61095: ओमाङोश्च

Padacheda: ओम्-आङोः | S | 7 | 2 |

च | S | 0 | 0 |

Sutrartha

अवर्णात् ओम्-शब्दे परे आङ्-शब्दे च परे संहितायाम् पूर्वपरयोः एकः पररूप-एकादेशः भवति ।

अवर्णात् (इत्युक्ते, अकारात् उत आकारात्) परः यदि ‘ओम्’ (ॐ) शब्दः, अथवा ‘आङ्’ उपसर्गः विद्यते चेत् संहिताया: विषये पूर्वपरवर्णयोः पररूप-एकादेशः भवति । उदाहरणानि क्रमेण एतादृशानि — (1) <hlb>ओम्-शब्दः</hlb> — अवर्णात् ओम्-शब्दस्य ओकारे परे पूर्वपरयोः वृद्धिरेचि (6.1.88) इत्यनेन वृद्ध्येकादेशे प्राप्ते, तद्बाधित्वा प्रकृतसूत्रेण पररूप-एकादेशः भवति ।

<li>शिवाय ओम् नमः → शिवायोम् नमः । <li>का ओम् अवोचत् → कोम् अवोचत् ।

  1. <hlb>आङ्-उपसर्गः</hlb> — धातुरूपस्य आदौ विद्यमानः आङ्-उपसर्गः अवर्णात् परः विद्यते चेत् पूर्वपरयोः पररूप-एकादेशः भवति । वस्तुतस्तु अस्यां स्थितौ धातूपसर्गयोः कार्यम् अन्तरङ्गम् इति परिभाषया आदौ आङ्-उपसर्गस्य धातुना सह सन्धिकार्यम् क्रियते । अनेन सन्धिकार्येण आङ्-इत्यस्य स्थाने जायमानेन वर्णेन सह तस्मात् पूर्वम् विद्यमानस्य अवर्णस्य पररूपैकादेशः भवितुम् अर्हति । यथा —

<li>1. “अद्य + आ + इङ्खति” इत्यत्र आङ्-उपसर्गस्य ‘इङ्खति’ इत्यस्य इकारेण सह गुणैकादेशे कृते “अद्य + एङ्खति” इति स्थिते, वृद्धिरेचि (6.1.88) इत्यनेन वृद्ध्येकादेशे प्राप्ते, तद्बाधित्वा प्रकृतसूत्रेण पररूप-एकादेशः भवति, येन “अद्येङ्खति” इति रूपं सिद्ध्यति । <li>2. “अद्य + आ + उङ्खति” इत्यत्र आङ्-उपसर्गस्य ‘उङ्खति’ इत्यस्य उकारेण सह गुणैकादेशे कृते “अद्य + ओङ्खति” इति स्थिते, वृद्धिरेचि (6.1.88) इत्यनेन वृद्ध्येकादेशे प्राप्ते, तद्बाधित्वा प्रकृतसूत्रेण पररूप-एकादेशः भवति, येन “अद्योङ्खति” इति रूपं सिद्ध्यति ।

