52140: अहंशुभमोर्युस्¶
Padacheda: अहं-शुभमोः | S | 6 | 2 |
युस् | S | 1 | 1 |
Sutrartha¶
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः ‘अहम्’ तथा ‘शुभम्’ एताभ्याम् शब्दाभ्याम् ‘युस्’ प्रत्ययः भवति ।
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण ‘अहम्’ तथा ‘शुभम्’ (उभावपि मकारान्तशब्दौ) एताभ्याम् शब्दाभ्याम् वर्तमानसूत्रेण ‘युस्’ इति प्रत्ययः विधीयते । ‘युस्’ प्रत्यये सकारः इत्संज्ञकः अस्ति, अतः अङ्गस्य सिति च (1.4.16) इति पदसंज्ञा भवति । 1) अहम् (अव्ययम्, ‘अहङ्कारः’ इत्यर्थः) अस्य अस्मिन् वा अस्ति सः अहंयुः, अहय्ँयुः 2) शुभम् (अव्ययम्, ‘मङ्गलम्’ इत्यर्थः) अस्य अस्मिन् वा अस्ति सः शुभंयुः, शुभय्ँयुः उभयत्र प्रत्यये सकारः इत्संज्ञकः अस्ति, येन अङ्गस्य सिति च (1.4.16) इति पदसंज्ञा भवति, येन प्रक्रियायाम् मोऽनुस्वारः (8.3.23) इत्यनेन मकारस्य अनुस्वारः, तस्य च वा पदान्तस्य (8.4.59) इति विकल्पेन परसवर्णादेशः (य्ँ) भवति । ज्ञातव्यम् - तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यत्र आरब्धः मतुप्-प्रत्ययस्य अधिकारः अस्मिन् सूत्रे समाप्यते ।
Vasu English Summary¶
The affix युस् (यु) comes in the sense of मतुप् after the word अहम् and the indeclinable शुभम् ‘good’.
Vasu English Translation¶
The affix युस् (यु) comes in the sense of मतुप् after the word अहम् and the indeclinable शुभम् ‘good’. Thus अहंयुः = अहंकारवान्, ‘selfish haughty’, शुभंयुः = कल्याणवान् ॥ ‘auspicious’. The स् of युस् makes the words अहम् and शुभम्, Padas; and म् is changed into Anusvara (1.4.16); (8.3.23). See (5.2.123).
Kashika¶
अहमिति शब्दान्तरमहंकारे वर्तते, शुभमित्यव्ययं शुभपर्यायः, ताभ्यां युस् प्रत्ययो भवति मत्वर्थे। सकारः पदसंज्ञार्थः। अहंयुः। अहंकारवानित्यर्थः। शुभंयुः। कल्याणवानित्यर्थः॥
॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ पञ्चमाध्यायस्य द्वितीयःपादः॥
Siddhanta Kaumudi¶
अहमितिमान्तमव्ययमहङ्कारे । शुभमिति शुभे । अहंयुः अहङ्कारवान् । शुभंयुः शुभान्वितः ॥
Laghu Siddhanta Kaumudi¶
अहंयुः अहङ्कारवान् । शुभंयुस्तु शुभान्वितः ॥ इति मत्वर्थीयाः ॥ १३ ॥
Balamanorama¶
अहंशुभमोर्युस् - अहंशुभमोर्युस् । अहंयुः शुभंयुरित्यत्र सुब्लुकमाशङ्क्याह — अहमित्यादीति । सित्त्वं पदत्वार्थम् । तेन पदत्वादनुस्वारे परसवर्णः सिध्यति । * इति बालमनोरमायम् मत्वर्थीयाः । *****अथ नामधातुप्रक्रिया ।
Tattvabodhini¶
अहंशुभमोर्युस् - अहंयुः । शुभंयुरिति । पूर्ववदनुस्वारपरसवर्णै ।इति तत्त्वबोधिन्यां मत्वर्थीयाः ।अथ नामधातुप्रक्रिया ।
Nyaas¶
अहमिति शब्दान्तरम् इति। अस्मदः त्वाहौ सौ (7.2.94) इति, त्यदाद्यत्वे च कृते यच्छब्दरूपं सम्पद्यते, तस्मादन्य एवाहमव्युत्पन्नः शब्दः, न तु तदित्येवं शब्दान्यत्वं दर्शयित्वाऽर्थान्तरं दर्शयितुमाह - अहङ्कारे वर्तते इति। अहंयुः, शुभंयुः इति। पूर्ववदनुस्वारपरसवर्णौ॥ इति श्रीबोधिसत्त्वदेशीयाचार्यश्रीजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्चिकायां पञ्चमाध्यायस्य द्वितीयः पादः* * अथ पञ्चमोऽध्यायःतृतीयः पादः बाल-मनोरमाअहंशुभमोर्युस् 1920, 5.2.140 अहंशुभमोर्युस्। अहंयुः पुंस्त्वमार्षम्। वटिभ इति। `वट वेष्टने`। वटनं वटिः। सोऽस्यास्तीति विग्रहः। बाल-मनोरमाअहंशुभमोर्युस् 481, 5.2.140 अहंशुभमोर्युस्। अहंयुः शुभंयुरित्यत्र सुब्लुकमाशङ्क्याह - अहमित्यादीति। सित्त्वं पदत्वार्थम्। तेन पदत्वादनुस्वारे परसवर्णः सिध्यति। **** इति बालमनोरमायम् मत्वर्थीयाः। *****अथ नामधातुप्रक्रिया।
Prakriyasarvasvam¶
अहमित्यहङ्कारे मान्तमव्ययं, शुभमिति शुभार्थे । अहंयुः । शुभंयुः ॥ इति मत्वर्थीयाः । इतः परं प्रायः स्वार्थे प्रत्ययाः ।
Sutra Prayogas¶
शुभंयुना (रघुवंशम्): अहंशुभमोर्युस् इति युस्प्रत्ययः।