53064: युवाल्पयोः कनन्यतरस्याम्¶
Padacheda: युव-अल्पयोः | S | 6 | 2 |
कन् | S | 1 | 1 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
‘अतिशय’ अस्मिन् सन्दर्भे अजाद्योः प्रत्यययोः परयोः ‘युवन्’ शब्दस्य तथा ‘अल्प’शब्दस्य विकल्पेन कन्-आदेशः भवति ।
‘युवन्’ (youth) तथा ‘अल्प’ (young / low/ little / handful) एताभ्यां शब्दाभ्यां ‘अतिशय’ अस्मिन् सन्दर्भे अतिशायने तमबिष्ठनौ (5.3.55) इत्यनेन ‘इष्ठन्’ तथा द्विवचनविभज्योपपदे तरबीयसुनौ (5.3.57) इत्यनेन ‘ईयसुँन्’ एतौ द्वौ अजादिप्रत्ययौ विधीयेते । एतयोः प्रत्यययोः परयोः एतयोः शब्दयोः ‘कन्’ इति आदेशः विकल्पेन भवति । यथा - 1. एते सर्वे यूवानः । अयम् एतेषामतिशयेन युवा, अतः अयम् कनिष्ठः । प्रक्रिया इयम् - युवन् + इष्ठन् → कन् + इष्ठन् [युवन्-शब्दस्य कन्-आदेशः] → कनिष्ठ [टेः (6.4.155) इत्यनेन टिलोेपे प्राप्ते प्रकृत्यैकाच् (6.4.163) इत्यनेन अङ्गस्य प्रकृतिभावः विधीयते, अतः केवलं वर्णमेलनं कृत्वा रूपं सिद्ध्यति । 2. एतौ द्वौ युवानौ । अयम् एतयोः अतिशयेन युवा, अतः अयम् कनीयान् । प्रक्रिया इयम् - युवन् + ईयसुन् → कन् + ईयसुन् [युवन्-शब्दस्य कन्-आदेशः] → कनीयस् [टेः (6.4.155) इत्यनेन टिलोेपे प्राप्ते प्रकृत्यैकाच् (6.4.163) इत्यनेन अङ्गस्य प्रकृतिभावः विधीयते, अतः केवलं वर्णमेलनं कृत्वा रूपं सिद्ध्यति । अस्य प्रथमैकवचने उगिदचां सर्वनामस्थानेऽधातोः (7.1.70) इति नुमागमे कृते ‘कनीयान्’ इति रूपम् सिद्ध्यति । 3. एते सर्वे अल्पाः । अयम् एतेषामतिशयेन अल्पः, अतः अयम् कनिष्ठः । प्रक्रिया इयम् - अल्प + इष्ठन् → कन् + इष्ठन् [अल्प-शब्दस्य कन्-आदेशः] → कनिष्ठ [टेः (6.4.155) इत्यनेन टिलोेपे प्राप्ते प्रकृत्यैकाच् (6.4.163) इत्यनेन अङ्गस्य प्रकृतिभावः विधीयते, अतः केवलं वर्णमेलनं कृत्वा रूपं सिद्ध्यति । 4. एतौ द्वौ अल्पौ । अयम् एतयोः अतिशयेन अल्पः, अतः अयम् कनीयान् । प्रक्रिया इयम् - अल्प + ईयसुन् → कन् + ईयसुन् [अल्प-शब्दस्य कन्-आदेशः] → कनीयस् [टेः (6.4.155) इत्यनेन टिलोेपे प्राप्ते प्रकृत्यैकाच् (6.4.163) इत्यनेन अङ्गस्य प्रकृतिभावः विधीयते, अतः केवलं वर्णमेलनं कृत्वा रूपं सिद्ध्यति ।] अस्य प्रथमैकवचने उगिदचां सर्वनामस्थानेऽधातोः (7.1.70) इति नुमागमे कृते ‘कनीयान्’ इति रूपम् सिद्ध्यति । ज्ञातव्यम् - 1. अनेन सूत्रेण विहितः ‘कन्’ आदेशः विकल्पेन भवति, अतः पक्षे ‘यविष्ठ’, ‘यवीयान्’, ‘अल्पिष्ठ’ तथा ‘अल्पीयान्’ एते शब्दाः अपि सिद्ध्यन्ति । ‘यविष्ठ’ शब्दस्य प्रक्रिया इयम् - युवन् + इष्ठन् → यो + इष्ठ [स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः (6.4.156) इत्यनेन ‘युवन्’ इत्यस्य ‘वन्’ इत्यस्य लोपः, तथा च यकारोत्तस्य उकारस्य गुणः ओकारः] → यव् + इष्ठ [एचोऽयवायावः (6.1.78) इति अवादेशः] → यविष्ठ 2. ‘युवन्’ तथा ‘अल्प’ शब्दौ वस्तुतः गुणवाचिनौ न स्तः, अतः एताभ्याम् ‘अतिशय’ अस्मिन् सन्दर्भे अतिशायने तमबिष्ठनौ (5.3.55) तथा द्विवचनविभज्योपपदे तरबीयसुनौ (5.3.57) इत्यनयोः सूत्रयोः ‘इष्ठन्’, ‘तमप्’, ईयसुँन्’, ‘तरप्’ एतेषु चतुर्षु प्रत्ययेषु प्राप्तेषु अजादी गुणवचनादेव (5.3.58) इत्यनेन सूत्रेण ‘इष्ठन्’ तथा ‘ईयसुँन्’ एतौ अजादिप्रत्ययौ वस्तुतः नियम्येते (= न प्रयुज्येते) । परन्तु वर्तमानसूत्रेण अजादिप्रत्यययोः परयोः एव आदेशविधानम् कृतमस्ति । अतः विधानसामर्थ्यात् एताभ्याम् शब्दाभ्यामपि अजादी प्रत्ययौ भवतः एव ।
