54001: पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च

Padacheda: पाद-शतस्य | S | 6 | 1 |

संख्यादेः | S | 6 | 1 |

वीप्सायाम् | S | 7 | 1 |

वुन् | S | 1 | 1 |

लोपः | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha

यस्य शब्दस्य आदौ सङ्ख्यावाचकः शब्दः विद्यते तथा च अन्ते ‘पाद’ उत ‘शत’ अयम् शब्दः विद्यते, तस्मात् शब्दात् वीप्सायाम् गम्यमानाम् स्वार्थे वुन्-प्रत्ययः भवति, तथा च प्रत्ययसंन्नियोगेन ‘शत’ / ‘पाद’ इत्यस्य अन्तिमवर्णस्य लोपः जायते ।

सूत्रस्य अर्थं क्रमेण पश्यामः - अ) यस्य शब्दस्य आदौ ‘सङ्ख्यावाचकः शब्दः’ तथा अन्ते ‘पाद’ उत ‘शत’ अयम् शब्दः वर्तते, तादृशस्य शब्दस्य विषये अत्र प्रत्ययविधानम् कृतमस्ति । यथा - द्विपाद, त्रिपाद, द्विशत, त्रिशत - आदयः । आ) एतादृशाात् शब्दात् वर्तमानसूत्रेण ‘वुन्’ प्रत्ययः उच्यते । ‘वुन्’ प्रत्यये नकारः इत्संज्ञकः अस्ति, तस्य लोपः भवति । ‘वु’ इत्यस्य युवोरनाकौ (7.1.1) इत्यनेन ‘अक’ आदेशः भवति । इ) अयम् वुन्-प्रत्ययः ‘वीप्सायाः’ विषये भवति । वीप्सा इत्युक्ते ‘पौनःपुन्यम्’ (repetition) । यथा - ‘द्वौ द्वौ पादौ’, ‘द्वे द्वे शते’ आदिषु सन्दर्भेषु अय् प्रत्ययः विधीयते । ई) अनेन सूत्रेण प्रातिपदिकस्य अन्तिमवर्णस्य लोपः अपि विधीयते । एतत् प्राकृतिककार्यमस्ति, न हि अङ्गकार्यम् । एतत् स्पष्टीकर्तुम् सूत्रे ‘लोपश्च’ इति निर्दिष्टमस्ति । स्पष्टतायै उदाहरणद्वयं पश्यामः । [1] द्वौ द्वौ शतौ (प्रक्रियालेखने आदौ समस्तपदस्य निर्माणम् कृत्वा ततः ‘वुन्’ प्रत्ययः प्रयोक्तव्यः इति कौमुदीकारः स्पष्टीकरोति, अतः प्रक्रिया अपि तादृशी एव लिख्यते) → द्वि + शत + वुन् [तद्धितार्थोपपदसमाहारे च (2.1.51) इति समस्तपदस्य निर्माणम् । ततः पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च (5.4.1) इति वुन्-प्रत्ययः] → द्वि + शत् + वुन् [वर्तमानसूत्रेण ‘शत’ इत्यस्य अन्तिमवर्णस्य लोपः । एतत् प्राकृतिककार्यमस्ति अतः प्रक्रियायाः प्रारम्भे एव भवति ।] → द्वि + शत् + अक [युवोरनाकौ (7.1.1) इति अक-आदेशः] → द्विशतक → द्विशतक + टाप् [वुन्-प्रत्ययान्तशब्दाः केवलं स्त्रीलिङ्गे एव प्रयुज्यन्ते, अतः अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्ययः] → द्विशतक + आ → द्विशतिक + आ [प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः (7.3.44) इति इकारादेशः] → द्विशतिका [अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः] द्वौ द्वौ शतौ सा द्विशतिका । यथा - यदि कश्चन धनिकः पुनः पुनः द्वौ द्वौ शतौ ददाति , तर्हि सः ‘द्विशतिकां ददाति’ इति वक्तुं शक्यते । A donor who repeatedly gives two hundreds in donation can be said to be giving द्विशतिका । एवमेव त्रयः त्रयः शताः सा ‘त्रिशतिका’ इत्यपि सिद्ध्यति । ‘पाद’ शब्दस्य विषये अपि एतादृशम् एव प्रक्रिया विधीयते - [2] द्वौ द्वौ पादौ → द्वि + पाद + वुन् [तद्धितार्थोपपदसमाहारे च (2.1.51) इति समस्तपदस्य निर्माणम् । ततः पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च (5.4.1) इति वुन्-प्रत्ययः] → द्वि + पाद् + वुन् [वर्तमानसूत्रेण ‘पाद्’ इत्यस्य अन्तिमवर्णस्य लोपः] → द्वि + पाद् + अक [युवोरनाकौ (7.1.1) इति अक-आदेशः] → द्वि + पद् + अक [पादः पत् (6.4.130) इति ‘पाद्’ इत्यस्य ‘पद्’ आदेशः] → द्विपदक → द्विपदक + टाप् [वुन्-प्रत्ययान्तशब्दाः केवलं स्त्रीलिङ्गे एव प्रयुज्यन्ते, अतः अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्ययः] → द्विपदिक + आ [प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः (7.3.44) इति इकारादेशः] → द्विपदिका [अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः] द्वौ द्वौ पादौ इति द्विपदिका । An entity that has two-two legs repeated (e.g. a song) is called द्विपदिका । अत्र पाद-शब्दस्य अर्थः ‘नाणकम्’ ( coin / quarter) इत्यपि भवति, अतः ‘द्विपदिकां ददाति’ इत्यस्य अर्थः ‘पुनः पुनः द्वौ नाणकौ ददाति’ इति अपि भवितुमर्हति । एवमेव - त्रयः त्रयः पादाः सा त्रिपदिका । विशेषः - अस्मिन् सूत्रे वुन्-प्रत्यये परे प्रातिपदिकस्य अन्तिमवर्णस्य लोपः उक्तः अस्ति । यथा, उपरिनिर्दिष्टायां प्रक्रियायाम् ‘द्वि + पाद + अक’ इति स्थिते तकारोत्तरस्य अकारस्य लोपः वर्तमानसूत्रे निर्दिष्टेन ‘लोप’ शब्देन क्रियते । वस्तुतः तु वुन्-प्रत्ययस्य ‘अक’ इति आदेशे कृते यस्येति च (6.4.148) इत्यनेन अपि अकारलोपः भवितुमर्हति एव - द्वि + पाद + अक → द्वि + पाद् + अक [ यस्येति च (6.4.148) इति अकारलोपः] परन्तु एवम् क्रियते चेत् अग्रिमसोपाने ‘पाद्’ शब्दस्य पादः पत् (6.4.130) इत्यनेन ‘पद’ आदेशः भवितुम् न अर्हति, यतः यस्येति च (6.4.148) तथा पादः पत् (6.4.130) एते सूत्रे असिद्धवदत्राभात् (6.4.22) इत्यस्मिन् आभीये असिद्धाधिकारे उच्येते, अतश्च परस्पर-असिद्धौ स्तः । इत्युक्ते, यस्येति च (6.4.148) इत्यनेन प्राप्तः अकारलोपः पादः पत् (6.4.130) इत्यस्य कृते असिद्धः अस्ति, अतः पादः पत् (6.4.130) इत्यनेन सूत्रेण ‘पाद’ इति अकारान्तशब्दः एव दृश्यते, यस्य कृते अस्य सूत्रस्य अवकाशः एव न विद्यते । अतः अत्र यस्येति च (6.4.148) इत्येनन अकारलोपः क्रियते चेत् पाद्-शब्दस्य पद्-आदेशः नैव स्यात्, यः अत्र इष्यते । एतमादेशम् कारयितुम् एव अस्मिन् सूत्रे लोपविधानम् कृतमस्ति । अनेन सूत्रेण उक्तम् लोपविधानम् प्राकृतिककार्यमस्ति, अतः एतत् अङ्गकार्यात् पूर्वम् विधीयते । अतः अग्रे पादः पत् (6.4.130) इत्यनेन पाद्-शब्दस्य पद्-आदेशः भवितुमर्हति । अत्र लोपग्रहणस्य अन्यत् एकम् प्रयोजनम् वर्तते । यस्येति च (6.4.148) इत्यनेन अकारलोपः क्रियते चेत् अचः परस्मिन् पूर्वविधौ (1.1.57) इत्यनेन स्थानिवद्भावेन लुप्त-अकारः पुनः आगच्छेत्, येन् ‘पाद’ इत्येव शब्दः पुनः लभ्येत, न हि ‘पाद्’ शब्दः । एवं सति पादः पत् (6.4.130) इत्यस्य विधानम् नैव सम्भवति, यत् अत्र प्रक्रियायामवश्यम् इष्यते । अस्य प्राप्त्यर्थम् एव वर्तमानसूत्रेण पुनः ‘लोपः’ उक्तः अस्ति । वर्तमानसूत्रेण उक्तः अयम् लोपः ‘अनिमित्तकः’ अस्ति - इत्युक्ते, अयम् लोपः प्राकृतिकरीत्या एव भवति, अस्य किमपि निमित्तम् न आवश्यकम् ; अतएव च अस्मिन् लोपे कृते अचः परस्मिन् पूर्वविधौ (1.1.57) इत्यस्य प्रसक्तिः अपि न विद्यते - यतः अचः परस्मिन् पूर्वविधौ (1.1.57) इत्यस्य प्रयोगार्थम् परनिमित्तकः लोपः आवश्यकः । इत्युक्ते, वर्तमानसूत्रेण कृतात् लोपात् परम् पादः पत् (6.4.130) इत्यनेन पाद्-शब्दस्य पद्-आदेशः अपि भवितुमर्हति । अत्र एकम् वार्त्तिकमपि ज्ञातव्यम् - <!पादशतग्रहणमनर्थकमन्यत्रापि दर्शनात्!> । इत्युक्ते, वर्तमानसूत्रे ‘पाद’ तथा ‘शत’ एतयोः निर्देशः न आवश्यकः, यतः अन्येषाम् शब्दानाम् विषये अपि वर्तमानसूत्रस्य प्रयोगः दृश्यते । यथा - ‘द्वौ द्वौ मोदकौ सा द्विमोदिका ‘ । यद्यपि अनेन वार्त्तिकेन अन्येषाम् शब्दानाम् विषये वर्तमानसूत्रस्य प्रयोगः अनुमीयते, तथापि सः सर्वत्र न भवति । यथा, ‘द्वौ द्वौ माषौ’ एतादृशे वाक्ये अस्य सूत्रस्य प्रयोगः न भवति । अतः शिष्टप्रयोगमनुसृत्यैव एतत् सूत्रम् प्रयोक्तव्यम् । स्मर्तव्यम् - 1. वर्तमानसूत्रस्य प्रयोगः वीप्सा (व्याप्तेः इच्छा / repeatition) अस्ति चेदेव भवति । केवलम् ‘द्वौ पादौ’ उत ‘द्वौ शतौ’ एतत् विवक्ष्यते चत् अस्य सूत्रस्य प्रयोगः नैव कर्तव्यः । The application of this sutra requires that something is being done again-and-again - इत्याशयः । यथा - अ) द्वौ द्वौ पादौ सा द्विपदिका । आ) द्वौ द्वौ शतौ सा द्विशतिका । 2. एतत् सूत्रम् समर्थानां प्रथमाद्वा (4.1.82) इत्यत्र पाठितायां महाविभाषायां पाठ्यते, अतः अनेन सूत्रेण उक्तः प्रत्ययः विकल्पेन भवति । अतः पक्षे ‘ द्वौ द्वौ पादौ’ इत्यपि प्रयोगः अपि साधु ।

