54101: खार्याः प्राचाम्

Padacheda: खार्याः | S | 5 | 1 |

प्राचाम् | S | 6 | 3 |

Sutrartha

यस्मिन् तत्पुरुषसमासे ‘खारी’ शब्दः उत्तरपदरूपेण विद्यते, तथा च ‘अर्ध’ शब्दः पूर्वपदरूपेण विद्यते उत द्विगुसमासविधानम् भवति, तत्र ‘टच्’ इति समासान्तप्रत्ययः भवति ।

यस्मिन् तत्पुरुषसमासे ‘खारी’ (किञ्चन परिमाणम्, quintal इत्याशयः) इति शब्दः उत्तरपदरूपेण विद्यते, तथा च ‘अर्ध’ शब्दः पूर्वपदरूपेण विद्यते, तस्मात् प्राचामाचार्याणाम् मतेन (इत्युक्ते, विकल्पेन) ‘टच्’ इति समासान्तप्रत्ययः भवति । तथा च, यस्मिन् द्विगुसमासे ‘खारी’ शब्दः उत्तरपदरूपेण विद्यते, तस्मात् अपि प्राचामाचार्याणाम् मतेन (इत्युक्ते, विकल्पेन) टच् इति समासान्तप्रत्ययः भवति । उदाहरणे एते - 1. अर्धम् खार्याः (half quintal) [अर्धं नपुंसकम् (2.2.2) इति प्रथमातत्पुरुषसमासः] → अर्ध + खारी + टच् [वर्तमानसूत्रेण वैकल्पिकः टच्-प्रत्ययः] → अर्ध + खार् + अ [यस्येति च (6.4.148) इति टिलोपः] → अर्धखार अर्धं खार्याः अर्धखारम् । पक्षे (टच्-प्रत्ययस्य अभावे) अर्धखारि इत्यपि रूपम् सिद्ध्यति । प्रक्रियायाम् ‘अर्ध + खारी’ इति स्थिते ह्रस्वो नपुंसके प्रातिपदिकस्य (1.2.47) इत्यनेन ‘खारी’ इत्यस्य ह्रस्वादेशः भवतीति विशेषः । 2. द्वयोः खार्योः समाहारः [तद्धितार्थोत्तरपदसमाहारे च (2.1.51) इति द्विगुसमासः] → द्वि + खारी + टच् [वर्तमानसूत्रेण वैकल्पिकः टच्-प्रत्ययः] → द्वि + खार् + अ [यस्येति च (6.4.148) इति टिलोपः] → द्विखार [स नपुंसकम् (2.4.17) इत्यनेन नपुंसकलिङ्गम्] द्वयोः खार्योः समाहारः द्विखारम् । पक्षे (टच्-प्रत्ययस्य अभावे) द्विखारि इत्यपि रूपम् सिद्ध्यति । अत्रापि ‘द्वि + खारी’ इति स्थिते ह्रस्वो नपुंसके प्रातिपदिकस्य (1.2.47) इत्यनेन ‘खारी’ इत्यस्य ह्रस्वादेशः भवति । विशेषः - अस्मिन् सूत्रे ‘अतद्धितलुकि’ इति न अनुवर्तते, यतः खारी-शब्दस्य विषये तद्धितप्रत्ययस्य लुक् न सम्भवति । अस्मिन् विषये खार्या ईकन् (5.1.33) इत्यत्र विस्तारेण उक्तमस्ति ।

Vasu English Summary

To the word खारी , at the end of a द्विगु समास (Numeral Determinative Compound) and to the same, when preceded by the word अर्ध in a तत्-पुरुष समास the affix टच् is added, according to the opinion of the Eastern Grammarians.

