51039: गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत्

Padacheda: गो-द्व्यचः | S | 5 | 1 |

अ-संख्या-परिमाण-अश्वादेः | S | 5 | 1 |

यत् | S | 1 | 1 |

Sutrartha

‘निमित्तम्’ अस्मिन् अर्थे संयोगमुत्पातम् वा दर्शयितुम् षष्ठीसमर्थात् ‘गो’शब्दात् तथा च अश्वादिगणं विहाय अन्यात् अ-संख्या-परिमाणवाचि-द्व्यच्-शब्दात् यत् प्रत्ययः भवति ।

‘निमित्तम्’ इत्युक्ते कारणम् । यत्र कस्यचन वस्तुनः निमित्तम् संयोगः उत उत्पातः अस्ति, तत्र तस्य निमित्तं संयोगोत्पातौ (5.1.38) अनेन सूत्रेण सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण ठञ्-प्रत्यये प्राप्ते केभ्यश्चन प्रातिपदिकेभ्यः तं बाधित्वा यत्-प्रत्ययः भवति । उदाहरणरूपेण क्रमेण पश्यामः - 1. ‘गो’ शब्दात् यत् प्रत्ययः भवति ।गोः (= धेनोः) निमित्तम् यः गव्यः संयोगः । यथा - कश्चन राजा यदि देवदत्ताय एकां गां ददाति, तर्हि अस्यां स्थितौ राज्ञा सह संयोगः गोप्राप्तेः निमित्तमस्तीति मत्त्वा अयम् संयोगः ‘गव्यः’ संयोगः अस्ति इत्युच्यते । 2. यः शब्दः द्व्यच् अस्ति, परन्तु सङ्ख्यावाची परिमाणवाची वा नास्ति, तथा च अश्वादिगणे न वर्तते, तस्मात् अपि यत् प्रत्ययः भवति । यथा - [अ] स्वर्गस्य निमित्तः यः संयोगः सः स्वर्ग्यः संयोगः । [आ] धनस्य निमित्तः यः उत्पातः वा सः धन्यः उत्पातः । [इ] यशसः निमित्तः यः संयोगः सः यशस्यः संयोगः । संख्यावाचिशब्दस्य परिमाणवाचिशब्दस्य विषये तु अस्य सूत्रस्य प्रसक्तिः नास्ति । [अ] पञ्चानाम् निमित्तः यः संयोगः सः पञ्चकः संयोगः । अत्र सङ्ख्यायाः अतिशदन्तायाः कन् (5.1.22) इति कन्-प्रत्ययः भवति । [आ] खार्याः (quintal इत्यर्थः) निमित्तः यः उत्पातः सः खारीकः उत्पातः । अत्र खार्याः ईकन् (5.1.33) इत्यत्र पाठितेन <!केवलाच्च!> अनेन वार्त्तिकेन ईकन्-प्रत्ययः भवति । तथैव, अश्वादिगणे विद्यमानानां शब्दानां विषये अनेन सूत्रेण निर्दिष्टः यत्-प्रत्ययः न विधीयते । अश्वादिगणः अयम् - अश्व। अश्मन्। गण। ऊर्णा। उमा। वसु। वर्ष। भङ्ग । यथा - अश्वस्य निमित्तः यः संयोगः सः आश्विकः संयोगः, ऊर्णायाः निमित्तं यः संयोगः सः और्णिकः संयोगः । उभयत्र ठञ्-प्रत्ययः एव भवति । अत्र एकं वार्त्तिकं ज्ञातव्यम् - <!ब्रह्मवर्चसाद् उपसंख्यानम् !> । इत्युक्ते, तस्य निमित्तं संयोगोत्पात्तौ (5.1.38) इत्यस्मिन् अर्थे ‘ब्रह्मवर्चस’ (sacred knowledge) शब्दात् अपि यत्-प्रत्ययः भवति । ब्रह्मवर्चसस्य निमित्तः अयमुत्पातः सः ब्रह्मवर्चस्यः उत्पातः ।

Vasu English Summary

After the word गो and after a word having two syllables, with the exception of a Numeral, or a Measure of capacity or अश्व etc., the affix यत् (य) is added, in the above sense of ‘a relation or a portent for the purpose of that’.