**ओमाङोश्च (6.1.95) इति सूत्रम् सर्वेषाम् सन्धिकार्याणाम् बाधकम्**

प्रकृतसूत्रम् अन्येषाम् सर्वेषाम् सन्धिकार्याणाम् बाधकरूपेण विधीयते । तदित्थम् — 1. **ओमाङोश्च (6.1.95) इति वृद्धिरेचि (6.1.88) इत्यस्य बाधकम्** — “अद्य + आ + इङ्खति” इत्यत्र आङ्-उपसर्गस्य ‘इङ्खति’ इत्यस्य इकारेण सह गुणैकादेशे कृते “अद्य + एङ्खति” इति स्थिते, वृद्धिरेचि (6.1.88) इत्यनेन वृद्ध्येकादेशे प्राप्ते, तद्बाधित्वा ओमाङोश्च (6.1.95) इत्यनेन पररूप-एकादेशः भवति, येन “अद्येङ्खति” इति रूपं सिद्ध्यति । 2. **ओमाङोश्च (6.1.95) इति एत्येधत्यूठ्सु (6.1.89) इत्यस्य बाधकम्** — “शिव + आ + इहि” इत्यत्र आङ्-उपसर्गस्य ‘इहि’ इत्यस्य इकारेण सह गुणैकादेशे कृते “शिव + एहि” इति स्थिते, एत्येधत्यूठ्सु (6.1.89) इत्यनेन वृद्ध्येकादेशे प्राप्ते, तत् परत्वात् बाधित्वा ओमाङोश्च (6.1.95) इत्यनेन पररूप-एकादेशः भवति, येन “शिवेहि” इति रूपं सिद्ध्यति । 3. **ओमाङोश्च (6.1.95) इति एङि पररूपम् (6.1.94) इत्यस्य बाधकम्** — “प्र + आ + इङ्खति” इत्यत्र आङ्-उपसर्गस्य ‘इङ्खति’ इत्यस्य इकारेण सह पररूपैकादेशे कृते “प्र + एङ्खति” इति स्थिते, एङि पररूपम् (6.1.94) इत्यनेन पररूप-एकादेशे प्राप्ते, तत् परत्वात् बाधित्वा ओमाङोश्च (6.1.95) इत्यनेन पुनः पररूप-एकादेशः एव भवति, येन “प्रेङ्खति” इति रूपं सिद्ध्यति । 4. **ओमाङोश्च (6.1.95) इति अकः सवर्णे दीर्घः (6.1.101) इत्यस्य बाधकम्** — ‘देवस्य आलयः’ इत्यत्र “देव + आङ् + लय” इति स्थिते, अकः सवर्णे दीर्घः (6.1.101) इत्यनेन सवर्णदीर्घ-एकादेशे प्राप्ते, तत्बाधित्वा ओमाङोश्च (6.1.95) इत्यनेन पररूप-एकादेशः भवति, येन “देवालय” इति रूपं सिद्ध्यति । <note>”देव + आलय → देवालय” इत्यादिषु स्थलेषु अकः सवर्णे दीर्घः (6.1.101) इत्यनेन सवर्णदीर्घः मन्यते चेदपि नैव दोषाय इति बहवः वैयाकरणाः प्रतिपादयन्ति । तत् विधानम् छात्राणाम् सौलभ्यार्थम् कृतम् अस्ति । शास्त्रदृष्ट्या तु अत्र सवर्णदीर्घं बाधित्वा पररूप-एकादेशेन एव आकारः विधीयते ।</note>

Sutrartha (English)

In the context of संहिता, When अवर्ण is followed by the word ओम् or the word आङ् , both the letters are replaced by a single पररूप.

Vasu English Summary

For the अ or आ of ओम् or + the vowel of the Preposition आङ् , the second vowel is the single substitute.

Vasu English Translation

For the अ or आ of ओम् or + the vowel of the Preposition आङ् , the second vowel is the single substitute. The आत् is understood here. Thus का + ओम् = कोम्; या + ओम् = योम्; as कोमित्यवोचत्, योमित्यवोचत्; आ + ऊढा = ओढा, then अद्य + ओढा = अद्योढा, कदा + ओढा = कदोढा, तदा + ओढा = तदोढा ॥ आ + ऋश्यात् = अर्श्यात्, then अद्य + अर्श्यात् = अद्यर्श्यात् ॥ Thus this rule supersedes both the Vriddhi and the lengthening (6.1.88), and (6.1.101).

Bhashya

ओमाङोश्च (2532) (चकारानर्थक्यबोधकभाष्यम्) किमर्थश्चकारः ? । एङीत्यनुकृष्यते । किं प्रयोजनम् ? । इह मा भूत् - अद्य आ ऋश्यात् - अद्यार्श्यात्, कदा अर्श्यात् - कदार्श्यात् । नैतदस्ति प्रयोजनम् । अर्द्यश्यादित्येव भवितव्यम् । एवं हि सौनागाः पठन्ति - चोऽनर्थकोऽनधिकारादेङः ॥ (6194 एकदेशिन उपसंख्यानवार्तिकम् ॥ 1 ॥) - उस्योमाङ्क्ष्वाटः प्रतिषेधः - उसि पररूपे ओमाङोश्चाटः प्रतिषेधो वक्तव्यः । औस्रीयत्, औढीयत्, औङ्कारीयत् ॥ स तर्हि प्रतिषेधो वक्तव्यः । न वक्तव्यः । उक्तमाटश्च (90) इत्यत्र चकारस्य प्रयोजनम् - आटोऽचि वृद्धिरेव यथा स्यात्, यदन्यत् प्राप्नोति तन्मा भूदिति ॥