Vasu English Summary

The affix वुन् comes after the words 1. पाद and 2. शत when preceded by a numeral, the sense being that of distributive relation, and the final of the stem is elided.

Vasu English Translation

The affix वुन् comes after the words 1. पाद and 2. शत when preceded by a numeral, the sense being that of distributive relation, and the final of the stem is elided. Pratipadikas preceded by a numeral and ending in the words पाद or शत take the affix वुन् when a distributive sense (वीप्सा) is to be expressed: and by the addition of this, the final is elided.

By (V1.4.148) the final अ of pada and sata would have been elided before the taddhita affix vun; even if such elision was not taught in this rule. The repetition of the word लोप in this rule, therefore, indicates that the elision ordained here is not one caused by the affix. For if the elision had been caused by the affix, then by (1.1.57), such लोपादेश or “substitute” would be equivalent to the principal (sthanivat); and would thus debar the application of the rule (6.4.130) by which पाद् pad (and not pada) is changed into पद् ॥ In other words, the lopa taught by यस्येति च is परनिमित्तक or caused by some thing which is subsequent, namely by a taddhita affix or by इ or ई affix; therefore, this lopa would be sthani-vat for the purposes of the rule which would apply to something preceding it (1.1. 57). Therefore, pad becomes sthani-vat to pada. Therefore, the anga or base ending with ‘pada’ will be called भ, and not the base ending with ‘pad’, and therefore (6.4.130) which applies to भ bases will not apply, and there will be no substitution of पद् for पाद्, as there is not in the form पादाय. But we want such substitution and hence the employment of words “the final of the stem is elided”.

Thus द्वौ द्वौ पादौ ददाति “he gives two quarters to each” = द्विपदिकां ददाति (द्विपाद + वुन् = द्विपाद् + वुन् = द्विपत् + वुन्) (6.4.130) = द्विपदिका (7.3.44) by which अ of अक् is changed into इ). Similarly द्वे द्वे शते ददाति = द्विशतिकां ददाति ॥

The compounds above formed are taddhitartha Tatpurusha compounds, viz. compounds containing the sense of a taddhita affix, by rule (2.1.51). After the compound is formed, then the affix वुन् is added. Thus first we have द्विपाद and द्विशत compounded by (2.1.51) and then the affix is added. The words पाद and शत when not so compounded, take वुन् affix only in the feminine.

Why do we say “of the words पाद and शत”? Observe द्वौ द्वौ माषौ ददाति, no affixing. Why do we say “preceded by a numeral?” Observe पादं पादं ददाति ॥ Why do we say “in a distributive sense”? Observe द्वौपादौ ददाति “He gives two quarters:” द्वे शते ददाति ॥

The enumeration of पाद and शत is useless, as the affix is found after other words also. As, द्विमोदकिकां ददाति “he gives two cakes to each”. त्रिमोदकिकां ददाति ॥

Bhashya

आ. 27 (1025 विधिसूत्रम्

Kashika

पादशतान्तस्य संख्यादेः प्रातिपदिकस्य वीप्सायां द्योत्यायां वुन् प्रत्ययो भवति, तत्सन्नियोगेन चान्तस्य लोपो भवति। यस्येति — (६.४.१४८) — लोपेनैव सिद्धे पुनर्वचनमनैमित्तिकार्थम्। यस्येतिलोपः परनिमित्तकः। तस्य स्थानिवद्भावात् पादः पत् (६.४.१३०) इति पद्भावो न स्यात्। अस्य त्वनैमित्तिकत्वाद् न स्थानिवत्त्वम्। द्वौद्वौ पादौ ददाति, द्विपदिकां ददाति। द्वेद्वे शते ददाति, द्विशतिकां ददाति। तद्धितार्थो० (२.१.५१) इति समासः। ततः प्रत्ययः। स्वभावात् च वुन्प्रत्ययान्तं स्त्रियामेव वर्तते। पादशतस्येति किम्? द्वौद्वौ माषौ ददाति। संख्यादेरिति किम् ? पादंपादं ददाति। वीप्सायामिति किम्? द्वौ पादौ ददाति। द्वे शते ददाति। पादशतग्रहणमनर्थकम्, अन्यत्रापि दर्शनात्। द्विमोदकिकां ददाति। त्रिमोदकिकां ददाति ॥

Siddhanta Kaumudi

लोपवचनमनैमित्तिकत्वार्थम् । अतो न स्थानिवत् । पादः पत् (SK414) । तद्धितार्थ (SK728) इति समासे कृते प्रत्ययः । वुन्नन्तं स्त्रियामेव । द्वौ द्वौ पादौ ददाति द्विपदिकाम् ॥ द्विशतिकाम् ।<!पादशतग्रहणमनर्थकमन्यत्रापि दर्शनात् !> (वार्तिकम्) ॥ द्विमोदकिकाम् ॥

