53098: लुम्मनुष्ये¶
Padacheda: लुप् | S | 1 | 1 |
मनुष्ये | S | 7 | 1 |
Sutrartha¶
‘इव’ इत्यस्य प्रयोगेण मनुष्यस्य संज्ञायां गम्यमानायाम् स्वार्थे विहितस्य कन्-प्रत्ययस्य लोपः भवति ।
संज्ञायां च (5.3.97) इत्यनेन सूत्रेण ‘इव’ इत्यस्य प्रयोगेण संज्ञायाः निर्देशे कन्-प्रत्ययः विधीयते । परन्तु इयम् संज्ञा मनुष्यस्य संज्ञा अस्ति चेत् अस्य कन्-प्रत्ययस्य वर्तमानसूत्रेण लोपः भवति । यथा - 1. चञ्चा (scarecrow) इव अयम् मनुष्यः = चञ्चा + कन् → चञ्चा + X → चञ्चा । यथा चञ्चा वातम् वर्षाम् वा न सहते तथैव यः मनुष्यः वातवर्षादीन् सोढुम् न शक्नोति, तस्य निर्देशार्थम् इयं संज्ञा प्रयुज्यते । Just like a scarecrow (A human-shaped object placed in farms to scare bird away) cannot sustain rains / winds, in the same way a human who cannot sustain heavy rains / winds etc is termed as चञ्चा. 2. दासी इव अयम् मनुष्यः = दासी । यः मनुष्यः दासीवत् वर्तनम् करोति, तस्य अयम् निर्देशः । विशेषः - 1. अत्र प्रत्ययस्य लोपः ‘लुप्’ इति संज्ञया उक्तः अस्ति । लुपि युक्तवद्व्यक्तिवचने (1.2.51) इत्यनेन लुपि कृते प्रकृत्याः लिङ्गम् वचनम् च तद्धितान्तस्य विषये अपि विधीयेत - इति निर्देशयितुमयम् निर्देशः अत्र आवश्यकः । इत्युक्ते, ‘चञ्चा इव अयम् मनुष्यः’ इत्यनेन निर्दिष्टः मनुष्यः यद्यपि पुमान् अस्ति, तथापि ‘चञ्चा’ इति स्त्रीवाचकात् शब्दात् कन्-प्रत्ययं तस्य च लुप् कृत्वा ‘चञ्चा’ इति तद्धितान्तः शब्दः यः जायते, सः स्त्रीलिङ्गे एव स्यात् - इति अत्र आशयः । अतः ‘अयम् चञ्चा मनुष्यः’ इत्येव प्रयोगः साधु अस्ति । 2. अस्मिन् सूत्रे काशिकाकारः वदति - ‘ देवपथादेराकृतिगणत्वात् तस्य एव अयं प्रपञ्चो वेदितव्यः’ । इत्युक्ते, काशिकाकारस्य मतेन वर्तमानसूत्रस्य न काऽपि आवश्यकता, यतः अनेन सूत्रेण येषाम् शब्दानाम् विषये लोपः विधीयते ते सर्वे शब्दाः देवपथादिभ्यश्च (5.3.100) इत्यत्र निर्दिष्टे ‘देवपथादिगणे’ आकृतिगणत्वात् भवितुमर्हन्ति एव ।
Vasu English Summary¶
When in the same way a Man is denoted the affix is elided by लुप् , the word retaining its number and gender.
Vasu English Translation¶
When in the same way a Man is denoted the affix is elided by लुप् , the word retaining its number and gender. Thus चञ्चा (चञ्चेवमनुष्यः) ‘straw-man’ i.e. an effigy in stray. So also दासी, खरकुटी ॥ For accent see (6.1.204).
Why do we say ‘a man’? Observe अश्वकः, उष्ट्रकः &c. This sutra may be considered to be an enlargement of (5.3.100).
Bhashya¶
लुम्मनुष्ये (2256) (कनो लुबधिकरणम्) (आक्षेपभाष्यम्) किमर्थं मनुष्ये लुबुच्यते, न लुगेवोच्येत? (5897 समाधानवार्तिकम्॥ 1 ॥) - लिङ्गसिद्ध्यर्थम् लुब्मनुष्ये - (भाष्यम्) लिङ्गसिद्ध्यर्थं मनुष्ये लुबुच्यते। चञ्ञ्चेव चञ्ञ्चा। वध्रिकेव वध्रिका। खरकुटीव खरकुटी॥
Kashika¶
संज्ञायामित्येव। संज्ञायां विहितस्य कनो मनुष्येऽभिधेये लुब् भवति। चञ्चेव मनुष्यः चञ्चा। दासी। खरकुटी। मनुष्य इति किम् ? अश्वकः। उष्ट्रकः। गर्दभकः। देवपथादेराकृतिगणत्वात् तस्यैवायं प्रपञ्चो वेदितव्यः॥
Siddhanta Kaumudi¶
संज्ञायां विहितस्य कनो लुप्स्यान्मनुष्ये वाच्ये । चञ्चा तृणमयः पुमान् । चञ्चेव मनुष्यश्चञ्चा । वर्ध्रिका ॥
Balamanorama¶
लुम्मनुष्ये - लुम्मनुष्ये । संज्ञायां चेति विहितस्येति । नतु ‘इवेप्रतिकृतौ’ इति विहतस्य प्रतिकृतित्वाऽसंभवादिति भावः । चञ्चेव मनुष्यः चञ्चेत्युदाहरणं वक्ष्यन्चञ्चाशब्दं व्याचष्टे — चञ्चा तृणमयः पुमानिति । चञ्चेति । चञ्चातुल्यो मनुष्योऽयं चञ्चासंज्ञक इत्यर्थः । वर्ध्रिकेति । वर्ध्रि चर्ममयी प्रतिकृतिः । तत्तुल्यो मनुष्योऽयं वर्ध्रिकासंज्ञक इत्यर्थः । लुपि युक्तवत्वात्स्त्रीत्वम् । वचनं तु विशेष्यवदेव,हरीतक्यादिषु व्यक्ति॑रित्युक्तेः । तेन ‘चञ्चे इव मनुष्यौ’ इत्यत्र चञ्चा इति न भवति ।
Tattvabodhini¶
लुम्मनुष्ये - चञ्चा । वर्ध्रिकेति । लुपि युक्तवद्भावात्स्त्रीलिङ्गता ।
Padamanjari¶
चञ्चाउतृणपुरुषः, तत्सदृशो मनुष्यश्चञ्चा। लुपि युक्तवद्भावः।’मनुष्यलुपि प्रतिषेधः’ इत्येततु विशेषणविषयम् ॥
Nyaas¶
चञ्चे इति तृणपुरुष उच्यते। सादृश्याच्च मनुष्यश्चञ्चा। लुपि युक्तवद्व्यक्तियचने (1.2.51) इति प्रकृतिगतमेव लिङ्गं भवति। ननु च मनुष्यलूपि प्रतिषेधः (वा।21) इति वचनाद्युक्तवद्भावो न प्राप्नोति? नैतदस्ति; विशेषणानां प्रतिषेधः, न लुबन्तस्य॥
Prakriyasarvasvam¶
संज्ञोक्तस्य कनो मनुष्ये वाच्ये लुप् । लुपि प्रकृतिवल्लिङ्गवचने । चञ्चा तृणपुरुषः, तत्सदृशमनुष्यनाम्नि चञ्चा । मनुष्यलुपि विशेषणानां युक्तवद्भावो नेति वाच्यम्’ (वा०) । रम्यश्चञ्चा ॥