53101: वस्तेर्ढञ्¶
Padacheda: वस्तेः | S | 5 | 1 |
ढञ् | S | 1 | 1 |
Sutrartha¶
‘वस्ति’ शब्दात् ‘इव’ अस्मिन् सन्दर्भे स्वार्थे ढञ्-प्रत्ययः भवति ।
‘वस्ति’ (कट्याः अधोभागे धारणार्थम् प्रयुक्तम् किञ्चन वस्त्रम् - A specific type of garment that is typically worn in the lower half of the body) इत्यस्मात् शब्दात् ‘इव’ इति सन्दर्भे ढञ् इति प्रत्ययः भवति । यथा - वस्तिः इव इदम् वस्त्रम् = वस्ति + ढञ् → वस्ति + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ढकारस्य एय्-आदेशः] → वास्ति + एय [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → वास्त् + एय [यस्येति च (6.4.148) इति इकारलोपः] → वास्तेय । वस्तिः इव इदम् वस्त्रम् वास्तेयम् । अधरीयस्य निर्देशार्थमस्य शब्दस्य प्रयोगः भवति । विशेषः - स्त्रीत्वे विवक्षिते टिड्ढाणञ्.. (4.1.15) इत्यनेन ङीप्-प्रत्यये कृते ‘वास्तेयी’ इति शब्दः अपि सिद्ध्यति । शाटिकायाः निर्देशार्थमस्य शब्दस्य प्रयोगः क्रियते । स्मर्तव्यम् - इवे प्रतिकृतौ (5.2.96) इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र ‘वस्ति’ शब्दात् ‘इव’ इति सन्दर्भे ढञ्-प्रत्ययः एव भवति ।
Vasu English Summary¶
The affix ढञ् comes in the sense of ‘like this’ after वस्ति।
Vasu English Translation¶
The affix ढञ् comes in the sense of ‘like this’ after वस्ति। The word इव is understood here. The affixes taught hence forward come in a general sense, and are not confined to images. Thus वस्तिरिव = वास्तेयः fem. वास्तेयी ‘like the abdomen’.
Kashika¶
इवेत्यनुवर्तते। इतः प्रभृति प्रत्यया सामान्येन भवन्ति, प्रतिकृतौ चाप्रतिकृतौ च। वस्तिशब्दादिवार्थे द्योत्ये ढञ् प्रत्ययो भवति। वस्तिरिव वास्तेयः। वास्तेयी ॥
Siddhanta Kaumudi¶
इवेत्यनुवर्तत एव । प्रतिकृताविति निवृत्तम् । वस्तिरिव वास्तेयम् । वास्तेयी ॥
Balamanorama¶
वस्तेर्ढञ् - वस्तेर्ढञ् । निवृत्तमिति । अस्वरितत्वादिति भावः ।संज्ञायां चे॑त्यादिपूर्वसूत्रेषु क्वापि प्रतिकृतावित्यस्याऽनिवृत्तेर्न लुब्विधिषु तेषु तदनुवृत्तिरपेक्षिता । वस्तिरिवेति ।बस्तिर्नाभेरधो द्वयो॑रित्यमरः ।
Tattvabodhini¶
वस्तेर्ढञ् - बस्तिरिति ।बस्तिर्नाबेरधो द्वयो॑रित्यमरः ।
Nyaas¶
इतः प्रभति इत्यादि। तत्र प्रतिकृतौ इवे प्रतिकृतौ (5.3.96) इति कनि प्राप्ते, इतः प्रभृति प्रत्यया भवन्ति। अप्रतिकृतौ तवसंज्ञायां वाक्येनैवाभिधाने प्राप्ते। संज्ञायां तु प्रतिकृतावप्रकृतौ च ढञेव; वस्तिः=वृतिविकारः। वास्तेयी इति टिङ्ढाणञ् (4.1.15) इति ङीप्॥
Prakriyasarvasvam¶
अस्मादिवार्थमात्रे ढञ् । वस्तितुल्यं वास्तेयं फलम् ॥