51021: शताच्च ठन्यतावशते

Padacheda: शतात् | S | 5 | 1 |

च | S | 0 | 0 |

ठन्-यतौ | S | 1 | 2 |

अशते | S | 7 | 1 |

Sutrartha

प्राग्वतीय-अर्थेषु ‘तदर्हति’ अर्थपर्यन्तम् ये अर्थाः पाठिताः सन्ति, तेषां विषये ‘शत’शब्दात् अशते अभिधेये समासं विहाय अन्यत्र ठन् तथा यत्-प्रत्ययौ भवतः ।

प्राग्वतेष्ठञ् (5.1.18) अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । तं बाधित्वा प्रायः सर्वेभ्यः शब्देभ्यः आर्हीय-अर्थेषु आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् (5.1.19) इत्यनेन ठक्-प्रत्ययः विधीयते । परन्तु ये शब्दाः सङ्ख्यावाचिनः परिमाणवाचिनः वा सन्ति, तेषां विषये आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् (5.1.19) इत्यस्य प्रसक्तिः नास्ति, अतः तेषाम् विषये सर्वेषु आर्हीय-अर्थेषु अपि औत्सर्गिकः ठञ्-प्रत्ययः एव विधीयते । अयम् ठञ्-प्रत्ययः केभ्यश्चन सङ्ख्यावाचकेभ्यः शब्देभ्यः सङ्ख्यायाः अतिशदन्तायाः कन् (5.1.22) इत्यत्र पाठितेन ‘कन्’ इत्यनेन बाध्यते । ‘शत’शब्दस्य विषये अपि अनेन सूत्रेण ‘कन्’ प्रत्ययस्य प्रसक्तिः विद्यते । परन्तु समासं विहाय अन्यत्र सोऽपि वर्तमानसूत्रेण बाध्यते, तस्य स्थाने च ‘ठन्’ तथा ‘यत्’ प्रत्ययौ भवतः । यथा - तेन क्रीतम् (5.1.37) अस्मिन् अर्थे - शतेन क्रीतम् = शत + ठन् → शतिक । पक्षे शत + यत् → शत्य । शतेन क्रीतम् शतिकम् शत्यम् वा वस्तु । शतरूप्यकाणि दत्त्वा यत् क्रीयते, तस्य निर्देशः ‘शतिकम्’ / ‘शत्यम्’ अनेन भवति । अस्मिन् सूत्रे ‘अशते’ इति अपि उच्यते । अस्य अर्थः अयम् - आर्हीय-अर्थेषु शत-शब्दात् प्रत्ययविधानम् कृत्वा यदि पुनः ‘शतम्’ इत्येव अर्थः सिद्ध्यति, तत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।’शतात् अशते अभिधेये एव ठन्-यतौ, न अन्यथा’ - इति अस्य सूत्रस्य आशयः । अस्य स्पष्टीकरणम् किञ्चित् क्लिष्टमस्ति, अतः एकमुदाहरणम् स्वीकृत्य अर्थं पश्यामः । ‘सङ्घ’ इति कश्चन शब्दः, समूहः इति अस्य अर्थः । यस्मिन् समूहे शतं जनाः सन्ति, तस्य निर्देशार्थम् तदस्य परिमाणम् (5.1.57) अस्मिन् अर्थे ‘शतम् परिमाणमस्य सङ्घस्य’ इति वाक्यम् क्रियते । अत्र प्रकृतिः अस्ति ‘शतम्’ इति, प्रत्ययस्य अर्थः अपि ‘शतम्’ इत्येव । The measure of a group of 100 people is 100 itself - इति अत्र आशयः । अस्यां स्थितौ वर्तमानसूत्रस्य प्रसक्तिः न विद्यते, यतः अत्र ‘शतम्’ इत्यस्मिन् अर्थे एव शत-शब्दात् प्रत्ययः कृतः अस्ति । अतः अत्र संख्यायाः अतिशदन्तायाः कन् (5.1.22) इति कन्-प्रत्ययः सिद्ध्यति - शतं परिमाणमस्य सङ्घस्य शतकः सङ्घः । अत्र एकम् वार्त्तिकमपि ज्ञातव्यम् - <!शतप्रतिषेधे अन्यशतत्वे अप्रतिषेधः!> । इत्युक्ते, यत्र तद्धितार्थे निर्मितः शब्दः कस्यचन अन्यस्य शतस्य निर्देशं करोति, तर्हि वर्तमानसूत्रेण उक्तः प्रतिषेधः न जायते - इत्युक्ते, वर्तमानसूत्रस्य प्रसक्तिः अस्ति एव । यथा, ‘शतेन क्रीतम् शाटकशतम्’ इत्यत्र ‘शतम्’ दत्वा किञ्चन अन्यम् वस्तु (शतम् शाटकानि) स्वीक्रियते । अत्र यद्यपि तद्धितान्तः शब्दः (= शाटकशतम्) ‘शतम्’ इत्यस्यैव विषये अस्ति, तथापि तद्धितान्तेन निर्दिष्टम् शतम् शाटकस्य विषये अस्ति, परन्तु प्रकृत्या निर्दिष्टं शतम् मूल्यस्य विषये अस्ति । अत्र द्वयोः शब्दयोः भिन्नम् शतम् निर्दिश्यते, अतः अत्र वर्तमानसूत्रे विद्यमानेन ‘अ-शते’ इत्यनेन अत्र प्रतिषेधः न जायते, अपितु वर्तमानसूत्रस्यैव प्रसक्तिः विद्यते - इत्युक्ते, अत्र शत-शब्दात् ठन् तथा यत्-प्रत्ययौ एव भवतः । शतेन क्रीतम् शत्यम् शतिकम् वा शाकटशतम् । ज्ञातव्यम् - 1. समासस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । इत्युक्ते, यदि ‘शत’शब्दः समासे उत्तरपदस्थाने आगच्छति, तथा च तस्य पूर्वपदम् सङ्ख्यावाचिशब्दः अस्ति, तर्हि अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः अत्र संख्याया अतिशदन्तायाः कन् (5.1.22) इत्यनेन कन्-प्रत्ययः एव विधीयते । यथा - द्विशतेन क्रीतम् = द्विशत + कन् → द्विशतकम् । 2. अस्मिन् सूत्रे उक्तौ ठन्-यत्-प्रत्ययौ सङ्ख्यायाः अतिशदन्तायाः कन् (5.1.22) इत्यस्य अपवादरूपेण विधीयते ।