Vasu English Summary¶
Before the affixes इष्ठन् and इयसुन् , कन् is optionally substituted for युवन् and अल्प।
Vasu English Translation¶
Before the affixes इष्ठन् and इयसुन् , कन् is optionally substituted for युवन् and अल्प। Thus कनिष्ठः, कनीयान् or यविष्ठः, यवीयान्; similarly अल्पिष्ठ, अल्पीयान्, or कनिष्ठः, कनीयान् ॥ सर्वइमे युवानः, अयमेषामतिशयेन, कनिष्ठः । द्वाविमौ युवानौ अयमनयोरतिशयेन, कनीयान् । यविष्टः । यवीयान् । सर्वइमेऽल्पाः । अयमेषामतिशयेन, कनिष्ठः । उभाविमावल्पावयमनयोरतिशयेन कनीयान् । अयमस्मात्कनीयान् । अल्पिष्ठः अल्पीयानिति वा ॥
Kashika¶
युवाल्पशब्दयोः कनित्ययमादेशो भवत्यन्यतरस्यामजाद्योः परतः। तयोश्च सत्त्वं पूर्ववत् ज्ञेयम्। सर्व इमे युवानः, अयमेषामतिशयेन युवा कनिष्ठः। द्वाविमौ युवानौ, अयमनयोरतिशयेन युवा कनीयान्। अयमस्मात् कनीयान्। यविष्ठः यवीयान् इति वा। सर्व इमेऽल्पाः, अयमेषामतिशयेनाल्पः कनिष्ठः। उभाविमावल्पौ, अयमनयोरतिशयेनाल्पः कनीयान्। अयमस्मात् कनीयान्। अल्पिष्ठः, अल्पीयानिति वा॥
Siddhanta Kaumudi¶
एतयोः कनादेशो वा स्यादिष्ठेयसोः । कनिष्ठः । कंनीयान् । पक्षे यविष्ठः । अल्पिष्ठः । इत्यादि ॥
Balamanorama¶
युवाल्पयोः कनन्यतरस्याम् - युवाल्पयोः । इष्ठेयसोरिति । ‘अजादी’ इत्यनुवृत्तस्य सप्तम्या विपरिणामादिति भावः । कनिष्ठः कनीयानिति । अयमनयोरतिशयेन युवा अल्पो वेत्यर्थः । पक्षे यविष्ठ इति । युवन्शब्दादिष्ठनिस्थूलदूरे॑ति वनो लोपे उकारस्य गुणेऽवादेशे रूपम् । अल्पिष्ठ इति । अल्पशब्दादिष्ठनि टिलोपः । इत्यादीति । यवीयान्, अल्पीयानिति रूपद्वयमादिपदग्राह्रम् ।
Tattvabodhini¶
युवाल्पयोः कनन्यतरस्याम् - युवाल्पयोःयुवे॑ति स्वरूपग्रहणं , न तु युवापत्यस्य, अल्पसाहचर्याव्द्याख्यानाच्च ।अजादी॑इत्यनुवर्तनादरजाद्योरेव परयोर्न तु तरप्तमपोरित्याशयेन व्याचष्टे — इष्ठेयसोरिति ।
Nyaas¶
अत्रापि निमित्तयोर्यथासंख्यं नेष्यते, तस्य ह्रभावः अजाद्यदन्तम् (2.2.33) इत्यल्पशब्दास्य पूर्वनिपाते परनिपाताल्लक्षणानपेक्षाच्चिह्निल्लभ्यते, युवेति स्वरूपगरहणमिष्यते, न जीवत्त्वं वंशस्य। कस्मात्? इहापि प्रशस्यस्य (5.3.60) इत्येतदनुवर्तते, तेन युवशब्दो विशेषयितव्यः - प्रशस्यस्य यून इति। स्वरूपग्रहणे सर्वलोकाभिमतयौवनाख्यवयःसम्बन्धे शब्दार्थे प्रशंसोपपद्यते, न पारिभाषिकग्रहणे। अथ वा - स्थानेऽन्तरतमपरिभाषया (1.1.49) कन्नित्यादेशस्य योऽन्तरतमः स एव स्थानिति विज्ञायते, अन्तरतमश्च युवशब्द एव। तस्मात् स्वरूपस्यैव ग्रहणं युक्तम्। अन्यतरस्यां ग्रहणमिहाल्पशब्द एव प्रयोजयति, न युवशब्दः, तस्य विनापि तेन विकल्पः सिद्ध एव; स्थूलटूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः (6.4.156) इति वचनात्। न हि नित्य आदेशे यणादेः परस्य लोपः सम्भवति, नापि पूर्वभागो गुणभाक्। यविष्ठः, यवीयान् इति। स्थूलदूरादिसूत्रेण (6.4.156) यणादेः परं लुप्यते, पूर्वस्य च गुणो भवति॥
Prakriyasarvasvam¶
युवतमोऽल्पतमश्च कनिष्ठः, कनीयान् । पक्षे यविष्ठः । अल्पिष्ठः ।
Sutra Prayogas¶
कनयन्ति (भट्टिकाव्यम्): युवा-ल्पयोः कनन्यतरस्याम् इति कनादेशः।