51087: रात्र्यहस्संवत्सराच्च

Padacheda: रात्रि-अहः-संवत्सरात् | S | 5 | 1 |

च | S | 0 | 0 |

Sutrartha

‘अधीष्टः’, ‘भृतः’, ‘भूतः’, तथा ‘भावी’ एतेषु अर्थेषु द्वितीयासमर्थात्, तथा च ‘निर्वृत्तम्’ अस्मिन् अर्थे तृतीयासमर्थात् द्विगु-शब्दस्य उत्तरपदे विद्यमानेभ्यः ‘रात्रि’/’अहन्’/’संवत्सर’ शब्देभ्यः विकल्पेन ख-प्रत्ययः भवति ।

तेन निर्वृत्तम् (5.1.79) इत्यनेन निर्दिष्टस्य ‘निवृत्तम्’ अस्य अर्थस्य विषये ; तथा च तमधीष्टो भृतो भूतो भावी (5.1.80) इत्यनेन निर्दिष्टानाम् ‘अधीष्टः, भृतः, भूत, भावी’ - एतेषामर्थानाम् विषये द्विगुसमासस्य उत्तरपदरूपे विद्यमानात् ‘रात्रि’, ‘अहन्’ तथा ‘संवत्सर’ शब्देभ्यः अनेन सूत्रेण विकल्पेन ‘ख’ प्रत्ययः भवति । पक्षे तदन्तविधिना औत्सर्गिकः ठञ्-प्रत्ययः अपि विधीयते । आदौ रूपनिर्माणम् कथम् भवति तत् दृष्ट्वा ततः द्वयोः अर्थयोः विषये क्रमेण पश्यामः । 1. रात्रि - द्वि + रात्रि + ख → द्विरात्रीण । पक्षे - द्वि + रात्रि + ठञ् → द्वैरात्रिक । तथैव त्रिरात्रीण / त्रैरात्रिक , पञ्चरात्रीण / पाञ्चरात्रिक - एते शब्दाः अपि सिद्ध्यन्ति । 2. ‘अहन्’ - द्वि + अहन् + ख → द्वि + अहन् + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ख-प्रत्ययस्य ईन-आदेशः] → द्व्यहन् + ईन [इको यणचि (6.1.77) इति यणादेशः] → द्व्यह् + ईन [अह्नष्टखोरेव (6.4.145) इत्यनेन टिलोपः] → द्व्यहीन पक्षे ठञ्-प्रत्ययः - द्वि + अहन् + ठञ् → द्वि + अहन् + इक [ठस्येकः (7.1.2) इति इक-आदेशः] → द्व्यहन् + इक [ इको यणचि (6.1.77) इति यणादेशः । तद्धितप्रत्ययाः सन्धिकार्यात् अनन्तरम् एव विधीयन्ते इति समर्थानाम् प्रथमाद्वा (4.1.82) इत्यत्र स्पष्टीकृतमस्ति, अतः यणादेशात् पूर्वमादिवृद्धेः प्रसक्तिः न विद्यते ।] → द् व् ऐ य् अ हन् + इक [न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच् (7.3.3) इति आदिवृद्धिनिषेधः; ततः च ऐच्-आगमः भवति ।] → द्वैयहन् + इक → द्वैयह् न् + इक [नस्तद्धिते (6.4.144) इत्यनेन टिलोपे प्राप्ते अह्नष्टखोरेव (6.4.145) इत्यनेन ट-प्रत्ययं ख-प्रत्ययं च विहाय अन्यत्र सः प्रतिषिध्यते । अतः अत्र अल्लोपोऽनः (6.4.134) इति उपधा-अकारलोपः भवति] → द्वैयह्निक तथैव त्र्यहीण / त्रैयह्निक , पञ्चाहीन, पाञ्चाह्निक - एते शब्दाः सिद्ध्यन्ति । 3. द्वि + संवत्सर + ख → द्विसंवत्सरीण । पक्षे - द्वि + संवत्सर + ठञ् → द्विसांवत्सरिक । अत्र संख्यायाः संवत्सरसंख्यस्य च (7.3.15) इति उत्तरपदवृद्धिः विधीयते । इदानीम् एते शब्दाः द्वयोः अर्थयोः सन्दर्भेण पश्यामः - 1. तेन निर्वृत्तम् (5.1.79) - अ) द्वाभ्यां रात्रिभ्यां निर्वृत्तम् द्विरात्रीणम् द्वैरात्रिकम् वा । आ) द्वाभ्यां अहभ्यां निर्वृत्तम् द्व्यहीनम् द्वैयह्निकम् वा । इ) द्वाभ्यां संवत्सराभ्यां निर्वृत्तम् द्विसंवत्सरीणम् द्विसांवत्सरिकं वा । 2. तमधीष्टो भृतो भूतो भावी (5.1.80) - अ) द्वे रात्री अधीष्टः द्विरात्रीणः द्वैरात्रिकः वा नर्तकः । द्वे अह्नी अभीष्टः द्व्यहीनः द्वैयह्निकः वा अध्यापकः । द्वौ संवत्सरौ अधीष्टः द्विसंवत्सरीणः द्विसांवत्सरिकः वा प्राचार्यः । आ) द्वे रात्री भृतः द्विरात्रीणः द्वैरात्रिकः वा सेवकः । द्वे अह्नी भृता द्व्यहीना द्वैयह्निकी वा दासी । द्वौ संवत्सरौ भृतः द्विसंवत्सरीणः द्विसांवत्सरिकः वा दासः । इ) द्वे रात्री भूतः द्विरात्रीणः द्वैरात्रिकः वा ज्वरः । द्वे अह्नी भूता द्व्यहीना द्वैयह्निकी वा पीडा । द्वौ संवत्सरौ भूतः द्विसंवत्सरीणा द्विसांवत्सरिकी वा वेदना । ई) द्वे रात्री भावी द्विरात्रीणः द्वैरात्रिकः वा यज्ञः । द्वे अह्नी भावी द्व्यहीना द्वैयह्निकी वा पूजा । द्वौ संवत्सरौ भावी द्विसंवत्सरीणः द्विसांवत्सरिकः वा उत्सवः ।

