51059: पङ्क्तिविंशतित्रिंशत्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्

Padacheda: पङ्क्ति-विंशति-त्रिंशत्-चत्वारिंशत्-पञ्चाशत्-षष्टि-सप्तति-अशीति-नवति-शतम् | S | 1 | 1 |

Sutrartha

‘तत् अस्य परिमाणम्’ अस्मिन् अर्थे ‘पङ्क्ति’ शब्दः, तथा ‘तत् अस्य सङ्घस्य परिमाणम्’ अस्मिन् अर्थे ‘विंशति’, ‘त्रिंशत्’, ‘चत्वारिंशत्’, ‘पञ्चाशत्’, ‘षष्टि’, ‘सप्तति’, ‘अशीति’, ‘नवति’, ‘शतम्’ - एते शब्दाः निपात्यन्ते ।

‘अस्य परिमाणम्’ अस्मिन् अर्थे केचन विशिष्टाः शब्दाः अनेन सूत्रेण निपात्यन्ते । क्रमेण पश्यामः - 1. पङ्क्ति - ‘पञ्च परिमाणमस्य छन्दस्य’ अस्मिन् अर्थे ‘पङ्कति’ शब्दः निपात्यते । पन्चन् [प्रकृत्याः मूलरूपे नकारः विद्यते । प्रक्रियायाः अन्ते तस्य अनुस्वार-परसवर्णे ञकारः भवति । अतः अत्र नकारेणैव प्रक्रिया दर्शनीया ] → पन्चन् + ति [निपातनात् ‘ति’ प्रत्ययः] → पन्च् + ति [निपातनात् टिलोपः । अङ्गस्य स्वादिष्वसर्वनामस्थाने (1.4.17) इति पदसंज्ञा] → पन्क् + ति [चोः कुः (8.2.30) इति कुत्वम् । → पंक् + ति [नश्चापदान्तस्य झलि (8.3.24) इति नकारस्य अनुस्वारः] → पङ्क् + ति [अनुस्वारस्य ययि परसवर्णः (8.4.58) इति परसवर्णः] → पङ्क्ति । क्रमः (row) अस्मिन् अर्थे अपि अस्य शब्दस्य प्रयोगः भवति । यथा - ब्राह्मणपङ्क्तिः (A queue of brahmins इत्यर्थः) । अग्रे निर्दिष्टाः सर्वे शब्दाः ‘तत् परिमाणमस्य सङ्घस्य’ अस्मिन् अर्थे निपात्यन्ते । अत्र ‘सङ्घ’ इत्यस्य अर्थः ‘प्राणिसमुदायः’ (group of animals) इति विद्यते । (Note - The word ‘animal’ here represent all living things except plants) । 2. विंशति - ‘द्वौ दशतौ परिमाणमस्य सङ्घस्य’ अस्मिन् अर्थे ‘विंशति’ शब्दः निपात्यते । द्वि + दशत् + शतिच् [‘दशानाम् वर्गः’ अस्मिन् अर्थे पञ्चद्दशतौ वर्गे वा (5.1.60) इत्यनेन दशत्-शब्दः निपात्यते । तस्मात् वर्तमानसूत्रेण ‘शतिच्’ प्रत्ययः निपात्यते । ] → विन् + शति [चकारस्य इत्संज्ञा, लोपः । अग्रे निपातनात् सम्पूर्णस्य अङ्गस्य विन् ‘ इति आदेशः भवति, तथा च अस्य पदसंज्ञा अपि निषिध्यते ।] → विंशति [नश्चापदान्तस्य झलि (8.3.24) इति अपदान्त-नकारस्य अनुस्वारः] अस्य शब्दस्य रूपाणि नित्यं एकवचने स्त्रीलिङ्गे (‘मति’शब्दवत्) भवन्तीति बालमनोरमायाम् स्पष्टीक्रियते । 4. त्रिंशत् - ‘त्रयः दशतः परिमाणमस्य सङ्घस्य’ अस्मिन् अर्थे ‘त्रिंशत्’ शब्दः निपात्यते । त्रि + दशत् + शत् [‘दशानाम् वर्गः’ अस्मिन् अर्थे पञ्चद्दशतौ वर्गे वा (5.1.60) इत्यनेन दशत्-शब्दः निपात्यते । तस्मात् वर्तमानसूत्रेण ‘शत्’ प्रत्ययः निपात्यते । ] → त्रिन् + शत् [निपातनात् सम्पूर्णस्य अङ्गस्य ‘त्रिन्’ इति आदेशः भवति, तथा च अस्य पदसंज्ञा अपि निषिध्यते ।] → त्रिंशत् [नश्चापदान्तस्य झलि (8.3.24) इति अपदान्त-नकारस्य अनुस्वारः] अस्य शब्दस्य रूपाणि नित्यं एकवचने स्त्रीलिङ्गे (‘सरित्’शब्दवत्) भवन्ति । 5. चत्वारिंशत् - ‘चत्वारः दशतः परिमाणमस्य सङ्घस्य’ अस्मिन् अर्थे ‘चत्वारिंशत्’ शब्दः निपात्यते । चतुर् + दशत् + शत् [‘दशानाम् वर्गः’ अस्मिन् अर्थे पञ्चद्दशतौ वर्गे वा (5.1.60) इत्यनेन दशत्-शब्दः निपात्यते । तस्मात् वर्तमानसूत्रेण ‘शत्’ प्रत्ययः निपात्यते । ] → चत्वारिन् + शत् [निपातनात् सम्पूर्णस्य अङ्गस्य ‘चत्वारिन्’ इति आदेशः भवति, तथा च अस्य पदसंज्ञा अपि निषिध्यते ।] → चत्वारिंशत् [नश्चापदान्तस्य झलि (8.3.24) इति अपदान्त-नकारस्य अनुस्वारः] अस्य शब्दस्य रूपाणि नित्यं एकवचने स्त्रीलिङ्गे (‘सरित्’शब्दवत्) भवन्ति । 