Kashika

आदित्येव । अवर्णान्तादोमि आङि च परतः पूर्वपरयोः स्थाने पररूपमेकादेशो भवति। का ओमित्यवोचत् कोमित्यवोचत्। योमित्यवोचत्। आङि खल्वपि — आ ऊढा ओढा। अद्य ओढा अद्योढा। कदा ओढा कदोढा। तदा ओढा तदोढा। वृद्धिरेचि (६.१.८८) इत्यस्यापवादः। इह तु आ ऋश्यात् अर्श्यात्, अद्य अर्श्यात् अद्यर्श्यादिति अकः सवर्णे दीर्घत्वं (६.१.१०१) बाधते॥

Siddhanta Kaumudi

ओमि आङि चात्परे पररूपमेकादेशः स्यात् । शिवायों नमः । शिव एहि । शिवेहि ॥

Laghu Siddhanta Kaumudi

ओमि आङि चात्परे पररूपमेकादेशः स्यात् । शिवायों नमः । शिव एहि ॥

Laghu Shabdendushekhar

ओमाङोः । अत्र एङीति नानुवर्त्तते । तेनेषदर्थकाऽऽङा सह ऋषभशब्दस्य समासे “अद्य अर्षभः” इत्यत्र पररूपेऽद्यर्षभसिद्धिः । न चात्र परत्वाद्दीर्घप्रसङ्गः । प्रतिपदविधित्वञ्च निरवकाशत्वे सत्येव बाधकत्वे प्रयोजकम् । इदञ्च मध्येऽपवादन्यायेन “अवेहि” इत्यादौ वृद्धेरेव बाधकं स्यादिति वाच्यम्, लक्ष्यानुरोधेनात्र बाध्यसामान्यचिन्ताश्रयणात् । अन्यत्र प्रतिपदविधित्वस्य बलवत्त्वे प्रयोजकतादर्शनेन परदीर्घात्पूर्वं पररूपप्रवृत्तेश्च ॥

Balamanorama

ओमाङोश्च - ओमाङोश्च । ओम् च आङचेति विग्रहः । आदिति पररूपमिति चानुवरग्तते, एकः पूर्वपरयो॑रिति च । तदाह — ओमीत्यादिना । शिवार्योनम इति । अत्र वृदिंध बाधित्वा पररूपम् । शिवहीति । आःइहीति स्थिते गुणेएही॑ति रूपम् । ततः शिव-एहि इति स्थिते वृदिंध बाधित्वा पररूपमेकारः । नचशिव-अःइही॑ति स्थिते सवर्णदीर्घे कृते पश्चाद्गुणे शिवेहीति रूपसिद्धेराङ्ग्रहणं व्यर्थमिति वाच्यं,धातूपसर्गयोः कार्यमन्तरङ्ग॑मिति न्यायेन प्रथमाद्गुण इति गुणे कृते शिव-एहीति स्थिते वृद्धौ प्राप्तायां तन्निवृत्त्यर्थत्वात् । भाष्ये तु-आ ऋश्यात्, गुणः अश्र्यात्, अद्य-अश्र्यात्-अद्यश्र्यादित्यत्र सवर्णदीर्घनिवृत्त्यर्थमाद्ग्रहणमिति स्थितम् ।

