54152: इनः स्त्रियाम्

Padacheda: इनः | S | 1 | 1 |

स्त्रियाम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

The affix कप् is added to a बहुव्रीहि समास the last member of which ends in इन् when a feminine word is denoted

Vasu English Translation

The affix कप् is added to a बहुव्रीहि समास the last member of which ends in इन् when a feminine word is denoted Thus बहवो दण्डिनोऽस्यां शालायां = बहुदण्डिका शाला ॥ So also बहुछत्रिका; बहुस्वामिका नगरी, बहुवाग्मिका सभा ॥ Why do we say when denoting a feminine? Observe बहुदण्डी राजा or बहुदण्डिकः ॥ The latter form is derived by adding कप् optionally under (5.4.154).

Kashika

इन्नन्ताद् बहुव्रीहेः कप् प्रत्ययो भवति स्त्रियां विषये। बहवो दण्डिनोऽस्यां शालायां बहुदण्डिका शाला। बहुच्छत्रिका। बहुस्वामिका नगरी। बहुवाग्ग्मिका सभा। स्त्रियामिति किम्? बहुदण्डी राजा, बहुदण्डिकः। शेषाद् विभाषा (५.४.१५४) इत्येतद् भवति॥

Siddhanta Kaumudi

बहुदण्डिका नगरी ॥ [(परिभाषा - ) अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेनापि तदन्तविधिं प्रयोजयन्ति] ॥ बहुवाग्ग्मिका । स्त्रियां किम् । बहुदण्डी । बहुदण्डिको ग्रामः ॥

Balamanorama

इनः स्त्रियाम् - इनः स्त्रियाम् । इन्नन्तात् पर् स्याद्बहुव्रीहावित्यर्थः । बहुदण्डिका नगरीति । दण्डोऽस्या अस्तीति दण्डी । ‘अत इनिठनौ’ इति इनिः । बहवो दण्डिनो यस्यामिति विग्रहः । बहुवाग्ग्मिकेति । वागस्यास्तीति वाग्ग्मी । वाचो ग्मिनिः॑ इति ग्मिनिप्रत्ययः । नकारादिकार उच्चारणार्थः । तद्धितत्वाद्गकारस्य नेत्संज्ञा, चकारस्य कुत्वम्, जश्त्वम्, वाग्ग्मीति रूपम् । बहवो वाग्ग्मिनो यस्यामिति विग्रहः । अत्रेन अनर्थकत्वेऽपिअनिनस्मन्नि॑ति वचनात्तदन्तस्याप्यत्र ग्रहणमिति भावः । बहुदण्डी बहुदण्डिको ग्राम इति । बहवो दण्डिनो यस्मिन्निति विग्रहः । अत्र समासस्याऽस्तरीलिङ्गत्वान्न नित्यः कविति भावः ।

Tattvabodhini

इनः स्त्रियाम् - बहुवाग्ग्मिकेति ।वाचो ग्मिनिः॑ ।

Padamanjari

ठनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधं प्रयोजयन्तिऽ ॥

Nyaas

इदमपि पूर्ववत्? कपि सिद्धे नित्यार्थमेव। `बहुदण्डिकः इति। नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नलोपः॥

Prakriyasarvasvam

इन्नन्ताद् बहुव्रीहेः स्त्रियां नित्यं कप् स्यात् । बहुवाग्मिका सभा । अस्त्रियां तु बहुवाग्मी मठः ॥

Vartika

अर्थान्नञः ।

Sutra Prayogas

  • परिणतदिक्करिकाः (शिशुपालवधम्): इनः स्त्रियाम् इति समासान्तः कप्प्रत्ययः।