6. पञ्चाशत् - ‘पञ्च दशतः परिमाणमस्य सङ्घस्य’ अस्मिन् अर्थे ‘पञ्चाशत्’ शब्दः निपात्यते । पञ्च + दशत् + शत् [‘दशानाम् वर्गः’ अस्मिन् अर्थे पञ्चद्दशतौ वर्गे वा (5.1.60) इत्यनेन दशत्-शब्दः निपात्यते । तस्मात् वर्तमानसूत्रेण ‘शत्’ प्रत्ययः निपात्यते । ] → पञ्चा + शत् [निपातनात् सम्पूर्णस्य अङ्गस्य ‘पञ्चा’ इति आदेशः भवति ।] → पञ्चाशत् अस्य शब्दस्य रूपाणि नित्यं एकवचने स्त्रीलिङ्गे (‘सरित्’शब्दवत्) भवन्ति । 6. षष्टि - ‘षट् दशतः परिमाणमस्य सङ्घस्य’ अस्मिन् अर्थे ‘षष्टि’शब्दः निपात्यते । षट् + दशत् + ति [‘दशानाम् वर्गः’ अस्मिन् अर्थे पञ्चद्दशतौ वर्गे वा (5.1.60) इत्यनेन दशत्-शब्दः निपात्यते । तस्मात् वर्तमानसूत्रेण ‘ति’ प्रत्ययः निपात्यते । ] → षष् + ति [निपातनात् सम्पूर्णस्य अङ्गस्य ‘षष्’ इति आदेशः भवति, तथा च अस्य पदसंज्ञा अपि निषिध्यते ।] → षष् + टि [ष्टुना ष्टुः (8.4.41) इति ष्टुत्वम्] → षष्टि अस्य शब्दस्य रूपाणि नित्यं एकवचने स्त्रीलिङ्गे ‘मति’शब्दवत् भवन्ति । 7. सप्तति - ‘सप्त दशतः परिमाणमस्य सङ्घस्य’ अस्मिन् अर्थे ‘सप्तति’ शब्दः निपात्यते । सप्त + दशत् + ति [‘दशानाम् वर्गः’ अस्मिन् अर्थे पञ्चद्दशतौ वर्गे वा (5.1.60) इत्यनेन दशत्-शब्दः निपात्यते । तस्मात् वर्तमानसूत्रेण ‘ति’ प्रत्ययः निपात्यते । ] → सप्त + ति [निपातनात् सम्पूर्णस्य अङ्गस्य ‘सप्त’ इति आदेशः भवति।] → सप्तति । अस्य शब्दस्य रूपाणि नित्यं एकवचने स्त्रीलिङ्गे ‘मति’शब्दवत् भवन्ति । 8. अशीति - ‘अष्ट दशतः परिमाणमस्य सङ्घस्य’ अस्मिन् अर्थे ‘अशीति’शब्दः निपात्यते । अष्ट + दशत् + ति [‘दशानाम् वर्गः’ अस्मिन् अर्थे पञ्चद्दशतौ वर्गे वा (5.1.60) इत्यनेन दशत्-शब्दः निपात्यते । तस्मात् वर्तमानसूत्रेण ‘ति’ प्रत्ययः निपात्यते । ] → अशी + ति [निपातनात् सम्पूर्णस्य अङ्गस्य ‘अशी’ इति आदेशः भवति ।] → अशीति अस्य शब्दस्य रूपाणि नित्यं एकवचने स्त्रीलिङ्गे ‘मति’शब्दवत् भवन्ति । 9. नवति - ‘नव दशतः परिमाणमस्य सङ्घस्य’ अस्मिन् अर्थे ‘नवति’ शब्दः निपात्यते । नव + दशत् + ति [‘दशानाम् वर्गः’ अस्मिन् अर्थे पञ्चद्दशतौ वर्गे वा (5.1.60) इत्यनेन दशत्-शब्दः निपात्यते । तस्मात् वर्तमानसूत्रेण ‘ति’ प्रत्ययः निपात्यते । ] → नव + ति [निपातनात् सम्पूर्णस्य अङ्गस्य ‘नव’ इति आदेशः भवति ।] → नवति अस्य शब्दस्य रूपाणि नित्यं एकवचने स्त्रीलिङ्गे ‘मति’शब्दवत् भवन्ति । 10. शत - ‘दश दशतः परिमाणमस्य सङ्घस्य’ अस्मिन् अर्थे ‘शत’ शब्दः निपात्यते । दश + दशत् + त [‘दशानाम् वर्गः’ अस्मिन् अर्थे पञ्चद्दशतौ वर्गे वा (5.1.60) इत्यनेन दशत्-शब्दः निपात्यते । तस्मात् वर्तमानसूत्रेण ‘त’ प्रत्ययः निपात्यते । → श + त [निपातनात् सम्पूर्णस्य अङ्गस्य ‘श’ आदेशः भवति ।] → शत अस्य शब्दस्य रूपाणि नित्यं एकवचने पुंल्लिङ्गे ‘बाल’शब्दवत् तथा नपुंसकलिङ्गे ‘फल’ शब्दवत् भवन्ति । अस्य शब्दस्य स्त्रीलिङ्गे रूपाणि न जायन्ते । अनेन प्रकारेण वर्तमानसूत्रेण ‘पङ्क्ति’, ‘विंशति’, ‘त्रिंशत्’, ‘चत्वारिंशत्’, ‘पञ्चाशत्’ , ‘षष्टि’, ‘सप्तति’, ‘अशीति’, ‘नवति’ तथा ‘शतम्’ एतानि अव्युत्पन्नानि प्रातिपदिकानि निपात्यन्ते । ज्ञातव्यम् - 1. भाष्यकारस्य मतेन अन्यानि अव्युत्पन्नानि प्रातिपदिकानि - यथा - सहस्रम्, अयुतमादीनि अपि अनेन प्रकारेण एव निपाततेन साधनीयानि । 2. अस्मिन् सूत्रे निर्दिष्टा शब्दाः ‘सङ्घ’ इत्यस्मिन् अर्थे एव निपात्यन्ते । लौकिकभाषायाम् ‘सङ्ख्या’रूपेण प्रयुज्यमानाः विंशति-आदयः शब्दाः सर्वथा भिन्नाः सन्ति । The words given in this sutra should not be confused with similar looking words (like विंशति etc) which are used to denote corresponding numbers.

Vasu English Summary

The following words are anomalous - 1. पङ्क्ति ‘a verse’ 2. विंशति ‘twenty’ 3. त्रिंशत् ‘thirty’ 4.चत्वारिंशत् ‘forty’ 5. पञ्चाशत् ‘fifty’ 6. षष्टि ‘sixty’ 7. सप्तति ‘seventy’ 8. अशीति ‘eighty’ 9. नवति ‘ninety’ 10. शतम् ‘hundred’.