Tattvabodhini

ओमाङोश्च - शिवेहीति । ननुशिव आ इही॑त्यत्र सवर्णदीर्घे कृते पश्चादाद्गुणे च सिद्ध मिष्टं तत्किमाङ्ग्रहणेन । सत्यम् ।पूर्वं धातुरूपसर्गेण युज्यते॑ इति दर्शनेधातूपसर्गयोः कार्यमन्तरङ्ग॑मिति पूर्वं गुणे कृते वृद्धिः स्यात्, तन्मा भूदित्याग्रहणम् ।अव्यक्तानुकरणस्यात इतौ । यद्यपिअतो गुणे॑ इति पूर्वसूत्रादत इत्यनुवर्त्त्याऽतो ग्रहणमिह त्यक्तुं शक्यं, तथापि पूर्वसूत्रेअत॑इति तपरकरणाद्ध्रस्वाकारस्य ग्रहणमिह तु शब्दाधिकारपक्षाश्रयणादच्छब्दस्य ग्रहणमिति व्याख्याने क्लेशः स्यादिति पुनरत्राऽतो ग्रहणं कृतम् । ॒अव्यक्त॑शब्दं व्याचष्टे-ध्वनेरिति । अनुकरणस्येति । परिस्फुटाऽकारादिवर्णस्येति भावः । तस्य चानुकरणत्वं किंचित्साम्येन बोध्यम् । पररूपस्याऽस्य नित्यत्वेऽपि संहितायामविवक्षितायां तदभावादाह-पटत्-इतीदी ।

Padamanjari

अद्योढेअति। आङ्नाङेरेकादेश आङ्ग्रहणेन गृह्यत इति भवत्युदाहरणम्। अत्र च’धातूपसर्गयोः कार्यमन्तरङ्गम्’ इति पूर्वमाद्गुणए कृते पश्चादद्यशब्देन सम्बन्धे वृद्धिः प्राप्नोति, एवमाङे रूपमवितष्टम्। अद्य गाअगत इत्यादौ तत्र सवर्मदीर्घत्वेन सिद्धं रूपम्। अकः सवर्णे दीर्घत्वं बाध्यत इति। ननु च मध्येऽपवादन्यायेन वृद्धेरेव बाधो युक्तः न दीर्घत्वस्य? नैष दोष; चकारोऽत्र क्रियते, स पुनर्विदानार्थो भविष्यति ॥

Nyaas

अद्योढा इति। अद्य+ओढा। ननु च आदगुणः (6.1.87) इत्यनेनाङो निवर्त्तितत्वादिदमाङ उदाहरणं युज्यते? आङ्माङोरेकादेशस्त्वाङ्ग्रहणेन गुह्रत इत्यदोषः। पूर्वमेव हीदमुक्तम् -द्वयोः षष्ठीनिर्दिष्टयोः स्थाने यो भवति लभतेऽसावन्यतरव्यपदेशम् इति। किमर्थं पुनराङो ग्रहणम्, यावता प्रागेवाङः पूर्वेम सह अकः सवर्णे दीर्घः (6.1.101) इति दीर्घत्वे कृते ततः परेण सह आद्गुणः (6.1.87) इति गुणे चाद्योढेत्यादि सिद्धमेव? न सिध्यति, यतः धातूपसर्गयोः कार्यमन्तरङ्गम् (व्या।वृ।37) इति पूर्वमाद्गुणेन भवितव्यम्, तथा च सति वृद्धिः स्यात्। अत आङोऽपि ग्रहणं कर्तव्यम्। इह त्वकः सवर्णे दीर्घत्वं बाध्यते इति। अस्य विधेरविशेषविहितत्वात्, अकः सवरणे दीर्घस्य च सामान्यविहितत्वात्। विशेषविहितोऽपि सामान्यविहितस्य बाधको भवतीति प्रतिपादितमेतत्॥

Prakriyasarvasvam

अवर्णादनयोः पररूपं स्यात् । राजोमित्यवदत् । आङि तु आ इहि एहि इति सिद्धे पुनः सन्धौ पररूपम् । कृष्ण एहि कृष्णेहि । पच अन्ति ।

Sarala

आद्गुणः (६.१.८७) इत्यत “आ”दिति वर्त्तते, तदाह - अत्परे इति । अवर्णादोमि आङि च परे इति सरलोऽर्थः ॥

Sudha

शिवायों नम इति । “शिवाय-ओं नमः” अत्र ओमाङोश्च (6.1.95) इत्यनेन अवर्णात् ओमि परे पूर्वपरयोः स्थाने पररूपे “शिवायों नमः” इति भवति ॥