54146: ककुदस्यावस्थायां लोपः

Padacheda: ककुदस्य | S | 6 | 1 |

अवस्थायाम् | S | 7 | 1 |

लोपः | S | 1 | 1 |

Sutrartha


Vasu English Summary

The final letter of ककुद is dropped in a बहुव्रीहि समास when it denotes age or condition of animals.

Vasu English Translation

The final letter of ककुद is dropped in a बहुव्रीहि समास when it denotes age or condition of animals. The word अवस्था means the changes which things undergo by lapse of time, such as age &c. Thus असंजातं ककुदमस्य = असंजातककुत् = बालः “the young of an animal”, पूर्णककुत् = मध्यमवया “middle-aged animal”; उन्नतककुत् = वृद्धावया “old”. स्थूलककुत् = बलवान् ‘strong’, यष्टिककुत् = नातिस्थूलो नातिकृशः ॥

Why do we say when denoting a condition? Observe श्वेतककुदः ॥

Kashika

ककुदशब्दान्तस्य बहुव्रीहेर्लोपो भवति समासान्तोऽवस्थायां गम्यमानायाम्। कालादिकृता वस्तुधर्मा वयःप्रभृतयोऽवस्थेत्युच्यते। असञ्जातं ककुदमस्य असंजातककुत्। बालइत्यर्थः। पूर्णककुत्। मध्यमवया इत्यर्थः। उन्नतक कुत्। वृद्धवया इत्यर्थः। स्थूलककुत्। बलवानित्यर्थः। यष्टिककुत्। नातिस्थूलो नातिकृश इत्यर्थः। अवस्थायामिति किम्? श्वेतककुदः॥

Siddhanta Kaumudi

अजातककुत् । पूर्णककुत् ॥

Balamanorama

ककुदस्यावस्थायां लोपः - ककुदस्य । अवस्थायां गम्यमानायां ककुदस्य लोपः स्याद्बहुव्रीहावित्यर्थः । आहारकालादिकृतोऽवयवनामुपचयोऽपचयश्चावस्थेत्युच्यते । बलीवर्ददोर्मूलगतो बाल्ये उद्भूतोऽवयवः ककुदम् । अजातककुदिति । अजातं ककुदमस्येति विग्रहः । बाल इत्यर्थः । पूर्णककुदिति । पूर्णं ककुदमस्येति विग्रहः । युवेत्यर्थः ।

Tattvabodhini

ककुदस्यावस्थायां लोपः - अजातेति । अजातं ककुदमस्येति विग्रहः । इह हि बाल्यावस्था गम्यते ।

Padamanjari

कालादिकृता इति। सादिशब्देनाहारपरिणामादेर्ग्रहणम् ॥

Nyaas

कालादिकृता इति। आदिशब्देनाहारादयो गृह्यन्ते॥

Prakriyasarvasvam

अवस्थायां द्योत्यायां ककुदस्यान्तलोपः स्यात् । अजातककुद् वृषः । पूर्णककुत् ॥