Vasu English Translation

The following words are anomalous - 1. पङ्क्ति ‘a verse’ 2. विंशति ‘twenty’ 3. त्रिंशत् ‘thirty’ 4.चत्वारिंशत् ‘forty’ 5. पञ्चाशत् ‘fifty’ 6. षष्टि ‘sixty’ 7. सप्तति ‘seventy’ 8. अशीति ‘eighty’ 9. नवति ‘ninety’ 10. शतम् ‘hundred’. The words तदस्य परिमाणम् are understood here also : पंक्ति is formed by adding ति to पंच, the final being elided, meaning ‘a verse the measure of which is five’, i. e. a half-quarter consisting of 5 syllables. The word विंशति is formed by adding शतिच् to the word विन् which replaces the two word द्वयोदशतः as द्वौ दशतौ परिमाणमस्य संघस्य = विंशतिः ॥ So the affix शत् comes after त्रिन् representing त्रयोदशतः; so for चतुर्णो दशतां we have चत्वारिम् and then add शत्, similarly with पंचाशत् ॥ Similarly with the rest.

Note:- All the rest appears to be the conjectural etymology of Patanjali and Kasikakara, and hence it is omitted.

The word पंक्ति also means ‘a line’. As ब्राह्मणपङ्क्तिः, पिपीलिका पंक्तिः ॥ Here the sense has no relation to its etymology.

Bhashya

पङि्क्तविंशतित्रिंशच्चत्वारिंशत्पञ्ञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् (1941) (निपातनाधिकरणम्) (वार्तिकावतरणभाष्यम्) इमे विंशत्यादयः सप्रकृतिकाः सप्रत्ययकाश्च निपात्यन्ते, तत्र न ज्ञायते - का प्रकृतिः, कः प्रत्ययः, कः प्रत्ययार्थ इति। तत्र वक्तव्यम् - ःइयं प्रकृतिः, अयं प्रत्ययः, अयं प्रत्ययार्थ इति। इमे ब्रूमः - द्विशब्दादयं दशदर्थाभिधायिनः स्वार्थे शतिच् प्रत्ययो निपात्यते, विन्भावश्च। द्वौ दशतौ विंशतिः॥ (5649 विंशत्यादीनां दशदाद्यर्थे समासवचनानुपपत्तिरूपाक्षेपवार्तिकम्॥ 1 ॥) - विंशत्यादयो दशदर्थे चेत्समासवचनानुपपत्तिः - (भाष्यम्) विंशत्यादयो दशदर्थे चेत्समासो नोपपद्यते - विंशतिगवमिति। किं कारणम्? द्रव्यमनभिहितम्, तस्यानभिहितत्वात् षष्ठी प्राप्नोति, षष्ठ्यन्तं च समासे पूर्वं निपतति। तत्र गोविंशतिरिति प्राप्नोति॥ न चैवं भवितव्यम् - गोविंशतिरिति? भवितव्यम् च, विंशतिगवं तु न सिध्यति॥ इह च त्रिंशत्पूली चत्वारिंशत्पूली समानाधिकरणलक्षणः समासो न प्राप्नोति॥ वचनं च विधेयम्॥ विंशतिः। द्वित्वाद्दशतोर्दवयोर्द्विवचनमिति द्विवचनं प्राप्नोति॥ (वार्तिकावतरणभाष्यम्) एवं तर्हि - परिमाणिनि विंशत्यादयो भविष्यन्ति॥ (5650 परिमाण्यर्थस्वीकारे दोषोद्भावकवार्तिकम्॥ 2 ॥) - परिमाणिनि चेत् पुनः स्वार्थे प्रत्ययविधानम् - (भाष्यम्) परिमाणिनि चेत् पुनः स्वार्थे प्रत्ययो विधेयः। विंशकः संघः॥ (5651 परिमाण्यर्थे द्वितीयदोषोद्भावकवार्तिकम्॥ 3 ॥) - षष्ठीवचनविधिश्च - (भाष्यम्) षष्ठी च विधेया। गवां विंशतिः। द्रव्यमभिहितं तस्याभिहितत्वात् षष्ठी न प्राप्नोति॥ एकवचनं च विधेयम्। विंशतिर्गावः। गोभिः सामानाधिकरण्यात् बहुषु बहुवचनम्(1.4.21) इति बहुवचनं प्राप्नोति॥ (5652 दृष्टान्तनिदर्शनेनाक्षेपवारकवार्तिकम् ॥ 4 ॥) - अनारम्भो वा प्रातिपदिकविज्ञानाद्यथा सहस्रादिषु - (भाष्यम्) अनारम्भो वा पुनर्विंशत्यादीनां न्याय्यः। कथं सिध्यति? प्रातिपदिकविज्ञानात्। कथं प्रातिपदिकविज्ञानम्? विंशत्यादयोऽव्युत्पन्नानि प्रातिपदिकानि। यथा सहस्रादिषु। तद्यथा - सहस्रम् - अयुतम् - अर्बुदम् - इति, न चानुगमः क्रियते, भवति चाभिधानम्॥ (सहस्रादिष्वाक्षेपसमाधानभाष्यम्) यथा सहस्रादिष्वित्युच्यते, अथ सहस्रादिष्वपि कथं भवितव्यम् - सहस्रं गवाम्। सहस्रं गावः। सहस्रगवम्। गोसहस्रमिति। यावताऽत्रापि संहेहः, नासूया कर्तव्या यत्रानुगमः क्रियते॥ (विंशत्यादीनां समुदायबोधकत्वस्वीकारेण वार्तिकाक्षिप्तदोषवारणभाष्यम्) ननु चोक्तम् - विंशत्यादयो दशदर्थे चेत् - समासवचनानुपपत्तिः, परिमाणिनि चेत् - पुनः स्वार्थे प्रत्ययविधानम्, षष्ठीवचनविधिश्चेति॥ नैष दोषः। समुदाये विंशत्यादयो भविष्यन्ति। किं वक्तव्यमेतत्? न हि। कथमनुच्यमानं गंस्यते? सङ्घ इति वर्तते, सङ्घः समूहः समुदाय इत्यनर्थान्तरम्॥ (विंशत्यादीनां गुणवचनत्वबोधकभाष्यम्) त एते विंशत्यादयः समुदाये सन्तो भाववचना भवन्ति, भाववचनाः सन्तो गुणवचना भवन्ति, गुणवचनाः सन्तोऽविशिष्टा भवन्त्यन्यैर्गुणवचनैः॥ (गुणानां गुणिविशेषकत्वबोधकभाष्यम्) अन्येषु च गुणवचनेषु कदाचिद्गुणो गुणिविशेषको भवति, तद्यथा - शुक्लः पट इति॥ (गुणिनां गुणव्यपदेशदर्शकभाष्यम्) कदाचिद्गुणिना गुणो व्यपदिश्यते, तद्यथा - पटस्य शुक्ल इति॥ (आक्षेपपरिहारदर्शकभाष्यम्) तद्यदा तावदुच्यते - विंशत्यादयो दशदर्थे चेत् - समासवचनानुपपत्तिरिति, सामानाधिकरण्यं तदा गुणगुणिनोः। वचनपरिहारस्तिष्ठतु तावत्। परिमाणिनि चेत्पुनः स्वार्थे प्रत्ययविधानमिति, संहनने वृत्तः संहनने वर्तिष्यते, संख्यासंहनने वृत्तो द्रव्यसंहनने वर्तिष्यते॥ अथ षष्ठी तदा गुणिना गुणो विशेष्यते॥ (वचनदोषपरिहारभाष्यम्) वचनपरिहार उभयोरेवम्। उभयोरपि पक्षयोरेवं कृत्वा वचनपरिहारः - (विंशत्यादीनां गुणवचनत्वसाधने आक्षेपभाष्यम्) यदि तर्हि - ःइमे विंशत्यादयो गुणवचनाः स्युः, सधर्मभिरन्यैर्गुणवचनैर्भवितव्यम्। अन्ये च गुणवचना द्रव्यस्य लिङ्गसङ्ख्ये अनुवर्तन्ते, तद्यथा - शुक्लं वस्त्रम्, शुक्ला शाटी, शुक्लः कम्बलः, शुक्लौ कम्बलौ, शुक्लाः कम्बला इति। यदसौ द्रव्यं श्रितो गुणस्तस्य यल्लिङ्गं वचनं च तद्गुणस्यापि भवति॥ (विंशत्यादीनां गुणवचनानां लिङ्गसंख्याऽननुवर्तनेन दोषाभावबोधकभाष्यम्) विंशत्यादयः पुनर्नानुवर्तन्ते। अन्येऽपि वै गुणवचना नावश्यं द्रव्यस्य लिङ्गसंख्ये अनुवर्तन्ते, तद्यथा - गावो धनम्। पुत्रा अपत्यम्। इन्द्राग्नी देवता। विश्वेदेवा देवता। यावन्तस्ते तां वाशितामनुयन्ति सर्वे ते दक्षिणा समृद्ध्या इति॥ (लिङ्गसंख्याननुवर्तनहेतुबोधकभाष्यम्) अथात्राननुवृत्तौ हेतुः शक्यो वक्तुम्? बाढं शक्यो वक्तुम्। कामं तर्ह्युच्यताम्। इह - कदाचिद्गुणः प्राधान्येन विवक्षितो भवति, तद्यथा - पञ्ञ्चोडुपशतानि तीर्णानि। पञ्ञ्चवध्रीशतानि तीर्णानि। अश्वैर्युद्धम्। असिभिर्युद्धमिति। न चासयो युध्यन्ते, असिगुणाः पुरुषा युध्यन्ते, गुणस्तु खलु प्राधान्येन विवक्षितो भवति॥ इह तावद्गावो धनमिति, धिनोतेर्धनम्, एको गुणः स च प्राधान्येन विवक्षितः॥ पुत्रा अपत्यमिति, अपतनादपत्यम्, एको गुणस्स प्राधान्येन विवक्षितः॥ इन्द्राग्नी देवता - विश्वेदेवा देवता इति, दिवेरैश्वर्यकर्मणो देवः, तस्मात्स्वार्थे तल्, एको गुणः स प्राधान्येन विवक्षितः। यावन्तस्ते तां वाशितामनुयन्ति सर्वे ते दक्षिणा समृद्ध्या इति, दक्षतेर्वृद्धिकर्मणो दक्षिणा एको गुणः स प्राधान्येन विवक्षितः, तस्यैकत्वादेकवचनं भविष्यति॥ विंशत्यादिषु चाप्येको गुणः स प्राधान्येन विवक्षितः, तस्यैकत्वादेकवचनं भविष्यति॥ (विंशत्यादीनां गुणवचनत्वे आक्षेपभाष्यम्) अयं तर्हि विंशत्यादिषु भाववचनेषु दोषः - गोविंशतिरानीयतामिति, भावानयने चोदिते द्रव्यानयनं न प्राप्नोति॥ (दृष्टान्तप्रदर्शनपूर्वकं समाधानभाष्यम्) नैष दोषः। इदं तावदयं प्रष्टव्यः - अथेह - गौरनुबन्ध्योऽजोऽग्नीषोमीय इति कथमाकृतौ चोदितायां द्रव्ये आरम्भणालम्भनप्रोक्षणविशसनादीनि क्रियन्ते इति। असंभवात्। आकृतावारम्भणादीनां संभवो नास्तीति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि क्रियन्ते। इदमप्येवंजातीयकमेव। असंभवाद्भावानयनस्य द्रव्यानयनं भविष्यति॥ (प्रकारान्तरेण समाधानभाष्यम्) अथ वा अव्यतिरेकात्॥

