52121: अस्मायामेधास्रजो विनिः¶
Padacheda: अस्-माया-मेधा-स्रजः | S | 5 | 1 |
विनिः | S | 1 | 1 |
Sutrartha¶
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः असन्तेभ्यः प्रातिपदिकेभ्यः, तथा ‘माया’, ‘मेधा’ तथा ‘स्रज्’ एतेभ्यः शब्देभ्यः प्रथमासमर्थेभ्यः ‘विनि’ तथा ‘मतुप्’ प्रत्ययौ भवतः ।
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । केभ्यश्चन शब्देभ्य एतयोः अर्थयोः ‘विनि’ इति अपि अपरः प्रत्ययः वर्तमानसूत्रेण पाठ्यते । क्रमेण पश्यामः - 1. असन्ताः शब्दाः - ये शब्दाः ‘अस्’ इत्यनेन समाप्यन्ते, ते ‘असन्ताः (= अस् + अन्ताः)’ इति नाम्ना ज्ञायन्ते । यथा - चन्द्रमस्, पयस्, विद्वस्, यशस्, तपस् - आदयः । एतेभ्यः शब्देभ्यः ‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः ‘विनि’ प्रत्ययः भवति । यथा - अ) यशः अस्य अस्ति सः यशस्वी । प्रक्रिया इयम् - यशस् + विनि → यशस् + विन् [इकारः उच्चारणार्थः, तस्य लोपः] → यशस् + विन् [स्वादिष्वसर्वनामस्थाने (1.4.17) इति पदसंज्ञायां प्राप्तायाम् तसौ मत्वर्थे (1.4.19) इति भसंज्ञा विधीयते । अतः सकारस्य रुँत्वम् न भवति ।] → यशस्विन् । आ) तपः अस्य अस्ति सा तपस्विनी । ‘तपस्विन्’ इति प्रातिपदिकम् । स्त्रीत्वे विवक्षिते ऋन्नेभ्यो ङीप् (4.1.5) इत्यनेन ङीप्-प्रत्ययं कृत्वा ‘तपस्विनी’ इति प्रातिपदिकम् सिद्ध्यति । तस्य प्रथमैकवचनम् ‘तपस्विनी’ इति । इ) पयः यस्मिन् विद्यते तत् पयस्वि । ‘पयस्विन्’ इति प्रातिपदिकम्, नपुंसकलिङ्गस्य प्रथमैकवचनम् ‘पयस्वि’ इति । पक्षे वर्तमानसूत्रेण ‘मतुप्’ प्रत्ययः अपि भवतीति स्मर्तव्यम् । यथा - पयस्वान्, यशस्वान् - आदयः । 2. ‘माया’, ‘मेधा’ (talent) तथा ‘स्रज्’ (garland) एतेभ्यः शब्देभ्यः अपि ‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः विनि-प्रत्ययः भवति । यथा - अ) माया अस्य अस्मिन् वा अस्ति सः मायावी । माया + विन् → मायाविन् इति प्रातिपदिकम् । आ) मेधा अस्य अस्मिन् वा अस्ति सः मेधावी । मेधा + विन् → मेधाविन् इति प्रातिपदिकम् । (इ) स्रक् अस्य अस्मिन् वा अस्ति सः स्रग्वी । प्रक्रिया इयम् - स्रज् + विनि → स्रज् + विन् [इकारः उच्चारणार्थः, तस्य लोपः] → स्रग् + विन् [स्वादिष्वसर्वनामस्थाने (1.4.17) इति पदसंज्ञा । पदान्ते विद्यमानस्य जकारस्य चोः कुः (8.2.30) इति कुत्वे गकारः ।] → स्रग्विन् । पक्षे वर्तमानसूत्रेण ‘मतुप्’ प्रत्ययः अपि भवति । यथा - मायावान्, मेधावान्, स्रग्वान् । विशेषः - ‘माया’ इति शब्दः