Vasu English Summary

The affixes ठन् (-/- इक) and यत् (-/य) come in the senses taught up to (5.1.63) after the word शत् , when it is not part of a compound and when it does not mean merely ‘hundred’.

Vasu English Translation

The affixes ठन् (-/- इक) and यत् (-/य) come in the senses taught up to (5.1.63) after the word शत् , when it is not part of a compound and when it does not mean merely ‘hundred’. The word आर्हात् (5.1.19) is understood here also. These affixes ठन् and यत् debar the affix कन् (5.1.22). Thus शतेन क्रीतम् = शत्यम् or शतिकम् ‘purchased for a hundred gold coins’.

Why do we say अशते when not meaning ‘merely a hundred’? Observe शतं परिमाणमस्य = शतकं निदानम् ‘a band whose measure is hundred’. The word अशते qualifies the sense of the affix, and not that of the base, the latter not being possible; for the word शत as a base must always mean ‘a hundred’. The following examples will illustrate the meaning; शतमध्यायाः परिमाणमस्य ग्रन्थस्य = शतकः ‘a book consisting of hundred Adhyayas’. In this case there is essentially no difference between the base (prakriti) and the sense of the affix (pratyayartha), though there is apparent difference, for the sake of applying the affix. For शतकः is a book essentially consisting of hundred: while शत्यं ‘a carriage purchased for a hundred coins’, does not contain hundred as its essential part. Similarly शतको गोसंघः ‘a herd of cows hundred in number’. Here the संघः essentially consists of शत and so there is the affix कन् and not ठन् or यत् (5.1.58). But not so in the case of शत्यं शाटकशतं, शतिकं शाटकशतं, for here the sense of the affix is formed by the sentence, and not discovered merely from the word. Hence the following Vartika शतप्रतिषेधेऽन्यशतत्वेऽप्रतिषेधः ।

The word च in the sutra draws in the word असमासे from the previous sutra. Thus द्वौ च शतं च = द्विशतं, द्विशतेन क्रीतं = द्विशतकम् ‘purchased for a hundred and two coins’. Here the affix is कन् (5.1.22). So त्रिशतकम् ॥ According to the Ishti given in the last Sutra, the tadanta vidhi applies here.