Kashika

तदस्य परिमाणमिति वर्तते। पङ्क्त्यादयः शब्दा निपात्यन्ते। यदिह लक्षणेनानुपपन्नं तत्सर्वं निपातनात् सिद्धम्। पञ्चानां टिलोपः, तिश्च प्रत्ययः। पञ्च परिमाणमस्य पङ्क्तिश्छन्दः। द्वयोर्दशतोर्विन्भावः शतिच् च प्रत्ययः। द्वौ दशतौ परिमाणमस्य संघस्य विंशतिः। त्रयाणां दशतां त्रिन्भावः शत् च प्रत्ययः। त्रयो दशतः परिमाणमस्य त्रिंशत्। चतुर्णां दशतां चत्वारिन्भावः शत् च प्रत्ययः। चत्वारो दशतः परिमाणमस्य चत्वारिंशत्। पञ्चानां दशतां पञ्चाभावः शत् च प्रत्ययः। पञ्च दशतः परिमाणमस्य पञ्चाशत्। षण्णां दशतां षड्भावस्तिः प्रत्ययोऽपदत्वं च। षड् दशतः परिमाणमस्य षष्टिः। सप्तानां दशतां सप्तभावः तिः प्रत्ययश्च। सप्त दशतः परिमाणमस्य सप्ततिः। अष्टानां दशतामशीभावस्तिः प्रत्ययश्च। अष्टौ दशतः परिमाणमस्य अशीतिः। नवानां दशतां नवभावस्तिः प्रत्ययश्च। नव दशतः परिमाणमस्य नवतिः। दशानां दशतां शभावः तश्च प्रत्ययः। दश दशतः परिमाणमस्य संघस्य शतम्। विंशत्यादयो गुणशब्दाः, ते यथाकथंचिद् व्युत्पाद्याः। नात्रावयवार्थेऽभिनिवेष्टव्यम्। तथाहि — पङ्क्तिरिति क्रमसंनिवेशेऽपि वर्तते। ब्राह्मणपङ्क्तिः, पिपीलिकापङ्क्तिरिति। न चात्रावयवार्थः कश्चिदस्ति। या चैषां विषयभेदेन गुणमात्रे गुणिनि च वृत्तिः, स्वलिङ्गसंख्यानुविधानं च, एतदपि सर्वं स्वाभाविकमेव। सहस्रादयोऽप्येवंजातीयकास्तद्वदेव द्रष्टव्याः। उदाहरणमात्रमेतदिति॥