Vasu English Summary

The affix ख optionally in the senses taught in तेन निर्वृत्तम् (5.1.79), द्विगोर्यप् (5.1.82), after the words 1. रात्री 2. अहन् and 3. सम्वत्सर , occasioning a द्विगु समास (Numeral Determinative Compound).

Vasu English Translation

The affix ख optionally in the senses taught in तेन निर्वृत्तम् (5.1.79), द्विगोर्यप् (5.1.82), after the words 1. रात्री 2. अहन् and 3. सम्वत्सर , occasioning a द्विगु समास (Numeral Determinative Compound). In the alternative ठञ् will also come. Thus द्विरात्रीणः, द्वैरात्रिकः, द्व्यहीनः (6.4.145) or द्वैयह्निकः, द्विसंवत्सरीणः, द्विसांवत्सरिकः (7.3.15).

Kashika

रात्रि अहः संवत्सर इत्येवमन्ताद् द्विगोर्निर्वृत्तादिष्वर्थेषु वा खः प्रत्ययो भवति। खेन मुक्ते पक्षे ठञपि भवति। द्विरात्रीणः, द्वैरात्रिकः। त्रिरात्रीणः, त्रैरात्रिकः। द्व्यहीनः, द्वैयह्निकः। त्र्यहीणः, त्रैयह्निकः। द्विसंवत्सरीणः, द्विसांवत्सरिकः। त्रिसंवत्सरीणः, त्रिसांवत्सरिकः। संख्यायाः संवत्सरसंख्यस्य च (७.३.१५) इत्युत्तरपदवृद्धिः॥

Siddhanta Kaumudi

द्विगोरित्येव । द्विरात्रीणः । द्वैरात्रिकः । द्व्यहीनः । द्वैयह्निकः । समासान्तविधेरनित्यत्वान्न टच् । द्विसंवलत्सरीणः ॥