Balamanorama

पादशतस्य संख्याऽऽदेर्वीप्सायां वुन् लोपश्च - अथ पञ्चमस्य चतुर्थपादः-पादशतस्य । पादश्चशतं चेति समाहारद्वन्द्वाल्लोपापेक्षया षष्ठी । वुन्प्रत्ययापेक्षया तु सा पञ्चम्यर्थे । सङ्ख्यावचकशब्दपूर्वकात्पादशब्दाच्च वीप्साविशिष्टार्थवृत्तेः स्वार्ते वुन्प्रत्ययः स्यात्, प्रकृतेरन्त्यस्य लोपश्चेत्यर्थः । ननु वुनोऽकादेशे सतियस्येति चे॑त्येव लोपसिद्धेरिह लोपविधिव्र्यर्थ इत्यत आह — अनैमित्तिकत्वार्थमिति ।यस्येति चे॑ति लोपस्य परनिमित्तकतया तस्य ‘अचः परस्मिन्’ इति स्थानिवत्त्वापादः प॑दिति पदादेशो न स्यात् । अस्य तु लोपस्य परनिमित्तकत्वाऽभावेन स्थानिवत्त्वाऽप्रसक्तेः पद्भावो निर्बाध इति भावः । तद्धितार्थ इति । नच वीप्सायाः प्रकृत्यर्थविशेषणतया वुनोऽर्थाऽभावात्कथमिह॒तद्धितार्थ॑ इति समास इति वाच्यं, वुनो द्योतकतया द्योत्यार्थेनैवार्थवत्त्वात् । वुन्नयं स्त्रियामेवेति । स्वभावादिति भावः । द्विशति कामिति । द्वे द्वे शते ददातीति विग्रहः । पादशतेत्यादि । वार्तिकमिदम् । अनर्थकमिति कथं, पादशतभिन्नव्यावृत्त्यर्थत्वादित्यत आह — अन्यत्रापि दर्शनादिति । तदुदाहृत्य दर्शयति — द्विमोदकिकामिति । द्वौ द्वौ मोदकौ ददातीति विग्रहः ।

Tattvabodhini

पादशतस्य संख्याऽऽदेर्वीप्सायां वुन् लोपश्च - पादशतस्य सङ्ख्यादेः । पादशतस्य किम् । द्वौ द्वौ माषौ ददाति । संख्यादेरिति किम् । पादं पादं ददाति । वीप्सीयामिति किम् । द्वौ पादौ ददाति । अनैमित्तिकत्वार्थमिति । निमितिते भवो नैमित्तिकः । अध्यात्मादित्वाट्ठञ् । तद्धितार्थ इति । समास इति । यद्यपि प्रकृत्युपाधिवीप्सा, तथापि वुनो द्योत्येति तद्धितार्थो भवत्येवेति भावः । ददातीति । समर्पणमात्रमिह ददातेरर्थः, न तु परस्वत्वापादनपर्यन्तम् । तथात्वे हि उत्तरसूत्रविषयत्वं स्यात् । केचित्तु व्यवसृजेर्धातोः प्रयोगे सत्येव उत्तरसूत्रस्य प्रवृत्तिमाहुः । अन्यत्रापि दर्शनादिति ।द्वौ द्वौ माषौ ददाती॑त्यादौ त्वनभिधानान्नतिप्रसङ्ग इति भावः ।