Bhashya

शताच्च ठन्यतावशते (1903) (ठन्यतोरधिकरणम्) (5615 अर्थविशेषबोधकवार्तिकम्॥ 1 ॥) - शतप्रतिषेधेऽन्यशतत्वेऽप्रतिषेधः - (भाष्यम्) शतप्रतिषेधेऽन्यशतत्वे प्रतिषेधो न भवतीति वक्तव्यम्। इह मा भूत् - शतेन क्रीतं शत्यं शाकटशतमिति। अन्यशतत्व इति किम्? शतकं निदानमिति॥

Kashika

आर्हादित्येव। शतशब्दात् ठन्यतौ प्रत्ययौ भवतोऽशतेऽभिधेय आर्हीयेष्वर्थेषु। कनोऽपवादः। शतेन क्रीतं शतिकम्। शत्यम्। अशत इति किम्? शतं परिमाणमस्य शतकं निदानम्। प्रत्ययार्थोऽत्र संघः शतमेव वस्तुतः प्रकृत्यर्थाद् न भिद्यते। इह तु न भवति — शतेन क्रीतं शत्यं शाटकशतम्, शतिकं शाटकशतमिति । वाक्येन ह्यत्र प्रत्ययार्थस्य तत्त्वं गम्यते, न श्रुत्या। तथा चोक्तम् — शतप्रतिषेधेऽन्यशतत्वेऽप्रतिषेधः (महाभाष्य — वा० ५.१.२१) इति। चकारोऽसमास इत्यनुकर्षणार्थः। द्वौ च शतं च द्विशतम्, द्विशतेन क्रीतं द्विशतकम्। त्रिशतकम्। प्राग् वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि (महाभाष्य — वा० ५.१.२०) इत्यनया इष्ट्या समासादपि प्राप्नोति॥

Siddhanta Kaumudi

शतेन क्रीतं शतिकम् । शत्यम् । अशते किम् । शतं परिमाणमस्य शतकः सङ्घः । इह प्रत्ययार्थो वस्तुतः प्रकृत्यर्थान्नभिद्यते, तेन ठन्यतौ न । किं तु कनेव । असमासे इत्येव । द्विशतेन क्रीतं द्विशतकम् ॥

Balamanorama

शताच्च ठन्यतावशते - शताच्च । आर्हीयेष्वर्थेषु शताट्ठन्यतौ स्तो नतु शतेऽर्थे इत्यर्थः । उत्तरसूत्रप्राप्तकनोऽपवादः । शतक इति । उत्तरसूत्रेण कन्निति भावः । नन्विह सङ्घस्यैव प्रत्ययार्थत्वात् कथम् ‘अशते’ इति निषेध इत्यत आह — इहेति । प्रत्ययार्थः सङ्घः प्रकृत्यर्थाच्छतात्परिमाणान्न भिद्यते । गुणगुणिनोरभेद एव हि पारमार्थिकः । भेदस्तु काल्पनिक एवेति भावः । यत्र तु शतं प्रत्ययार्थः प्रकृत्यर्थाद्भिद्यते तत्र नायं निषेधः । शतेन क्रीतं शत्यं शाटकशतम् । अत्र हि निष्कशतं प्रकृत्यर्थः । सादकशतं तु प्रत्ययार्थः । एतत्सर्वं भाष्ये स्पष्टम् । असमास इत्येवेति । चकारस्य तदनुकर्षणार्थत्वादिति भावः । द्विशतेनेति । द्विगुणशतेनेत्यर्थः । द्विगुसमासे तु द्विशतशब्दस्य लुगन्ततया लुकि तदन्तविधिनिषेधात् प्राप्तिरेव नेति बोध्यम् ।

Tattvabodhini

शताच्च ठन्यतावशते - शताच्च । अशतेऽभिधेये आर्हीयष्वर्थेषु ठन्यतौ स्तः । उत्तरसूत्रेण प्राप्तस्य कनोऽपवादः । चकारःअसमासे॑ इत्यस्यानुकर्षणार्थः । द्विशतकमिति । द्वौ च शतं च तेषां समाहारे द्विशतम् । ततः कन्प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्तग्रहणमलुकी॑त्यनया इष्टआ समासादपि प्राप्नोतीतिअसमासे॑इत्यतस्यानयनमुचितमिति भावः ।

