51091: वत्सरान्ताच्छश्छन्दसि¶
Padacheda: वत्सरान्तात् | S | 5 | 1 |
छः | S | 1 | 1 |
छन्दसि | S | 7 | 1 |
Sutrartha¶
यः शब्दः ‘वत्सर’ इत्यनेन समाप्यते, तस्मात् ‘निर्वृत्तम्’ इत्यस्मिन् अर्थे तथा च ‘अधीष्टः’, ‘भृतः’, ‘भूतः’ तथा ‘भावी’ एतेषु अर्थेषु वेदेषु छ-प्रत्ययः कृतः दृश्यते ।
‘वत्सर’ इत्युक्ते वर्षम् । यस्य शब्दस्य अन्ते ‘वत्सर’ इति पदमागच्छति, तादृशः शब्दः ‘वत्सरान्तः’ अस्तीति उच्यते । अस्मात् ‘वत्सरान्त’शब्दात् तेन निर्वृत्तम् (5.1.79) इत्यनेन निर्दिष्टस्य ‘निवृत्तम्’ अस्य अर्थस्य विषये ; तथा च तमधीष्टो भृतो भूतो भावी (5.1.80) इत्यनेन निर्दिष्टानाम् ‘अधीष्टः, भृतः, भूत, भावी’ - एतेषामर्थानाम् विषये वेदेषु छ-प्रत्ययः कृतः दृश्यते । अस्य सम्यक् अर्थं ज्ञातुम् प्रारम्भे काचन पीठिका ज्ञेया । वेदेषु बहुत्र ‘युगम्’ इति संज्ञा ‘पञ्चवर्षाणाम् समूहः’ अस्मिन् अर्थे कृता दृश्यते । यथा, यजुर्वेदे ‘पञ्चकम् युगम्’ इति प्रयोगः बहुत्र दृश्यते । अस्मिन् ‘पञ्चके’ युगे यानि पञ्चवर्षाणि विद्यन्ते, तेषाम् क्रमेण - ‘संवत्सर, परिवत्सर, इदावत्सर, इद्वत्सर, तथा वत्सर’ - एतानि नामानि अपि दत्तानि सन्ति । एतानि पञ्च नामानि एव अस्मिन् सूत्रे ‘वत्सरान्त’ इत्यनेन निर्दिष्टानि सन्ति । एतेभ्यः एव - (अ) तेन निर्वृत्तम् (5.1.79) इत्यनेन निर्दिष्टे ‘निवृत्तम्’ अस्मिन् अर्थे ; तथा च (आ) तमधीष्टो भृतो भूतो भावी (5.1.80) इत्यनेन निर्दिष्टेषु ‘अधीष्टः, भृतः, भूत, भावी’ एतेषु अर्थेषु वेदेषु छ-प्रत्ययः कृतः दृश्यते । अनेन ‘संवत्सरीय’, ‘परिवत्सरीय’, ‘इदावत्सरीय’, ‘इद्वत्सरीय’ तथा ‘वत्सरीय’ - एते शब्दाः सिद्ध्यन्ति । ज्ञातव्यम् - ‘संवत्सर’ तथा ‘परिवत्सर’ शब्दाभ्याम् सम्परिपूर्वात् ख च (5.1.92) इत्यनेन अग्रिमसूत्रेण ‘ख’ प्रत्ययः अपि उच्यते, येन ‘संवत्सरीण’ तथा ‘परिवत्सरीण’ एते रूपे सिद्ध्यतः ।
Vasu English Summary¶
The affix छ comes in the छन्दस् (Vedas) in the five-fold senses taught in पन्थो ण नित्यम् (5.1.76), तमधीष्टो भृतो भूतो भावी (5.1.80), after a stem ending in वत्सर।
Vasu English Translation¶
The affix छ comes in the छन्दस् (Vedas) in the five-fold senses taught in पन्थो ण नित्यम् (5.1.76), तमधीष्टो भृतो भूतो भावी (5.1.80), after a stem ending in वत्सर। This debars ठञ् ॥ Thus इद्वत्सरीयः, इदावत्सरीयः ॥
Kashika¶
वत्सरान्तात् प्रातिपदिकाद् निर्वृत्तादिष्वर्थेषु छन्दसि विषये छः प्रत्ययो भवति। ठञोऽपवादः। इद्वत्सरीयः। इदावत्सरीयः (काठ०सं० १३.१५)॥
Siddhanta Kaumudi¶
निर्वृत्तादिष्वर्थेषु । इद्वत्सरीयः ॥
Padamanjari¶
इद्वत्सर-इदावत्सरशब्दौ पञ्चवर्षे युगे द्वयोर्घर्षयोः संज्ञे। एवं संवत्सर-परिवत्सरशब्दावपि ॥
Prakriyasarvasvam¶
वत्सरान्तात्तेन निर्वृत्तं तमधीष्टो भृतो भूतो भावीत्यर्थेषु छः स्यात् । इदावत्सरीयः ।