54071: नञस्तत्पुरुषात्

Padacheda: नञः | S | 5 | 1 |

तत्पुरुषात् | S | 5 | 1 |

Sutrartha

नञ्-तत्पुरुष-समासात् समासान्तप्रत्ययाः न भवन्ति ।

समासान्ताः (5.4.68) अस्मिन् अधिकारे पाठिताः समासान्तप्रत्ययाः नञ्-तत्पुरुष-समासस्य विषये न भवन्ति । यथा - ‘न राजा’ (not a king) अस्मिन् अर्थे नञ्-तत्पुरुषसमासेन ‘अ + राजन्’ इति प्राप्ते अत्र वस्तुतः राजाहस्सखिभ्यष्टच् (5.4.91) इत्यनेन टच्-प्रत्ययः विधीयते, परन्तु सः वर्तमानसूत्रेण निषिध्यते, अतः अत्र ‘अराजन्’ इत्येव प्रातिपदिकं सिद्ध्यति । न राजा = अराजा । एवमेव - न सखा = असखा । अत्रापि राजाहस्सखिभ्यष्टच् (5.4.91) इत्यनेन विहितः टच्-प्रत्ययः वर्तमानसूत्रेण निषिध्यते । ज्ञातव्यम् - नञ्-बहुव्रीहिसमासस्य विषये अयम् निषेधः न प्रवर्तते । यथा - ‘अविद्यमाना धूः यस्य सः अधुरः’ । अत्र ऋक्पूरब्धूःपथामानक्षे (5.4.74) इति ‘अ’-प्रत्ययः भवत्येव ।

Vasu English Summary

The समासान्त affix does not come after a तत्-पुरुष समास of words like राजन् etc. herein taught, when the negative particle न precedes them.

Vasu English Translation

The समासान्त affix does not come after a तत्-पुरुष समास of words like राजन् etc. herein taught, when the negative particle न precedes them. Thus अराजा, असखा, अगौः (5.4.91) and (5.4.92) prohibited). Why do we say “after a Tatpurusha compound?” The same words preceded by the negative particle will take the samasanta affix when forming compounds other than Tatpurusha, as अणृचो मानवकः, अधुरं शकटम् ॥ (5.4.74) applied)).

Kashika

नञः परे वक्ष्यमाणा ये राजादयस्तदन्तात् तत्पुरुषात् समासान्तो न भवति। अराजा। असखा। अगौः। तत्पुरुषादिति किम् ? अनृचो माणवकः। अधुरं शकटम्॥

Siddhanta Kaumudi

समासान्तो न । अराजा । असखा । तत्पुरुषात् किम् । धुरं शकटम् ॥

Balamanorama

नञस्तत्पुरुषात् - निन्दानवगमान्न टचो निषेधः । नञस्तत्पुरुषात् । शेषपूरणेन सूत्रं व्याचष्ट — समासान्तो नेति । नञ्पूर्वंपदात्तत्पुरुषात्समासान्तो नेति फलितम् । अधुरं शकटमिति । अविद्यमाना धूर्यस्येति विग्रहः । नञ्पूर्वपदत्वेऽप्यतत्पुरुषत्वात्ऋक्पू॑रिति समासान्तस्य न निषेधः ।

Tattvabodhini

नञस्तत्पुरुषात् - नञस्तत्पुरुषात् ।नञः॑इति षष्ठी । नञः सम्बन्धी यस्तत्पुरुषो नञवयवकस्तस्मादित्यर्थः ।

Nyaas

अराजा इति। तत्पुरुषऽयम्। अनृचो माणवकः, अधुरं शकटम् इति। द्वावपि बहुव्रीहि। पूर्ववदकारः॥

Prakriyasarvasvam

नञ्पूर्वात् तत्पुरुषात् समासान्तो न । अराजा, असखा । अतत्पुरुषे स्यात् । अधुरः पुरुषः ॥