Vasu English Translation

After the word गो and after a word having two syllables, with the exception of a Numeral, or a Measure of capacity or अश्व etc., the affix यत् (य) is added, in the above sense of ‘a relation or a portent for the purpose of that’. This debars ठञ्. As गो निमित्तं संयोग उत्पातो वा = ग꣡व्यः ‘a connection or a portent for the sake of a cow.’ So also after a word of two syllables, as, ध꣡न्यम्, स्व꣡र्ग्यम्, यशस्य॑म्, आयुष्य॑म् ॥

Why do we say “when not a word denoting a Numeral, or a Measure of capacity or अश्व &c”? Observe पंचानां निमित्तं = पंचकम्, सप्तकम्, अष्टकम्; प्रास्थिकम् खारीकम्, आश्विकः formed by (5.1.22), (5.1.18), (5.1.19).

Vart:- The word ब्रह्मवर्च्चस should be enumerated : eg. ब्रह्मवर्च्चसस्य निमित्तं गुरुणा संयोगः = ब्रह्मवर्च्चस्यम् “relationship with a teacher in order to acquire Brahmavarchasa.”

1 अश्व, 2 अश्मन्, 3 गण, 4 ऊर्णा, 5 उमा, 6 गङ्गा (भङ्ग भङ्गा), 7 वर्षा (वर्ष), 8 वसु. ॥

Kashika

गोशब्दाद् द्व्यचश्च प्रातिपदिकात् संख्यापरिमाणाश्वादिविवर्जिताद् यत् प्रत्ययो भवति तस्य निमित्तं संयोगोत्पातावित्येतस्मिन्नर्थे। ठञादीनामपवादः। गोर्निमित्तं संयोग उत्पातो वा गव्यः। द्व्यचः खल्वपि — धन्यम्। स्वर्ग्यम्। यशस्यम्। आयुष्यम्। असंख्यापरिमाणाश्वादेरिति किम्? पञ्चानां निमित्तं पञ्चकम्। सप्तकम्। अष्टकम्। परिमाणप्रास्थिकम्। खारीकम्। अश्वादि — आश्विकः॥ ब्रह्मवर्चसादुपसंख्यानम्॥ ब्रह्मवर्चसस्य निमित्तं गुरुणा संयोगो ब्रह्मवर्चस्यम्॥ अश्व। अश्मन्। गण। ऊर्णा। उमा। वसु। वर्ष। भङ्ग। अश्वादिः॥

Siddhanta Kaumudi

गोर्निमित्तं संयोग उत्पातो वा गव्यः । द्व्यचः । धन्यः । यशस्यः । स्वर्ग्यः । गोद्व्यचः किम् । विजयस्य वैजयिकः । असंख्या इत्यादि किम् । पञ्चानां पञकम् । सप्तकम् । प्रास्थिकम् । खारीकम् । अश्वादि- आश्विकम् । आस्मिकम् ।<!ब्रह्मवर्चसादुपसंख्यानम् !> (वार्तिकम्) ॥ ब्रह्मवर्चस्यम् ॥