व्रीह्यादिभ्यश्च (5.2.116) इत्यत्र निर्दिष्टे व्रीह्यादिगणे अपि स्वीकृतः अस्ति । अतः तेन सूत्रेण ‘माया’ शब्दात् ‘इनि’ तथा ‘ठन्’ एतौ प्रत्ययौ अपो भवतः । माया अस्य अस्मिन् वा अस्ति सः मायी मायिकः वा । स्मर्तव्यम् - 1. ‘विनि’ प्रत्यये नकारोत्तरः इकारः इत्संज्ञकः नास्ति । केवलम् ‘विन्’ इति उच्यते चेत् नकारस्य इत्संज्ञा भवेत्, या न इष्यते ; अतः नकारस्य इत्संज्ञाबाधनार्थमन्ते इकारः स्थापितः अस्ति । प्रक्रियायाः प्रारम्भे एव अस्य लोपः भवति । 2. सिद्धान्तकौमुद्यामस्मिन् सूत्रे कानिचन वार्त्तिकानि पाठितानि सन्ति । एतानि सर्वाणि वार्त्तिकानि भाष्ये काशिकायां च अग्रिमे सूत्रे बहुलं छन्दसि (5.2.122) इत्यत्र पाठ्यन्ते, अतः तेषाम् विवरणम् तत्रैव दत्तमस्ति ।
Vasu English Summary¶
After a stem ending in अस् and after माया , मेधा and स्रज् comes the affix विनि in the sense of मतुप्।
Vasu English Translation¶
After a stem ending in अस् and after माया , मेधा and स्रज् comes the affix विनि in the sense of मतुप्। Thus पयस्-पयस्विन्, यशस्-यशस्विन् ॥ मायाविन्, मेधाविन्, स्रग्विन् ॥ The word माया being included in व्रीह्यादि class, will take इनि, and ठञ् also (5.2.116). As मायी, मायिकः ॥
Kashika¶
असन्तात् प्रातिपदिकाद् माया मेधा स्रज् इत्येतेभ्यश्च विनिः प्रत्ययो भवति मत्वर्थे। मतुप् सर्वत्र समुच्चीयत एव। असन्तात् तावत् — यशस्वी। तपस्वी। पयस्वी। मायावी। मेधावी। स्रग्वी। मायाशब्दाद् व्रीह्यादिषु पाठादिनिठनावपि भवतः। मायी। मायिकः॥
Siddhanta Kaumudi¶
यशस्वी । यशस्वान् । मायावी । मायावान् । व्रीह्यादिपाठादिनिठनौ । मायी । मायिकः । क्विन्नन्तत्वात्कुः । स्रग्वी ।<!आमयस्योपसंख्यानं दीर्घश्च !> (वार्तिकम्) ॥ आमयावी ।<!शृङ्गवृन्दाभ्यामारकन् !> (वार्तिकम्) ॥ शृङ्गारकः । वृन्दारकः ।<!फलबर्हाभ्यामिनच् !> (वार्तिकम्) ॥ फलिनः । बर्हिणः ।<!हृदयाच्चालुरन्यतरस्याम् !> (वार्तिकम्) ॥ इनिठनौ मतुप् च । हृदयालुः । हृदयी । हृदयिकः । हृदयवान् ।<!शीतोष्णतृप्रेभ्यस्तदसहने !> (वार्तिकम्) ॥ शीतं न सहते शीतालुः । उष्णालुः । स्फायितञ्चीति रक् । तृप्रः पुरोडाशः । तं न सहते तृप्रालुः । तृप्रं दुःखमिति माधवः ।<!हिमाच्चेलुः !> (वार्तिकम्) ॥ हिमं न सहते हिमेलुः ।<!बलादूलः !> (वार्तिकम्) ॥ वलं न सहते बलूलः ।<!वातात्समूहे च !> (वार्तिकम्) ॥ वातं न सहते वातस्य समूहो वा वातूलः ।<!तप्पर्वमरुद्भ्याम् !> (वार्तिकम्) ॥ पर्वतः । मरुत्तः ॥