Padamanjari

कनोऽपवाद इति। उतरसूत्रेण प्राप्तस्य। शतकमिति।’तदस्य परिमाणम्’ इति वर्तमामने’संक्यायाः संज्ञासंघसूत्राध्ययनेषु’ इति संघे प्रत्ययार्थे विवक्षिते उतरसूक्षत्रेण कनेव भवति। प्रत्ययार्थोऽत्र सङ्घ इति। शतमध्यायानां परिमाणं यस्य निदानाख्यस्य ग्रन्थस्य स इह प्रत्ययार्थः, स च शतसंख्यावच्छिन्नाघ्यायसमुदायात्मक इति संघः प्रत्ययार्थो भवति। शतमेव वस्तुत इति। शतातस्यानन्यत्वात् ततश्च प्रकृत्यर्थान्न भिद्यते,यदेवाध्यायानां शतं प्रकृत्याभिधीयते प्रत्ययान्तेनापि तदेवेति नेह प्रकृत्यर्थात्प्रत्ययार्थस्य भेदः। एतेन यत्राव्यतिरिक्तः प्कय्ययार्थात्प्रकृत्यर्थस्तत्र प्रतिषेधो भवति, न व्यतिरिक्त इत्येतदाख्यातम्। ननु च’संघे चानौतराधर्ये’ ,’सङ्ख्यायाः संज्ञासंघसूत्राध्ययनेषु’ इत्यत्र च प्राणिसमूहे संघशब्दो गृङ्यते, तत्कथमत्र ग्रन्थविषयो गृह्यते ? उपचारेणेत्यदोषः। यदि वा संज्ञासंघसूत्रे शब्दसाहचर्याद्विशिष्टः संघो गृह्यते,’संघे चानौतराधर्ये’ इत्यत्रापि’च्छन्दोनाम्नि’ इत्यतश्च्छन्दोग्रहणानुवृतेः प्राणी गृह्यते। इह तु यत्नान्तराभावाद्ग्रन्थस्यापि ग्रहणमित्यदोषः। ननु च शतेऽभिधेये न भवितव्यम्, इहच शत्यं शाटकशतम्, शतिकं शाटकशतमित्युक्ते शतं प्रतीयत एव तत्किमिति प्रतिषेधो न भवति ? इत्यत आह - वाक्येनेत्यादि। शत्यशतिकशब्धौ सामान्यशब्दौ, सामान्यशब्दास्च प्रकरणादिकमन्तरेण न विशेषे वर्तन्ते। न यावच्छाटकशतमित्येतत्पदान्तरं प्रयुज्यते तावत्प्रत्ययार्थस्य शतत्वं नावसीयते। तस्मात्पदान्तरसन्निधौ गम्यमानत्वाद्वाक्यार्थोऽसौ भवति। न श्रुत्येति। गम्यते इति सम्बन्धः। यत्र प्रत्ययान्तेन पदान्तरनिरपेक्षेण प्रत्ययार्थस्य शतत्वमाख्यायते, तत्र श्रुत्या प्रत्ययान्तश्रवणमात्रेणैव गम्यते, यथा प्रत्युदाहरणे शतं परिमाणमस्य शतकमित्युक्ते गम्यते-एकत्प्रत्ययार्थोऽपि शतमेवेति। इह तु वाक्याच्छतत्वं प्रतीयते। न च पदसंस्कारकाले वाक्यार्थस्याङ्गभावोऽस्ति, तदा तस्यानुपथानात्। प्रकृत्यर्थादव्यतिरिक्ते प्रत्ययार्थे प्रतिषेधो भवति, न ह्यतिरिक्ते वाक्यगम्य इत्येतदाप्तवचनेन द्रढयितुमाह - तथा चोक्तमित्यादि। शतप्रतिषेधे कर्तव्ये प्रकृत्यर्थादन्यस्य च प्रत्ययार्थस्य शतत्वे सत्यप्रतिषेधः। एतदुक्तं भवति - यत्रान्यत् प्रकृत्यर्थं शतम्, अन्यत्प्रत्ययार्थशतम्, तत्र विधिरेव भवति न प्रतिषेधः। केन पुनः समासे प्राप्नोति यतस्तत्प्रतिषेधार्थमसमासानुकर्षणार्थश्चकारः क्रियते ? इत्याह - प्राग्वतेरित्यादि ॥

Prakriyasarvasvam

अर्हीयेष्वसमस्ताच्छतशब्दादशते वाच्ये ठन्यतौ स्तः । शतेन क्रीतादि शतिकं, शत्यम् । यत्र तु ‘तदस्य परिमाणमि’त्यर्थे शतकं स्तोत्रमित्यादि शतात्मकमेव वस्तु वाच्यं, तत्रोत्तरसूत्रतः कनेव । तथा समासेऽपि कन् । पणशतेन क्रीतं पणशतकम् ।। आपिशलिकाशकृत्स्नैरग्रन्ते ठन्यताविति स्मरणात् । शत्यः शतिको गोगण इति सिध्येदित्यनिच्छयाह हरः ।। २९४ ।।