61052: खिदेश्छन्दसि¶
Padacheda: खिदेः | S | 6 | 1 |
छन्दसि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
There is optionally the substitution of आ in the room of the diphthong of the verb खिद् ‘to suffer pain’, in the छन्दस्।
Vasu English Translation¶
There is optionally the substitution of आ in the room of the diphthong of the verb खिद् ‘to suffer pain’, in the छन्दस्। The word विभाषा is understood here. Thus चित्तं चिखाद or चिखेद ॥ In secular literature we have चित्तं खेदयति ॥
Kashika¶
विभाषेति वर्तते। खिद दैन्ये इत्यस्य धातोरेचः स्थाने छन्दसि विषये विभाषा आकार आदेशो भवति। चित्तं चखाद। चित्तं चिखेद। छन्दसीति किम् ? चित्तं खेदयति॥
Siddhanta Kaumudi¶
खिद दैन्ये । असेयैच आद्वा स्यात् । चिखाद । चिखेदेत्यर्थः ॥
Padamanjari¶
चखादेति। व्यत्ययेन परस्मैपदम्, आत्वस्यानैमितिकत्वाद्’द्विर्वचने’ चिऽ इति स्थानिवत्वाभावदभ्यासस्येवर्णान्तता न भवति। अयं योगः शक्योऽवक्तम्। कथम्? खादेः - चखाद, खिदेः - चिखेदेति, अनेकार्थत्वाद्दातूनामर्थभेदोऽप्यकिञ्चित्करः ॥
Nyaas¶
चिखाद इति। पुगन्तलघूपधस्य (7.3.86) इति गुणे कृत आकारः। यदि खादिरपि खिदेरर्थे वर्तते, ततोऽयं योगः शक्योऽकर्त्तुम्; खादेस्तु - चखादेति भविष्यति, खिदेस्तु - चिखेदेति॥
Prakriyasarvasvam¶
खिदेरेचो वा आत्वं स्यात् । या शश्वन्तमाचखाद । एवं चिखेद ।