Siddhanta Kaumudi

एते रूढिशब्दा निपात्यन्ते ॥

Laghu Siddhanta Kaumudi

एते रूढिशब्दा निपात्यन्ते॥

Balamanorama

पङ्क्तिविंशतित्रिंशत्चत्वारिंशत्पञ्चाशत्षष्टि- सप्तत्यशीतिनवतिशतम् - पङ्क्तिविंशति । रूढिशब्दा निपात्यन्त शति ।तदस्य परिमाणमित्यर्थे॑ इति शेषः । पञ्च पादाः परिमाणमस्येत्यर्थे पञ्चन्शब्दात्तिप्रत्ययः , प्रकृतेष्टिलोपः, चकारस्य कुत्वम्, अनुस्वारपरसवर्णौ । पङ्क्तिरिति रूपम् ।पञ्चाक्षरा पञ्चपदा पङ्क्ति॑रिति छन्दःशास्त्रे । दशानां वर्गः दशत् ।पञ्चद्दशतौ वर्गे वा॑ इति वक्ष्यते । द्वौ दशतौ परिमाणमस्य सङ्घस्येति विंशतिः । शतिच्प्रत्ययः, प्रकृतेर्विन्भावः, अनुस्वारश्च । अत्र सङ्घग्रहणमनुवर्तते । तथा च गवां विंशतिरिति भवति । सङ्घसङ्घिनोस्तादात्म्यविवक्षायां तु विंशतिर्गाव इति भवति । स्वभावादेकवचनं स्त्रीत्वं च । एवं तिंरशदादावपि ।विंशत्याद्याः सदैकत्वे संख्याः संख्येयसङ्ख्ययो॑रिति,तासु चानवतेः स्त्रियः॑ इति चाऽमरः । त्रयो दशतः परिमाणमस्य सङ्घस्य त्रिशत्, शत्प्रत्ययः, प्रकृतेः त्रिन्भावश्च । चत्वारो दशतः परिमाणमस्य सङ्घस्य चत्वारिंशत् । शत्प्रत्ययः, प्रकृतेः चत्वारिन्भावश्च । पञ्च दशतः परिमाणमस्य सङ्घस्य पञ्चाशत् । शत्प्रत्ययः, प्रकृतेः पञ्चादेशः । षड् दशतः परिमाणमस्य सह्घस्य षष्ठिः । तिप्रत्ययः, प्रकृतेः षष्, जश्त्वाऽभावश्च । सप्त दशतः परिमाणमस्य सङ्घस्य सप्ततिः । तिप्रत्ययः, प्रकृतेः सप्तादेशः । अष्टौ दशतः परिमाणमस्य सङ्घस्य अशीतिः । तिप्रत्ययः, प्रकृतेरशीत्यादेशः । नव दशतः परिमाणमस्य सङ्घस्य नवतिः । तिप्रत्ययः, प्रकृतेर्नवादेशः । दश दशतः परिमाणमस्य सङ्घस्य शतम् । तप्रत्ययः, प्रकृतेः शादेशश्च । एतत्सर्वं भाष्ये स्पष्टम् ।एतान्यव्युत्पन्नप्रातिपदिकानी॑ति तु भाष्यनिष्कर्षः ।

Tattvabodhini

पङ्क्तिविंशतित्रिंशत्चत्वारिंशत्पञ्चाशत्षष्टि- सप्तत्यशीतिनवतिशतम् - पङ्क्तिवंशति ।तदस्य परिमाण॑मिति वर्तते । पञ्चन्शब्दस्य टिलोपः, तिप्रत्ययः,चोः कु॑रिति कुत्वम् । पञ्च पदानि परिमाणमस्य पङ्क्तिश्छन्द इति काशिका । पदशब्दोऽत्र पादपर्याय इति हरदत्तः । रूढिशब्दा इति । तथा चात्र नाऽवयवर्थेऽभिनिवेष्टव्यम् । पङ्क्तिशब्दो हि नानार्थः । अस्ति क्रमसंनिवेशे -ब्राआहृणपङ्क्ति पिपीलिकापङ्क्तिरिति । अस्ति च दशसंख्यायं -, पङ्क्तिरथ इति । दशरथ इत्यर्थः । अस्ति हि छन्दोविशेषे — — ॒यस्य पञ्चाक्षराः पञाच पादाः॑ । तथा च छन्दोविशेषे एवायवार्थो नान्यत्रेति बोध्यम् । द्वयोर्दशतोर्विन्भावः, शतिश्च प्रत्ययः , अपदत्वं चेति न पठन्ति । त्रयाणां दशतां त्रिन्भावः । शच्च प्रत्ययः । मतान्तरे तु तिंरभावः । त्रयो दशतः परिमाणमस्य तिंरशत् । एवं चतुर्णां चत्वारिन् । पञ्चानां पञ्चा । आभ्यामपि शत्प्रत्ययः । षण्णां दशतां षष्,तिश्च प्रत्ययः, अपदत्वं च । षट् दशतः परिमाणमस्य षष्टिः । ततस्त्रिभ्योऽपि तिप्रत्यय एव । सप्तानां दशतां सप्त, अष्टानां दशतामशी, नवानां दशतां नव, दशानां दशतां शभावः, तश्च प्रत्ययः । दश दशतः परिमाणमस्य शतम् ।