Laghu Siddhanta Kaumudi¶
यशस्वी। यशस्वान्। मायावी। मेधावी। स्रग्वी॥
Balamanorama¶
अस्मायामेधास्रजो विनिः - अस्मायामेधा ।अ॑सित्यनेन असन्तं विवक्षितम् । असन्त, माया, मेधा, रुआज् एभ्यो विनि प्रत्ययः स्यादित्यर्थः । प्रत्यये नकारादिकार उच्चारणार्थः । यशस्वीति । ‘तसौ मत्वर्थे’ इति भत्वान्न रुत्वमिति भावः । यशस्वानिति ।एकगोपूर्वा॑दिति सूत्रे नित्यग्रहणेन निवृत्तमपि समुच्चयार्थमन्यतरस्याङ्ग्रहणमिहमण्डूकप्लुत्या अनुवर्तते, ‘तसौ मत्वर्थे’ इति सूत्रे यशस्वानिति भाष्योदाहरणादिति भावः । रुआग्वीत्यत्रव्रश्चे॑ति षत्वमाशङ्क्याह — क्वन्नन्तत्वादिति । आमयस्येति । आमशब्दान्मत्वर्थे विनिः प्रकृतेर्दीर्घश्चेत्यर्थः । शृङ्गवृन्दाभ्यामिति । फलबर्हाभ्यामिति । ह्मदयाच्चालुरिति । वार्तिकत्रयमिदम् । मतुप्चेति । ‘वक्तव्य’ इति शेषः, भाष्ये तथोक्तत्वात् । चुटू इति चकारस्येत्यसंज्ञा अन्यतरस्यांग्रहणाच्चालोपभावे इनिठनौ । समुच्चयार्थकान्यतरस्याङ्ग्रहणानुवृत्तेर्मतुबपि । तथा चाऽत्र चत्वारः प्रत्ययाः । तदाह — ह्मदयालुरित्यादि ।॒शीतोष्णतृप्रेम्यस्तन्न सहते॑ इति वार्तिकमर्थतः सङ्गृहणाति — शीतेति । शीत, उष्ण, तृप्र — एभ्यो द्वितीयान्तेभ्यो न सहते इत्यर्थे चालुर्वक्तव्य इत्यर्थः । तृप्रः पुरोडाश इति । मन्त्रभाष्ये तथोक्तत्वादिति भावः । हिमोच्चेलुरिति । वार्तिकमिदम् । हिमशब्दाद्द्वितीयान्तान्न सहत इत्यर्थे चेलुः स्यादित्यर्थः । चकार इत् । बलादूल इति ।तन्न सहते इत्यर्थे वक्तव्य॑ इति शेषः । वातात्समूहे चेति । षष्ठन्ताद्वातशब्दात्समूहेऽर्थे, द्वितीयान्तान्न सहते इत्यर्थे च ऊलप्रत्ययो वाच्य इत्यर्थः । तप्पर्वमरुद्भ्यामिति । वार्तिकमिदम् । पर्वमरुद्भ्यां तप्वक्तव्य #इत्यर्थः । ‘तन्वक्तव्य’ इति वृत्तिकृत्, हरदत्तश्च । प्रौढमनोरमायां तु नित्त्वं निराकृतम् । शब्देन्दुशेखरे तु हरदत्तसंमतं नित्त्वमेव स्थापितम् । रूढत्वादवयवार्थाऽभावान्न मतुप् ।
Tattvabodhini¶
अस्मायामेधास्रजो विनिः - अस्मायामेधा । यशस्वीति ।तसौ मत्वर्थे ॑इति भत्वाद्रुत्वं न । यशस्वानिति । नित्यग्रहणात्पूर्वत्राऽसंबद्धमप्यन्यतरस्याङ्ग्रहणं मतुप्समुच्चयार्थमिह संबध्यत एव ।तसौ मत्वर्थे॑इति सूत्रे यशस्वी यशस्वानिति भाष्योदाहरणादिति भावः ।चोः कु॑रित्यनेन सिद्धे व्रश्चादिषत्वमाशङ्क्याह -क्विन्नन्तत्वादिति । ह्मदयाच्चालुरन्यतरस्याम् । ह्मदयाच्चालुरन्यतरस्याम् । अन्यतरस्याङ्ग्रहणमिनिठनोः प्राप्त्यर्थम् । मतुप् सर्तत्र समुच्चीयत एव । चकारस्यचुटू॑इतीत्संज्ञा । तेन ह्मदयालुशब्दोऽन्तोदात्त इत्याहुः ।