Balamanorama

रात्र्यहस्संवत्सराच्च - रात्र्यहः । द्विगोरित्येवेति । रात्रि, अहन् संवत्सर — एतदन्ताद्द्विगोर्निर्वृत्तादिष्वर्थेषु खो वा स्यादित्यर्थः । पक्षेठञ् । द्विरीत्रीण इति । द्वाभ्यां रात्रिभ्यां निर्वृत्तः, द्वे अहनी अधीष्ट इत्यादिष्वर्थेषु ‘तद्धितार्थ’ इति द्विगोः खः,अह्नष्टखो॑रिति टिलोपः । समाहारद्विगोस्तु न खः, टचि कृते अहन्शब्दाऽभावात् । द्वैयह्निक इति ।अह्वष्टखोरेव॑ति नियमान्न टिलोपः, किन्त्वल्लोपः, अह्नादेशो वा ।न य्वाभ्या॑मित्यैच् । ननु ‘द्व्यहीन’ इत्यत्र तद्धितार्थ॑ इति द्विगुसमासे कृतेरात्र्यहःसंवत्सराच्चे॑ति र्ख बाधित्वा परत्वात् ‘राजाहःसखिभ्यः’ इति टचि ‘अह्नोऽह्न एतेभ्यः’ इत्यह्नादेशे तस्य स्थानिवत्त्वेनाऽहन्शब्दत्वेऽपि टजन्तस्य तदभावात् ‘रात्र्यहःसखिभ्यः’ इति टचि ‘अह्नोऽह्न एतेभ्यः’ इत्यह्नादेशे तस्य स्थानिवत्त्वेनाऽहन्शब्दत्वेऽपि टजन्तस्य तदभावात्रात्र्यहःसंवत्सराच्चे॑ति खप्रत्ययो न स्यात् । कृतेऽपि खप्रत्यये ‘द्व्यह्नीन’ इतिस्यादित्यत आह — समासान्तविधेरनित्यत्वान्न टजिति । एवं च टजभावे सति नाह्नादेशः, समासान्ते पर एव तद्विधानादिति भावः ।समासान्तविधिरनित्यः॑ इति षष्ठाध्यायस्य द्वितीये पादेद्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ॑ इति सूत्रभाष्ये स्पष्टम् । अथ संवत्सरान्तस्य खे उदाहरति — द्विसंवत्सरीण इति ।

Tattvabodhini

रात्र्यहस्संवत्सराच्च - द्वैयह्निक इति ।टेखोरेवे॑ति नियमादिह टिलोपो न ।अल्लोपोऽनः॑ ।न य्वाभ्यां॑मित्यैच् । ननुतद्धितार्थ॑इति द्विगुसमासानन्तरंरात्र्यहःसंवत्सराच्चे॑क्येवं बाधित्वा परत्वाट्टचा भाव्यम् । न च महाविभाषया टचो विकल्प इति वाच्यम् ।बृहतीजात्यन्ताः समासान्ताश्चे॑ति नित्येषु परिगणनादत आह -समासान्तविधेरिति । यद्यपि टचि कृतेऽप्यह्नादेशेनद्वैयह्निकः॑इति रूपं सिध्यति, तथापिद्व्यहीनः॑इति हि रूपं न सिध्यति, टचि सति आह्नादेशे तस्य स्थानिवत्त्वात्,राजाहः॑इति समासान्तस्याऽहःशब्दान्तसमासग्रहणेनैव ग्रहणाच्चरात्र्यहऋसंवत्सराच्च॑इति खप्रत्यये कृतेऽपिद्व्यह्नीन॑इति रूपप्रसङ्गादित्याहुः ।

Padamanjari

द्वैयह्निक इति। ठङ्नष्टखोरेवऽ इति कनियमादसति टिलोपे ठल्लोपोऽनःऽ इत्यकारलोपः। नन्वत्र राजाहःसखिभ्यष्टच्ऽ इति परत्वाट्टचा भवितव्यम्, न च महाविभाषया टटो विकल्पः, बृहतीजात्यन्ताः समासान्ताश्चेति नित्येषु परिगणनात् ? एवं तर्हि समासान्तविधरेनित्यत्वादत्र न भविष्यति ॥

Nyaas

द्व्यहीनः इति। अह्नष्टखोरेव (6.4.145) इति टिलोपः। विभाषानुवर्तते, तेन व्यवस्थितविभाषात्वान्न टज्भविष्यति। द्वैयह्निकः, त्रैयह्निकः इति। न य्वाभ्याम् (7.3.3) इत्यादिनैजागमः, वृद्धिप्रतिषेधश्च॥

Prakriyasarvasvam

एतदन्ताद् द्विगोर्निर्वृत्तादौ वा खः । द्विरात्रीणः । ‘द्वैरात्रिकः । अह्नः खे टिलोपः’ । द्व्यहीनः । ठञ्यल्लोपः । द्वैयह्निकः । द्विसंवत्सरीणः । ‘सङ्ख्यायाः संवत्सर—’ (७-३-१५) इत्युत्तरपदवृद्धिः । द्विसांवत्सरिकः ॥

Sutra Prayogas

  • पौंस्नि (भट्टिकाव्यम्): अहार्थे हितार्थे वा स्त्री-पुंसाभ्यां नज् स्वनौ इति स्त्रीप्रत्यये ‘नज् - स्खलीकक्- ख्युंस्तरुण- तलुनानामुपसंख्यानम्’ इति।