Padamanjari

पंक्त्यादयः शबाद निपात्यन्त इति। प्रकृतिनिर्देशस्त्वयं न भवति; पंक्त्यादिभ्यः प्रकृतेऽर्थेऽधिकृतः प्रत्ययो भवतीति पञ्चम्या अनुपदानात्, पूर्वेणैव च सिद्धत्वात्, उतरेण निपातनेन साहचयच्चि। प्रत्ययनिर्द्देशोऽपि न भवति - ङ्याप्प्रातिपदिकात्प्रकृतेऽर्थे पंक्तयादयः प्रत्यया भवन्तीति, लोके शास्त्रे च’शतच्च ठन्यतावशते’ इत्यादौ केवलानां प्रयोगदर्शनाद्। यत्र समुदायः श्रूयते, अवयवा अनुमीयन्ते तन्निपातनम्, विपरीतो विधिः। पञ्चानामिति। अर्थगतस्य बहुत्वस्य शब्दे समारोपाद् बहुवचनम्, पञ्चशब्दस्योत्यर्थः। टिलोपस्तिच्च प्रत्यय इति। निपात्यय इत्यर्थः। अवयवनिपातननान्तरीयकत्वात्समुदायनिपातनस्य। यद्वा -‘निपातनात्सिद्धम्’ इत्यस्य पुंल्लिङ्गविपरिणामेनान्वयः, कुत्वं तु चकारञकारयोर्न निपात्यम्,’चोः कुः’ इत्येव सिद्धम्। पञ्च पदानीति। पदशब्दः पादपर्यायः। पंक्तिशच्छन्द इति। तत्पुनः पदपंक्तिः, यस्य पञ्चाक्षराः पञ्च पादा भवन्ति। द्वयोर्दशतोरिति। दशद्वयरूपसंख्येयमाचक्षाणस्य द्विशब्दस्येत्ययमत्रार्थो विवक्षितः। एवं त्रयाणाम् दशतामित्यादावपि द्रष्टव्यम्। शतिच्च प्रत्य इति। चित्करणमन्तोदातार्थम्। अपदत्वं चेति। तेन जश्तवचर्त्वे न भवतः। अत्र’तदस्य परिमाणमिति वर्तते’ इत्युक्तम्, द्वौ दशतौ परिमाणमस्येत्यादिश्च विग्रहो दर्शितः। यदा तु ननुवर्तते तदा द्विशदादेर्दशब्दर्थाभिधायिनः स्वार्थे प्रत्ययो निपात्यः - द्वौ दशतौ विंशतिः, त्रयोदशतस्त्रिंशद् इति; ततश्च स्वर्थिकानां प्रकृतितो लिङ्गवचनानुवृतेद्विशब्दादेरिव द्विवचनबहुवचनप्रसङ्गः। विंशत्यादि भिश्च दशतामभिधानमिति गवादिभिर्वैक्यधिकरण्यमेव स्याद् - गवां विंशतिरिति, न तु विंशतिर्गाव इति सामानाधिकरण्यम्, नापि द्विगुः - विंशतिगवमिति, तस्मादनुवर्तयम्। अथास्येत्यनेन कः प्रतिनिर्दिश्यते ? परिमाणी। कः पुनरसौ ? भिन्नानि द्रव्याणि - द्वौ दशतौ परिमाणमेषां विशतिरिति। यद्येवम्, विंशत्यादिभिर्द्रव्याणामभिधानमिति बहुवचनप्रसङ्गाद्विशतिर्गाव इति न स्यात्, गवां विंशतिर्गोविंशतिरिति च न स्याद्, व्यतिरेकाभावात् ? अथास्मिन् पक्षे किञ्चिचदिष्टमपि सिद्धम्, आहोस्विद्दोषान्तमेवास्ति ? इत्याह - इह विशतिगवं त्रिंशत्पूलीति समानाधिकरणलक्षणो द्विगुः सिद्धः; तस्मान्न भिन्नानि द्रव्याणि परिमाणीनि, एतच्च सर्वेष्वेव विग्रहवाक्येष्वस्येत्येकवचनेन दर्शितम्। कस्तहिं परिमाणी ? सङ्घः - द्वौ दशतौ परिमाणमस्य गोसङ्गस्य’विंशतित्रिशद्भयां ड्तुन्’ विशकः सङ्ग इति न स्यात्; सङ्गान्तरस्य परिमाणिनोऽसम्भवात्। अतोमयं परिमाणिभिन्ना द्रव्याणि तत्संघश्च, तत्र सङ्घपरिमाणिनि व्यधिकरणप्रयोगाः, द्रव्येषु तु परिमाणिषु समानाधिकरणप्रयोगाः, तत्रैव विंसतिर्गावः परिमाणमस्य विंशको गोसङ्ग इति भविष्यतीत्युच्येत् ? एवमपि विंशतिर्गाव इत्यत्र बहुवचनप्रसङ्गः, तथा सङ्घस्य परिमाणत्वे विंशतिर्गोसङ्ग इति प्राप्नोति, न चेष्यते, विंशक इत्येव हि तत्रेष्यते। एवं तर्हि द्वावत्र सङ्गौ स्तः - द्वव्याणामेकः, द्रव्यवर्गयोर्दशतोश्चापरः; तत्र निपातनसामर्थ्याद्दशत्संघे परिमाणिनि प्रत्ययः, सङ्श्च समुदायमात्रं न प्राणिनामेव किं हि निपातनादलभ्यम्, तत्र दशत्सङ्घस्य विंशतिशब्देनाभिधानाद् गोसंघे विवक्षिते विशतिः परिमाणमस्य विशको गोसङ्घ इति च भविष्यति, विशतिर्गोसङ्घ इति च न भविष्यति, गवां विंशतिर्गोविंशतिरिति च भविष्यति। ननु दशत्सङ्घस्य दशतौ गुणिनौ न गावः, तेन दशतोर्विशतिरिति प्रापनोति, गवां विशतिरिति तुन सिद्धयति ? उच्यते; द्रवल्याणां द्रव्यसङ्गस्य दशतां दशत्सङ्स्य च न पारमाथिको भेदोऽस्ति, केवलं बपुद्धया परिकल्प्यते, ततश्च गवां दशतोश्च तात्विकभेदाभावद्दशत्सङ्घमपि प्रतिगवामपि गुणित्वमुपपद्यते। व्यभिचारभावातु दशद्भ्यां विशतितर्न विशेष्यते