शीतोष्णतृप्रेभ्यस्तदसहने । शीतोष्णेति । इह चालुरनुवर्तते । परुडाश इति ।न तृप्रा उरुव्यचस॑मिति मन्त्रस्य भाष्ये तथा व्याख्यातत्वादिति भावः । माधव इति । सुब्धातुवृत्तौ स्थितमिदम् ।हिमाच्चेलुः । हिमाच्चेलुरिति । एकारदिरयं प्रत्यय इति माधवः ।बलादलः । बलादिति । सिध्मादिषु बलूलवातूलशब्दौ मत्वर्थे प्रकारान्तरेण व्युत्पादितौ । तप्पर्वमरुद्भ्याम् । पित्त्वमनुदात्तत्वार्थम् । काशिकायां तुपर्वमरुद्भ्यां तन्वक्तव्यः॑इति स्थितम् । हरदत्तेनतुत॑न्निति प्रतीकमुपादाय आद्युदात्तत्वार्थो नकार इत्युक्तम् । तच्च मनोरमायां महता प्रबन्धेन दीक्षितैर्निराकृतं तत एव तदवधार्यम् ।
Padamanjari¶
मतुप् सर्वत्र समुच्चीयत एवेति। पूर्वं नित्यग्रहणेन अन्यतरस्यांग्रहणं तत्रैव न सम्बध्यते, इह तु सम्बध्यत एवेत्येव शब्दस्यार्थः। तथा च’तसौ मत्वर्थे’ इत्यत्र पयस्वान् यशस्वानिति भाष्ये उदाहृतम्। पयस्वीति।’तसौ मत्वर्थे’ इति भत्वाज्जश्त्वाभावः ॥
Prakriyasarvasvam¶
असन्ताद्यशस्वी । मायावी, मेधावी । पदत्वात्कुत्वम् । स्रग्वी । ‘आमयस्य दीर्घश्च’ (वा०) । आमयावी । एभ्यो मतुप् च । यशस्वान् मायावानित्यादि ।<!शृङ्गवृन्दाभ्यामारकन्वाच्यः!> (वा०) । शृङ्गारकस्तरुः । प्रशस्तं वृन्दं रूपमेषामिति वृन्दारका इति टीकासर्वस्वे ।<!फलबर्हाभ्यामिन्ज्वाच्यः!> (वा०) । फलिनः । बर्हिणः । फली बर्हीत्यपीष्टम् । रथाच्चेति कौमुदी । रथिनः ।<!हृदयाच्चालुर्वा!> (वा०) । चः स्वरार्थः । हृदयालुः । हृदयी । ‘शीतोष्णतृप्रेभ्यस्तन्न सहत इति चालुर्वाच्यः’ (वा०) । शीतालुः । उष्णालुः । तृप्रालुः । तृप्रं दुःखम् ।<!हिमाच्चेलुः!> (वा०) । चः प्राग्वत् । हिमं न सहते हिमेलुः ।<!बलादूलच्!> (वा०) । बलं न सहते बलूलः । ‘वातात्समूहे,<!तन्न सहत इति च!> (वा०) । वातूलः । हिमेलुबलूलवातूलां- स्तन्न सहत इत्यर्थं आह भोजः । ‘पर्वमरुद्भ्यां तप् ।’ (स० ५-२-२०५) पर्वत उत्सववान् । शैले त्वौणादिकः । मरुतोऽस्य यज्ञे परिवेष्टृत्वेन सन्तीति मरुत्तो राजा ॥
Sutra Prayogas¶
मायाविभिः (रघुवंशम्): अस्मायामेधास्रजो विनिः इति विनिप्रत्ययः।
स्रग्वी (रघुवंशम्): अस्मायामेधास्रजो विनिः इति विनिप्रत्ययः।
तपस्विने (कुमारसम्भवम्): अस्मायामेधास्त्रजो विनिः इति विनिप्रत्ययः।
मायाविषु (किरातार्जुनीयम्): अस्मायामेधास्रजो विनिः इति विनिप्रत्ययः।
मनस्वी (भट्टिकाव्यम्): अस्मायामेधा- इत्यादिना विनिः ।
स्रग्विणी (भट्टिकाव्यम्): अस्माया इत्यादिना विनिः।