54150: सुहृद्दुर्हृदौ मित्रामित्रयोः¶
Padacheda: सुहृद्दुर्हृदौ | S | 1 | 2 |
मित्रामित्रयोः | S | 7 | 2 |
Sutrartha¶
Vasu English Summary¶
The words सुहृत् and दुहृत् are irregularly formed बहुव्रीहि समास denoting ‘a friend’ and ‘a foe’ respectively.
Vasu English Translation¶
The words सुहृत् and दुहृत् are irregularly formed बहुव्रीहि समास denoting ‘a friend’ and ‘a foe’ respectively. The word सुहृत् is derived from सु + हृदय, the अय of हृदय being elided in the Bahuvrihi. It means one whose heart is favourably disposed towards another. So also दुर्हृत् is derived from दुर् + हृदय, he whose heart is evil.
Why do we say “when meaning a friend and a foe respectively”? Observe सुहृदयः कारुणिकः ‘the kind-hearted, merciful’. दुर्हृदयश्चोरः “the evil hearted thief”.
Kashika¶
सुहृद् दुर्हृद् इति निपात्यते यथासंख्यं मित्रामित्रयोरभिधेययोः। सुशब्दात् परस्य हृदयशब्दस्य हृद्भावो निपात्यते बहुव्रीहौ, तथा दुःशब्दात् परस्य। शोभनं हृदयमस्य सुहृद् मित्रम्। दुष्टं हृदयमस्य दृर्हृद् अमित्रम्। मित्रामित्रयोरिति किम् ? सुहृदयः कारुणिकः। दृर्हृदयश्चोरः॥
Siddhanta Kaumudi¶
सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते । सुहृन्मित्रम् । दुहृदमित्रः । अन्यत्र सुहृदयः । दुर्हृदयः ॥
Laghu Siddhanta Kaumudi¶
सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते। सुहृन्मित्रम्। दुर्हृदमित्रः॥
Balamanorama¶
सुहृद्दुर्हृदौ मित्रामित्रयोः - सुह्मद्दुह्र्मदौ । यथासङ्ख्यमभिप्रेत्योदाहरति — सुह्मन्मित्रमिति । सु शोभनं ह्मदयं यस्येति विग्रहः ।
Prakriyasarvasvam¶
अन्यत्र सुहृदयः, दुर्हृदयः ॥
Sutra Prayogas¶
सुहृदयोहृदयः (रघुवंशम्): सुहृद्दुर्हृदौ मित्रामित्रयोः इति निपातः।
समानमानान्सुहृदश्च (किरातार्जुनीयम्): सुहृद्दुर्हृदौ मित्रामित्रयोः इति निपातः ।
सुहृदो (शिशुपालवधम्): सुहृदुहृदो मित्रामित्रयोः इति निपातः।
सुहृदिवाधिकां (शिशुपालवधम्): सुहृदुर्हृदौ मित्रामित्रयोः इति निपातः।
सुहृत् (शिशुपालवधम्): सुहृद्दुहृदौ मित्रामित्रयोः इति हृदयशब्दस्य हृद्भावो निपातितः।
सुहृदौ (भट्टिकाव्यम्): सुहृद्दुर्हृदौ मिला- मित्रयोः इति निपातनम्।