गवादिभिरेव तु विशेष्यते, यथा - पटस्य शौक्ल्यमिति भवति, न शुक्लस्य शौक्लामिति व्यमिचाराभावात्, तद्वदत्रापि। ऐवं तावद्व्याधिकरणप्रयोगा उपपादिताः, विंशतिर्गाव इत्यादिकास्तु समानाधिक्रणप्रयोगा उपपादनीयाः, धर्मवचना एते विशत्यादयो गुणवचना इति शुक्लादिवद्भविष्यति। यथा हि-पटस्य शुक्लो गुण इति गुणमात्रे दृष्टः शुक्लशब्दो गुणगुणिनोरव्यतिरेकविवक्षायां मतुब्लोपाद्वा समानाधिकरणो बवति शुक्लः पट इति। एवं विशत्यादयोऽपि। यद्येवम्, यथान्ये गुणवचना द्रव्यस्य लिङ्गसंख्ये अनुवर्तन्ते, यथा - शुक्लं वस्त्रम्, शुक्ला शाटी, शुक्लः कम्बलः, शुक्लौ, शुक्ल इति, एवं विंशत्यादयोप्यनुवतेरन् ? इह पुनर्विशतिर्गावः विंशतिर्बलीवर्द्दाः विशतिर्गोकुलानीति नित्यमेकवचनं स्त्रीलिङ्गं च भवति, शतशब्दातु नपुंसकत्वम्, विंशती विशतयः शते शतानीति तु प्रचयभेदविवक्षायामेकशेषः ? अत्रोच्यते - यस्य धमेस्य धमिणा सहाभेदः प्रतिपाद्यते, स चेतेषु प्रत्येकपरिसमाप्तः तदा तस्यापि धर्मिवद्भिन्नत्वाद् द्विवचनबहुवचने भवतः, यथा शुक्लौ, शुक्ला इति। शौक्ल्यं हि कम्बलेषु प्रत्येकपरिसमाप्तम्, कोऽर्थः ? एकैकस्मिन्नपि कम्बले शुक्लशब्दार्थः पुष्कलः, न मात्रयापि न्यून इत्यर्थः। विशतिर्गाव इत्यत्र तु विंशतिसंख्या न प्रत्येकपरिसमाप्ता, किं तर्हि ? बहुष्विति। तद्रूपभेदाभावादेकवचनमेव भवति, यथा - गावो धनम्, इन्द्राग्नी देवता, वेदाः प्रमाणमिति। धिनोर्तेर्धनं प्रीतिहेतुः, समुदितानां च गवां प्रीतिहेतुत्वं विवक्षितम्, नैकैकस्या इति धनमेकं गोभिर्विशेष्यते, तत्र धनाकारे बेदाभावाद् बहुवचनाभावः। इन्द्राग्नी देवतेति दिवरैश्वर्यकर्मणोर्देअवतासङ्घस्य च देवतात्वमेकं इविः प्रतीति द्विवननाभावः। देवते इति तूच्यमाने प्रत्यकमैश्वर्य प्रतीयेत, ततश्च व्रीहियवयोरिव विकल्पः स्यात्। वेदाः प्रमाणमिति चतुर्णा समुदितानां वेदानामेकं प्रमाणत्वं विवक्षितमिति तस्मिन्नाकारे भेदाभावाद् बहुवचनाभावः, प्रत्येकं तु प्रामाण्ये वेदाः प्रमाणानीति भवत्येव। यद्येवम्, त्रयश्चत्वारः पञ्च षट् सप्तेत्यत्राप्येकवचनप्रसङ्गः, न हि त्रित्वादिकमपि प्रत्येकपरिसमाप्तम् ? उच्यते; त्र्यादयो नित्यं संख्येयवचनाः, न तु कदाचिदपि संख्यानमात्रवचना इत्येकेन ध्रमेण व्यासज्यवृत्तिना सहानेकस्य धमिंणो भेदप्रतिपादनाभावाद्धर्मिबेदाश्रयं बहुवचनमेव भवति। यद्यपि त्रित्वमित्यादौ संख्यानमात्रमपि निष्टष्ट्ंअ प्रतीयते, त्र्यादिभिस्तु न प्रतीयते। देवताशब्दस्तु यद्यपि निष्कृष्टदेवतात्वमाचष्टे, तथाप्यन्निर्देअवतेत्येकेनापि स भिन्नदेवतात्वमाचष्टे, नानेकेनैव सर्वदा। त्र्यादयस्तु न क्वचिदप्येवमिति विशेषः। लिङ्गमपि लोकाश्रयत्वाद्यथादर्शितं व्यवतिष्ठते, न तद्धितान्तत्वेनाभिधेयवदिति सर्वमनाकुलम्। एवं भाष्यकारमतेन व्याख्याय संप्रति वार्तिककारमतं दर्शयति -‘विशत्यादय इति। गुणशब्दा इति। रूढिरूपा इति भावः। यथाकथञाचिद्व्युत्पाद्या इति। स्वरवर्णानुपूर्वीज्ञानार्थम्, न त्ववयवार्थप्रदर्शनाय, तदाह - नात्रावयवार्थे’ भिनिवेष्टव्यमिति। अवयवार्थविषयोऽभिनिवेशो न कर्तव्य इत्यर्थः। स तु प्रतीतिपथं नारोहतीति परित्यज्यते। या चैषामित्यादि। दर्शिता च गुणमात्रे गुणिनि च वृत्तिः, एतदपि सर्त्रं स्वाभाविकमेवेति दर्शितामुपपति स्थिरां मन्यते। सहस्रादयोऽप्येवञ्जातीयका इति। गुणमात्रे गुणिनि च वर्तन्ते, स्वलिङ्गसंख्यानुविधायिनश्चेत्यर्थः। तद्वदेव द्रष्टव्या इति। स्वरवर्णापूर्वीज्ञानार्थं विंशत्यादिवद्व्युत्पाद्या इत्यर्थः। तद्यथा-शतश्य दशतां सहभावः स्रच्च प्रत्ययः॥ क्व पुनरेते व्युत्पाद्याः ? पृषोदरादिषु। उदाहरणामात्रम् प्रदर्शनमात्रमेतद्विशत्यादीनामुपादानम्। इतिशब्दः समाप्तौ। अत्र वार्तिकम् - ठनारम्भो वा प्रातिपदिकविज्ञानाद्यथा सहस्रादिषुऽ इति ॥