Padamanjari

आदिशब्दोऽयमवयववाची, न तु व्यवस्थावाची;’संख्यायाः’ इति पञ्चमीनिर्देशेनैव सिद्धेः। न च संख्यावचनः शब्दः पादशतशब्दयोरवयव उपपद्यते; अनारम्भकत्वात्। तस्मात्संख्यादेरिति वचनादिह ग्रहमवतापि प्रातिपदिकेन तदन्तविधिर्विज्ञायत इत्याह - पादशतान्तस्येति। आनन्तर्यलक्षणा चेयं षष्ठी वुन्विधौ, लोपविधौ तु स्थानषष्ठी। तत्संनियोगेन चेति। चकारस्य संनियोगार्थकत्वात्। अनैमितिकत्वार्थमिति। निमिते भवो नैमितिकः, अध्यात्मादिः। यस्योतिलोपः परनिमितक इति। ईति तद्धिते च परतो लोपविधानात्। पद्भावो न स्यादिति। पच्छब्दो हि तत्र स्थान्युपातः, स्थानिवत्वे च सति पादशब्दान्तमङ्गं भसंज्ञं भवति, न पाच्छब्दान्तमिति पादायेत्यादिवदत्रापि पद्भावो न स्यात्। अस्य त्वनैमितिकत्वादिति। न ह्यत्र वुन्निमितम्; सहविधानात्। द्विपदिकामिति। तद्धितेन द्योतितत्वाद्वीप्सायां द्विर्वचनं न भवति। तद्धितार्थ इति समास इति। प्रकृत्युपाधिरपि वीप्सा वुना द्योत्यत इति तद्धितार्थो भवति। द्वौ पादौ ददातीति। उतरसूत्रेवक्ष्यति -‘दानं व्यवसर्गेः’ इति, ठवीप्सार्थोऽयमारम्भःऽ इति च, तस्माद्भवितव्यमत्र वुना। क्रियान्तरं प्रत्युदाहर्तव्यम्-द्वौ पादौ लभत इत्यादि। अपर आह - दडितो व्यवसृजतीति प्रयोग एवोतरोऽविधिरिति। यद्वापरस्वत्वापादनं दानमुव्यवसर्गः, इह तु समर्पणमात्रे ददातिर्वर्तते; यथरजकस्य वस्त्रं ददातीति। अन्यत्रापि दर्शनादिति। द्वौ द्वौ माषौ ददातीत्यादौ त्वनभिधानादतिप्रसङ्गभावः ॥

Nyaas

प्रतिपदिकादिति वर्तते, तस्य विशेषणं पादशतस्यग्रहणम्, विशेषणेन तदन्तविधिर्भवतदीत्याह - पादशतान्तस्य इति। आदिशब्दोऽवयववचनः। न च संख्याशब्दः पदशतशब्दयोरवयव उपपद्यते; पृथाग्भावादनारंभकत्वात्। न हि पृथग्भूतमनारम्भकं शब्दान्तरस्यावयवो युज्यते, यथा घटशब्दः पटशब्दस्य। विपरिते तु युज्यते, यथा - पटस्य समुदायात्मनः तन्त्वादिकारणं समदेशमवयदमाहः। तस्मात्? संख्यादेः इत्येतदपि प्रातिपदिकस्य विज्ञायते, न पादशतशब्दयोरित्याह - संख्यादेः इत्यादि। आनन्तय्र्यलक्षणा चेयं षष्ठो, यथा - गापोष्टकं (3.2.8) इति गापोष्टक्प्रत्ययो भवतीत्यनन्तरमिति शेषः। तत्सन्नियोगेन च इति। चकारस्य सन्नियोगार्थत्वात्। अन्तस्य इति। अलोऽन्त्यपरिभाषया (1.1.51) । पुनः इत्यादि। निमित्ते भवो नैमित्तिकः, अध्यात्मादित्वाट्ठञ् (वा। 456), न नैमित्तिकोऽनैमित्तिकः। लोपः स्यावित्येवमर्थं पुनर्लोपवचनम्। वुनापि सह लोपो विधीयमानः परनिमित्तं नापेक्षत इत्यनैमित्तिको भवति। यस्येति (6.4.148) लोपः। परनिमित्तकः इति। ईति तद्धिते च परस्मिन्निमित्ते विधानात्? तस्य स्थानिवद्भावात्, अचः परस्मिन् पूर्वविधौ (1.1.57) इति लोपस्य स्थानिवद्भावेन पाच्छब्दरूपस्य विहितत्वात्। अनच्को हि पाच्छब्दः स्थान्युपात्तः, तस्य चानच्कत्वं स्थानिवद्भावे सति हीयते। अस्य त्वनैमित्तिकत्वान्न स्थानिवद्भाव इति पद्भावो भवतीति भावः। द्वौ द्वौ पादौ इति। पीप्सायां द्विर्वचनं भवति॥

Prakriyasarvasvam

पादान्तस्य शतान्तस्य च सङ्ख्यादेः शब्दस्य वीप्सायां द्योत्यायां वुन् प्रकृतेरन्त्यलोपश्च स्यात् । द्विपाद् अक,

Sutra Prayogas

  • उदक्षाः (भट्टिकाव्यम्): बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् इति षच्-प्रत्ययः।