित्यावश्यकमित्यर्थः । नन्वप्लुतादित्युक्ते ।ञपि रोरुत्वमत्र दुर्वारम्, उत्वे कर्तव्ये प्लुतस्यासिद्धतया अप्लुतात्परत्वस्यापि सत्त्वादित्यत आह — प्लुतादितीति । विशेषणे तु तत्सामर्थ्यान्नासिद्धत्वमिति । यदि उत्वे कर्तव्ये प्लुतस्यासिद्धत्वं, तर्हि अप्लुतादिति विशेषणं व्यर्थमेव स्यात् । दत्तेऽपि विशेषणे प्लुतस्यासिद्धतयाऽप्लुतात्परत्वस्यापि सत्त्वेन उत्लप्राप्तिदोषतादवस्थ्यात् । अतोऽप्लुतादिति विशेषणसामर्थ्यात्प्लुतस्य नाऽसिद्धत्वमिति विज्ञायते इत्यर्थः । नन्वेवमपि अप्लुतादिति व्यर्थं,प्लुतात् परस्य रोरत॑ इति तपरकरणादेव उत्वनिवृत्तिसिद्धेः । नच उत्वे कर्तव्ये प्लुतस्याऽसिद्धत्वादतः परत्वस्यापि सत्त्वादुत्वं स्यादिति वाच्यं; तपरकरणसामर्थ्यादेव प्लुतस्याऽसिद्धत्वाऽबावविज्ञानेन अतः परत्वाभावेनैव उत्वनिवृत्तेः सम्भवादित्यत आह — तपरकरणस्येति ।प्लुतस्यासिद्धत्वाऽभावसाधने॑ इति शेषः । कुत एतदत आह — दीर्घनिवृत्त्येति ।देवा-अत्रे॑त्यादौ दीर्घव्यावृत्त्या लब्धप्रयोजनकत्वादित्यर्थः । येन विना यदनुपपन्नं तत्तस्य गमकम् । यथा दिवा अभुञ्जानस्य पीनत्वं रात्रिभोजनं विना अनुपपद्यमानं रात्रिभोजनस्य गमकम् । प्रकृते तु प्लुतस्यासिद्धत्वेऽपि ‘अत’ इति तपरकरणंदेवा अत्रे॑त्यादौ दीर्घव्यावृत्तिरूपं प्रयोजनं लब्ध्वा उपपद्यमानं सत्कथं प्लुतस्यासिद्धत्वाऽभावं गमयितुं शक्नुयादिति भावः । तिष्ठतु पय आ३ग्निदत्तेति । अत्र पयस् इति स्थिते, सस्य रुः, तस्य प्लुतपरकत्वादुत्वं न । ननु दूराद्धूते चेति वाक्यस्य टेः प्लुतविधानात् कथमिह अग्निदत्तशब्दे आद्यवर्णस्य प्लुत इत्यत आह — गुरोरिति ।
Tattvabodhini¶
नादिचि - तद्धिनादिची॑ति पूर्वसवर्णदीर्घे निषिद्धे पुनरुत्सर्गस्य वृद्धेः प्रवृत्त्यैव सिध्यति नान्यथेति । नन्वेवंनान्तःपादमव्यपरे॑ इति पाठेसुजाते अआसूनृते॑उपप्रयन्तो अध्वर॑मित्यादौएङः पदान्तादती॑ति पूर्वरूपमेव हि तेन निषिध्येत, तस्मश्च निषिद्धेएचोऽडयवायावः॑ इत्युत्सर्गोऽपि प्रवर्तेत ।मैवम् ; बाधके निषिद्धे बाध्यमपि क्वचिन्नेति स्वीकारात्तत्सिद्धेः ।
Padamanjari¶
खट्वे इति। ठौङ् आपःऽ इति औङ्ः शीभावः। कुण्कडे इति। अत्रापि’नपंसकाच्च’ इति ॥
Nyaas¶
खट्वे इति। औङ आपः (7.1.18) इति शीभावः। कुण्डे इति। अत्रापि नपुंसकाच्च (7.1.19) इति, तत्र कृते आद्गुणः (6.1.87) इति गुणः॥
Prakriyasarvasvam¶
अवर्णादिचि पर उक्तदीर्घो न । ‘वृद्धिरेचि’ (६–२–८८) कृष्णौ ॥
Sarala¶
वृद्धिरेचि (६.१.८८) इत्येतद्बाधोद्यतस्यैव प्रथमयोः पूर्वसवर्णः (६.१.१०२) इति पूर्वसवर्णदीर्घस्य “नादिचि” इत्यनेन बाधनात् वृद्धिरेचि (६.१.८८) इति शास्त्रमबाधितमेवेति तच्छास्त्रं प्रवर्तते एवेति भावः ॥