Balamanorama

गोद्व्यचोरसंख्यापरिमाणाश्वादेर्यत् - गोद्व्यचः । तस्य निमित्तं संयोग उत्पातो वेत्यर्थे गोशब्दात्,द्व्यश्च षष्ठन्ताद्यत्प्रत्ययः स्यात्, नतु सङ्ख्यायाः परिमाणादआआदेश्चेत्यर्थः । ठकोऽपवादः । द्व्यचेति । ‘उदाह्यियते’ इति शेषः । धन्य इत्यादि । धनस्य यशसः स्वर्गस्य च निमित्तमित्यर्थः । विजयस्येति ।निमित्त॑मिति शेषः । वैजयिक इति । आर्हीयष्ठक् । पञ्चानामिति ।निमित्त॑मिति शेषः । पञ्चकमिति । ‘सङ्ख्यायाः’ इति कन् । सप्तकमिति । सप्तानां निमित्तमित्यर्थः । प्रास्थिकमिति । प्रस्थस्य निमित्तमित्यर्थः ।आर्हा॑दिति ठग्विधौ परिमाणपर्युदासात् प्राग्वतीयष्ठञ् । खारीकमिति । खार्या निमित्तमित्यर्थः । आर्हीयष्ठरक् । आश्मकमिति । अश्मनो निमित्तमित्यर्थः । आर्हीयष्ठक् । ‘नस्तद्धिते’ इति टिलोपः ।ब्राहृवर्चसादिति । ‘गोद्व्यचः’ इति सूत्रेब्राहृवर्चसाच्चे॑ति वक्तव्यमित्यर्थः । ब्राहृवर्चस्यमिति । ब्राहृवर्चस्य निमित्तमित्यर्थः ।

Tattvabodhini

गोद्व्यचोरसंख्यापरिमाणाश्वादेर्यत् - पञ्चकमिति । सङ्ख्यालक्षणैः कन् । आश्मिकमिति । अश्मनो निमित्तमित्यर्थे ठक् ।नस्तद्धिते॑इति टिलोपः ।

Padamanjari

ठञादीनामिति। आदिशब्देन ठको ग्रहणम्। अतद्गुणसंविज्ञानो बहुव्रीहिः, बहुवचनं तु ठक एवैकस्य विषयवहुत्वमाश्रित्य कृतम्, ठकोऽपवाद इत्यर्थः। किं पुनःकारणमेवं व्याख्यायते ? संख्यापरिमाणाश्वादिवर्जिताद्गोद्व्यचष्ठक एव प्राप्तत्वात्। ब्रह्मवर्चसादिति। ब्रह्मणो वर्चो व्रह्यवर्चसं वृतस्वाध्यायसंपत्,’ब्रह्महस्तिभ्यां वर्चसः’ इत्यच् समासान्तः ॥

Nyaas

ठञादीनामपवादः इति। अदिशब्देन ठगादीनां ग्रहण्। ननु च संख्यापरिमाणयोः पर्युदासात्? कनष्ठकोऽपवाद इति वक्तुं शक्यते, तत्कस्माट्ठञादीनामित्युच्यते? ठञादीनामित्ययमतद्गुणसंविज्ञानो बहुव्रीहिद्र्रष्टव्यः। अनयैवापेक्षयोक्तम् - अआस्य निमित्तमाइआकमिति। ठक्, प्रत्युदाहृतः। सर्वप्रत्ययसम्भवः, तद्बाधनार्थमिदमुक्तम्। पञ्चकम्, अष्टकम् इति। संख्यालक्षणः कन्? (5.1.22) । प्रास्थिकः इति। प्राग्वतीयष्ठञ्, (5.1.18) ॥

Prakriyasarvasvam

गोशब्दात् सङ्ख्यादिवर्जितेभ्यो द्व्यज्भ्यश्चोक्तार्थयोर्यत् स्यात् । गव्यः संयोग उत्पातो वा । मुख्यः । ओजस्यं कर्म । क्रियापि संबन्धरूपेत्याहुः । सङ्ख्यादेस्तु न यत् । पञ्चकः । अष्टकः । प्रास्थिकः । ‘अश्वगणवसूर्णामामङ्गावर्णशमभ्योऽपि न’ । आश्वकः । गाणिकः । वासकः । और्णिकः । औमिकः । भाङ्गिकः । वार्षिकः । आश्मिकः । ‘ब्रह्मवर्चसाद् यद् वाच्यः’ । (वा० ५-१-३९) ब्रह्मवर्चस्यं कर्म ॥

Vartika

ब्रह्मवर्चसादुपसंख्यानम् ।