51056: सोऽस्यांशवस्नभृतयः¶
Padacheda: सः | S | 1 | 1 |
अस्य | S | 6 | 1 |
अंश-वस्न-भृतयः | S | 1 | 3 |
Sutrartha¶
‘अंशः’, ‘वस्नम् ‘, ‘भृतिः’ - एतेषु अर्थेषु प्रथमासमर्थात् यथाविहितं प्रत्ययः भवति ।
‘अंश’ इत्युक्ते भागः । ‘वस्नम्’ इत्युक्ते मूल्यम् । ‘भृति’ इत्युक्ते वेतनम् । एतेषु सर्वेषु अर्थेषु प्रथमासमर्थात् यथाविहितं प्रत्ययः भवति । उदाहरणानि एतानि - 1. पञ्च अंशाः अस्य सः = पञ्चकः । सङ्ख्यायाः अतिशदन्तायाः कन् (5.1.22) इति कन् । 2. सहस्रम् वस्नमस्याः सा साहस्री । शतमानविंशतिकसहस्रवसनादण् (5.1.27) इति अण् । स्त्रीत्वे टिड्ढाणञ्.. (4.1.15) इति ङीप् । 3. द्वे शते भृतिः अस्य सः द्विशत्यः द्विशतः वा । पणपादमाषशताद्यत् (5.1.34) इति यत् । तस्य <!शताच् चेति वक्तव्यम्!> अनेन वार्त्तिकेन विकल्पः । पक्षे सङ्ख्यायाः अतिशदन्तायाः कन् (5.1.22) इति कन्, तस्य च लुक् ।
Vasu English Summary¶
The affixes taught in प्राग्वतेष्ठञ् (5.1.18) etc. have also the sense of ‘this is his portion, price or pay’.
Vasu English Translation¶
The affixes taught in प्राग्वतेष्ठञ् (5.1.18) etc. have also the sense of ‘this is his portion, price or pay’. The सः shows that the case in construction is nominative. The word अंश means ‘share,’ वस्न means ‘price,’ भृति means ‘wages.’ Thus पंच अंशो वस्नो वा भृतिर्वास्य = पंचक ‘whose portion, price or pay is five.’ So सप्तकः, साहस्रः ॥
Kashika¶
स इति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् तत् प्रथमासमर्थमंशवस्नभृतयश्चेत् ता भवन्ति। अंशो भागः। वस्नं मूल्यम्। भृतिर्वेतनम्। पञ्च अंशो वस्नो वा भृतिर्वास्य पञ्चकः। सप्तकः। साहस्रः॥
Siddhanta Kaumudi¶
अंशो भागः । वस्त्रं मूल्यम् । भृतिर्वेतनम् । पञ्च अंशो वस्त्रो भृतिर्वास्य पञ्चकः ॥
Balamanorama¶
सोऽस्यांशवस्नभृतयः - सोऽस्यांश । स इति प्रत्येकमंशादिष्वन्वेति । सोऽस्यांशः, तदस्य वस्नम्, सास्य भृतिरित्यर्थेषु प्रथमान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । पञ्चक इति । ‘संख्यायाः’ इति कन् ।
Padamanjari¶
इह च शतं यस्य वक्नो भवति स तेन क्रीतो भवति, तत्र तेन क्रीतमित्येव सिद्धम् नार्थो वस्नग्रहणेन ? नैतदस्ति; योग्यतामात्रेऽप्यस्येदं मूल्यमिति व्यवहारत् ॥
Nyaas¶
वस्नद्रव्याभ्यां ठन्कनौ (5.1.51) इत्यत्रापि वस्नशब्देन मूल्यमुच्यते॥
Prakriyasarvasvam¶
सोऽस्यांशो मूल्यं भृतिरिति वार्थे ठञादिः । पञ्च देयांशोऽस्येति पञ्चकं धनम् । पञ्च मूल्यमस्येति पञ्चकः । पञ्च भृतिरस्येति पञ्चको भृत्यो मासो वा । <karika>क्रमात् प्रागपि मूल्योक्यै सोऽस्य वस्न इतीरितम् । अयोग्यमूल्यक्रीतेऽपि प्रयोक्तुं क्रीतवर्णनम् ॥ ३०७ ॥</karika>