Vasu English Translation

To the word खारी , at the end of a द्विगु समास (Numeral Determinative Compound) and to the same, when preceded by the word अर्ध in a तत्-पुरुष समास the affix टच् is added, according to the opinion of the Eastern Grammarians. The words द्विगोः and अर्द्धात् are both understood here. Thus द्वे खार्यौ समाहृते = द्विखारम् or द्विखारि ॥ So also अर्धं खार्या = अर्धखारम् or अर्धखारी ॥ According to Padamanjari this sutra could be dispensed with: as खार is synonymous with, खारी, as द्विखारं, त्रिखारं ॥ And it will be govered by the Vartika ठन्येभ्योऽपि दृश्यते खार शताद्यर्थम् under (5.1.57) and (5.1.58), in Mahabhashya.

Kashika

द्विगोरर्धाच्चेति द्वयमप्यनुवर्तते। खारीशब्दान्ताद् द्विगोरर्धात् च परो यः खारीशब्दस्तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति प्राचामाचार्याणां मतेन। द्वे खार्यौ समाहृते द्विखारम्, द्विखारि। त्रिखारम्, त्रिखारि। अर्धं खार्या अर्धखारम्, अर्धखारी॥

Siddhanta Kaumudi

द्विगोरर्धाच्च खार्याष्टज्वा स्यात् । द्विखारम् । द्विखारि । अर्धखारम् । अर्धखारि ॥

Balamanorama

खार्याः प्राचाम् - खार्या) प्राचाम् । खारीशब्दान्ताद्द्विगोरर्धपूर्वकात्खारीशब्दान्तात्तत्पुरुषाच्चेत्यर्थः । द्विखारमिति । द्वयोः खार्योः समाहार इति विग्रहे द्विगुः । टच् ।यस्येति च॑ ।स नपुंसक॑मिति नपुंसकत्वम् । टजभावपक्षेस नपुंसक॑मिति नपुंसकत्वान्नपुंसकह्रस्वः । अर्धखारमिति । खार्या अर्धमिति विग्रहः ।अर्धं नपुंसक॑मिति समासः, टच्, यस्येति च । क्लीबत्वं लोकात् । अर्धखारीति । पूर्ववत्समासः । टजभावपक्षेपरवल्लिङ्ग॑मिति स्त्रीत्वम् । एकविभक्तावषष्ठन्तवचनादुपसर्जनत्वाऽभावान्न ह्रस्वः । ‘अर्धखारि’ इति काचिद्ध्रस्वान्तपाठः । तदा क्लीबत्वं लोकात्, ततो नपुंसकह्रस्वः ।

Tattvabodhini

खार्याः प्राचाम् - अद्र्धखारमिति । अद्र्धनावमिव क्लीबत्वं लोकात् । टज्वा स्याद्द्विगाविति । द्विगाविति किम् । द्वयोरञ्जलिः -व्द्यञ्जलिः ।

Padamanjari

द्विखारीति। टजभावपक्षे नपुंसकह्नस्वत्वम्। अयं योगः शक्योऽवक्तुम् त्रिखारमिति? खारीशब्देन समानार्थः खारशब्दोऽस्ति यथा च’तदस्य परिमाणम्’ ,’संख्यायाः संज्ञा’ इत्यत्र ठन्येभ्योऽपि दृश्यते खारशताद्यर्थम्ऽ इति वार्तिकम् ॥

Nyaas

द्विखारि इति। त्रिखारि इति। पूर्ववदुपसर्जनह्रस्वः। क्वचिदर्धखारीति पाठः। अत्रैचोरुपसर्जनह्रस्वत्वे कृते सर्वतोऽक्तिन्नर्थादित्येके (ग। सू।51) इति बह्वादिपाठान्? ङीष॥

Praudhamanorama

खार्याः प्राचाम् ॥ द्विगोरिति । ‘खारीशब्दान्ताद्विगोरि’ त्यर्थः । द्व्यञ्जलमिति । समाहारे द्विगुः ।

Prakriyasarvasvam

खार्यन्ताद् द्विगोरर्धात् परायाः खार्याश्च प्राङ्मते टच् स्यात् । द्विखारम् । अर्धखारम् । अन्यमते-द्विखारि । अर्धखारि । द्विगोः क्लीबत्वाद्ध्रस्वः । खायंर्थे खारशब्दस्यापि सद्भावात् सूत्रं व्यर्थमिति हरः ॥