Nyaas

अपदत्वं च इति। पदनिबन्धनस्य जशत्वादेः कार्यस्य प्रतिषेधार्थमिहैते विंशत्यादयः परिमाणे निपात्यन्ते। तदस्य परिमाणम् (5.1.57) इत्यधिकारे निपातनात्। एवञ्च गवां विंशतिरिति षष्ठी व्यतिरेकनिबन्धना न प्राप्नोति।विंशतिशब्देन हि तान्येव गोद्रव्याणि गृह्यन्ते, न तदधिकं किञ्चिदर्थान्तरम्। बहुवचनं प्रसजति तेषां बहुत्वादिति यश्चोदयेत्, तं प्रत्याह - विंशत्यादयः इत्यादि। यथाकथञ्चित्प्रकारेण। विनाप्यवयवार्थेनेति यावत्। रूपमात्रं प्रधानम्, नावयवार्थः। यस्त्वेषामर्थः स लोकत एव व्यवतिष्ठत इत्यभिप्रायः। नात्राभिनिवेष्टव्यम् इति। संख्यापरिमाणोपाधिकः प्रकृत्यर्थः। परिमाणमात्रं प्रत्ययाः इति नायमत्राभिनिवेशः कर्तव्य इत्यर्थः। अनभिनिवेशस्य कारणमाह - तथा हि इत्यादि। स्यादेतत् - अत्राप्यवयवार्थोऽस्ति इत्यत आह - न च इत्यादि। ब्राआहृआणानां पंक्तिरित्युक्ते संख्यापरिमाणोपाधिकः प्रकृत्यर्थः, परिमाणो वा कश्टचित्; प्रत्ययार्थो हि न गम्यते, किं तर्हि? सन्निवेशविशेषः संस्थानात्मको गुण एव प्रतीयते। तथा हि - तस्य सन्निवेशविशेषस्यानवगमे तावत्स्येव ब्राआहृणेषु पंक्तिरिति न प्रयुज्यते। तदेवं गुणशब्दत्वादिंवशत्यादीनां गवां विंशतिरिति सिध्यति षष्ठी; विंशतिशब्दस्य संख्यानवृत्तित्वात्। यदि तर्हि गुणशब्दा एते, विंशतिगवि इति द्रव्यशब्देन सामानाधिकरण्यं न प्राप्नोति? गुणिन्यत्र वृत्तिः, गुणमात्रे न ततोऽयमदोष इति। वक्तव्यः स हेतुः यत एतेषा क्वचिद्गुणमात्रे वृत्तिर्भवति, क्वचिद्गुणिनि। बहुवचनप्रसङ्गाच्च गुणिनि वृत्तिरित्येतदेव दुःस्थम्; बहुत्वाद्गुणिनाम्। इह च विंशतिः कुण्डानीति नपुंसकलिङ्गं प्राप्नोति, विंशतिब्र्राआहृणा इति पुंल्लिङ्गम्, गुणवचनानां हि शब्दानामाश्रयतो लिङ्गवचनानि भवन्ति, यथा - शुक्लः कम्बलः, शुक्लं वस्त्रम्, शुक्ला शाटीति। यदासौ द्रव्यमाश्रित्य भवति गुणः, तस्य लिङ्गवचनं यत्? तद्गुणवचनस्यापि भवति, यथा - गुणशब्दत्वेऽप्येषामाश्रीयमाणे न भवत्येव दोषप्रसङ्गान्मुक्तिः? इत्यत आह - या चैषाम् इत्तयादि। न केवलमर्थाभिदानं स्वाभाविकम्, किन्त्वेतदपीत्यपिशब्देन दर्शयति। यत्र द्रव्येण गुणिनैषामभिधेयो गुणो विशेष्यते, तत्र स्वभावादेव गुणमात्रे वृत्तिः। यत्र त्वेत उपसर्जनीभूतस्वार्थास्तेन स्वार्थेन द्रव्यं विशेषयन्ति तत्रैषां स्वभावत एव गुणिनि वृत्तिः। स्वलिङ्गसंख्यानुविधानं च इति। गुणिन्यणि वर्तमानानां ययोर्लिङ्गसंख्ययोर्यदनुविधानमनुवर्तमानमेतदपि सर्वं स्वाभाविकम्। अन्येषामपि, गुणशब्दानामपि क्वचित्? स्वभावत एव गुणिनि वृत्तिर्भवति, तद्यथा-शुक्लः पट इत्यत्र शुक्लशब्दस्य। क्वचिद्गुणमात्रे, यथा - अस्यैव शुक्लो गुणः पटस्येत्यत्र। अन्येषामपि केषाञ्चित्? शब्दानां स्वाभाविकं स्वलिङ्गसंख्यानुविधानं दृश्यत एव, तद्यथा - वेदाः प्रमाणम्, श्रुतयः प्रमाणमिति। तस्मात्? स्वाभाविकत्वाद्गुणमात्रे गुणिनि च वृत्तेः स्वलिङ्गसंख्यानुविधानस्य च न भवति यथक्तदोषप्रसङ्गः। यदा हि स्वभावत इति संख्यानमात्रे गुणे गुणमात्रे वृत्तिः तदा व्यतिरेकनिबन्धना षष्ठी भवति। यदा तु गुणिनि, तदा तयोरपि च द्रव्यशब्दत्वाकत्? सामानाधिकरण्यमपि भवति। द्रव्येऽपि वर्तमानानां स्वाभाविकं स्वलिङ्गसंख्यानुविधानम्। अथ सहरुआआदयोऽपि कस्मान्न व्युत्पाद्यन्ते? इत्याह - सहरुआआदयोऽपि इत्यादि। एवञ्जातीयका एवम्प्रकारा विंशत्यादिभिः सदृशा इत्यर्थः। तेषामपि गुणवत्त्वात्? तद्वदेव विंशात्यादिवदेव द्रष्टव्याः। विंशात्यादय इव तेऽपि प्रकृत्यादिविभागेन व्युत्पाद्यन्त इत्यर्थः। यद्येवम्, किमर्थं विंशत्यादय एव सूत्रे उपात्ताः? इत्याह्म#ऋ`उदाहरणमात्रम्` इत्यादि। उदाहरणमात्रं विंशत्यादिग्रहणम्, अन्येऽप्येवञ्जातीयाः सहरुआआदयस्तथैव व्युत्पाद्याः॥

Prakriyasarvasvam

द्विगुणाः पञ्च परिमाणमस्य इति पङ्क्तिः दशसङ्ख्या । द्विदशकपरिमाणा विंशतिरित्यादि ॥