51046: पात्रात् ष्ठन्¶
Padacheda: पात्रात् | S | 5 | 1 |
ष्ठन् | S | 1 | 1 |
Sutrartha¶
‘वापः’ (क्षेत्रम्) अस्मिन् अर्थे षष्ठीसमर्थात् पात्रशब्दात् ष्ठन् प्रत्ययः भवति ।
‘वापः’ इत्युक्ते क्षेत्रम् । उप्यते अस्मिन् सः वापः । षष्ठीसमर्थात् वापस्य निर्देशं कर्तुम् पात्रशब्दात् ष्ठन्-प्रत्ययः भवति । पात्रस्य वापः पात्रिकः । एकम् पात्रम् (मापनस्य किञ्चन परिमाणम्) यावत् बीजानि उप्यन्ते यस्मिन् सः पात्रिकः वापः । ज्ञातव्यम् - अस्मिन् प्रत्यये षकारनकारौ इत्संज्ञकौ स्तः - (अ) नकारस्य प्रयोजनमस्ति ञ्नित्यादिर्नित्यम् (6.1.197) इत्यनेन तद्धितान्तस्य आद्युदात्तत्वविधानम् । इत्युक्ते, ‘पात्रिक’ शब्दस्य प्रथमः स्वरः अत्र आद्युदात्तः विधीयते । (आ) षकारस्य प्रयोजनमस्ति षिद्गौरादिभ्यश्च (4.1.41) इत्यनेन स्त्रीत्वस्य विवक्षायाम् ङीष्-प्रत्ययविधानम् । यथा, पात्रस्य वापः पात्रिकी क्षेत्रभक्तिः (क्षेत्रस्य कश्चन अंशः) ।
Vasu English Summary¶
The affix ष्ठान् (-/- इक) comes in the sense of ‘sown with so much’ after the word पात्र।
Vasu English Translation¶
The affix ष्ठान् (-/- इक) comes in the sense of ‘sown with so much’ after the word पात्र। This debars ठञ्. The न् of ष्ठन् is for accent (6.1.197), the ष् is for ङीष् (4.1.41). The word पात्र denotes a measure of capacity. Thus पात्रस्य वापः = पा꣡त्रिकं क्षेत्रम्, fem पात्रिकी꣡ क्षेत्रभक्तिः ॥
Kashika¶
पात्रशब्दात् ष्ठन् प्रत्ययो भवति तस्य वाप इत्येतस्मिन् विषये। ठञोऽपवादः। नकारः स्वरार्थः। षकारो ङीषर्थः। पात्रशब्दः परिमाणवाची। पात्रस्य वापः पात्रिकं क्षेत्रम्। पात्रिकी क्षेत्रभक्तिः॥
Siddhanta Kaumudi¶
पात्रस्य वापः क्षेत्रं पात्रिकम्-पात्रिकी क्षेत्रभक्तिः ॥
Balamanorama¶
पात्रात् ष्ठन् - पात्रात् ष्ठन् । तस्य वाप इत्येव । पात्रिकमिति । पात्रस्य वाप इत्यर्थः । षित्त्वं ङीषर्थमित्याह — पात्रिकीति ।
Nyaas¶
पात्रशब्दः परिमाणवाची इति। ठञोऽपवादः इति। अत्रेयं युक्तिः - यदि ह्रपरिमाणवाची स्यात्? तदार्हीयस्य ठकोऽपवादः, न ठञः। पात्रिकी इति। षिद्गौरादिभ्यश्च (4.1.41) इति ङीष्॥
Prakriyasarvasvam¶
पात्रमाढकं, तद्वापः पात्रिकी भूः । षित्त्वात् ङीष् ॥