44125: तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः¶
Padacheda: तद्वान् | S | 1 | 1 |
आसाम् | S | 6 | 3 |
उपधानः | S | 1 | 1 |
मन्त्रः | S | 1 | 1 |
इति | S | 0 | 0 |
इष्टकासु | S | 7 | 3 |
लुक् | S | 1 | 1 |
च | S | 0 | 0 |
मतोः | S | 6 | 1 |
Sutrartha¶
‘उपधानमन्त्रः आसाम् इष्टकानाम्’ अस्मिन् अर्थे प्रथमासमर्थात् मतुप्-प्रत्ययान्तशब्दात् वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते, तथा च प्रक्रियायाम् मतुप्-प्रत्ययस्य लुक् अपि कृतः दृश्यते ।
अस्य सूत्रस्य अर्थं ज्ञातुमारम्भे काचित् पीठिका ज्ञातव्या । 1. यज्ञादिकार्यादिषु ‘यज्ञकुण्डस्य’ निर्माणार्थम् याः इष्टकाः (bricks) रच्यन्ते, तासां चयनार्थम् वेदेषु केचन मन्त्राः प्रोक्ताः सन्ति (There are some mantras that are specifically chanted while selecting the bricks to be used for constructing fireplace of the yajna) । एते मन्त्राः ‘उपधानमन्त्राः’ नाम्ना ज्ञायन्ते । एतादृशानामुपधान-मन्त्राणाम् संज्ञार्थमस्मिन् सूत्रे ‘यत्’ प्रत्ययविधानम् कृतमस्ति । 2. सूत्रे प्रयुक्तः ‘आसाम्’ इति शब्दः ‘इदम्’ इत्यस्य षष्ठ्येकवचनमस्ति । अयम् शब्दः ‘इष्टका’ इत्यस्य विशेषणरूपेण प्रयुज्यते, तथा च ‘अर्थस्य’ निर्देशं करोति । इत्युक्ते, ‘आसाम् इष्टकानाम्’ अस्मिन् अर्थे वर्तमानसूत्रेण यत्-प्रत्ययः विधीयते । 3. अस्मिन् सूत्रे उपस्थितः ‘तद्वान्’ अयं शब्दः ‘तद् + मतुप्’ इत्यस्य प्रथमैकवचनमस्ति । ‘तद् अस्मिन् अस्ति’ सः तद्वान् । ‘उपधानमन्त्रः’ इत्यस्य इदम् विशेषणम् । ‘तद्वान् उपधानमन्त्रः’ इत्युक्ते ‘सः (= कश्चन शब्दः) अस्मिन् उपधानमन्त्रे अस्ति सः उपधानमन्त्रः’ । यथा, ‘वर्चस्वान् उपधानमन्त्रः’ इत्युक्ते ‘वर्चस्-शब्दः यस्मिन् उपधानमन्त्रे अस्ति’ सः उपधानमन्त्रः । 4. अस्मिन् सूत्रे विद्यमानः प्रथमः शब्दः ‘तद्वान्’ इत्येव अस्ति; स च प्रथमाविभक्तौ विद्यते । अतः अनेन सूत्रेण प्रथमासमर्थात् यत्-प्रत्ययविधानम् क्रियते । अयम् प्रत्ययविधानम् साक्षात् ‘तद्वान्’ अस्मात् शब्दात् न भवति, अपितु ‘तद्वान्’ इत्यनेन निर्दिष्टः यः मतुप्-प्रत्ययान्तशब्दः, तस्मात् भवति । यथा, ‘वर्चस्वान् उपधानमन्त्रः’ इत्यत्र ‘वर्चस्वान्’ इत्यस्मात् यत्-प्रत्ययः भवितुमर्हति । इदानीमस्य सूत्रस्य अर्थः स्पष्टः स्यात् - ‘तद्वान् उपधानमन्त्रः आसाम् इष्टकानाम्’ अस्मिन् अर्थे मतुप्-प्रत्ययान्तशब्दात् ‘यत्’-प्रत्ययः भवति, तथा च प्रक्रियायाम् मतुप्-प्रत्ययस्य लुक् भवति । अधिक-स्पष्टतायै एकमुदाहरणं पश्यामः । ‘वर्चस्वान् उपधानमन्त्रः आसाम् इष्टकानाम्’ इति वाक्यं दृश्यताम् । अत्र ‘वर्चस्वान्’ इति ‘तद्वान्’ इत्यनेन निर्दिष्टः मतुप्-प्रत्ययान्तशब्दः अस्ति । ‘वर्चस्’ (= तेजस्) शब्दात् मतुप्-प्रत्यये कृते अयम् शब्दः सिद्ध्यति । ‘मन्त्रः’ इत्यस्य इदम् विशेषणम् । ‘वर्चस्वान् मन्त्रः’ इत्युक्ते ‘वर्चस्’ इति शब्दः यस्मिन् मन्त्रे विद्यते सः मन्त्रः । अयम् ‘वर्चस्वान् मन्त्रः’ यदि इष्टकानाम् ‘उपधानमन्त्रः’ अनेन रूपेण प्रयुज्यते, तर्हि ‘वर्चस्वत्’ शब्दात् वर्तमानसूत्रेण यत्-प्रत्ययविधानम् क्रियते, तथा च यत्-प्रत्यये कृते मतुप्-प्रत्ययस्य अनेन सूत्रेण लोपः अपि विधीयते । प्रक्रिया इयम् - वर्चस्वान् उपधानमन्त्रः आसाम् इष्टकानाम् = वर्चस्वत् + यत् → वर्चस् + यत् [मतुप्-प्रत्ययस्य लोपः] → वर्चस्य वर्चस्वान् उपधानमन्त्रः आसाम् इष्टकानाम् ताः वर्चस्याः इष्टकाः । एवमेव - 1. तेजस्वान् उपधानमन्त्रः आसाम् इष्टकानाम् ताः तेजस्याः इष्टकाः । 2. रेतस्वान् उपधानमन्त्रः आसाम् इष्टकानाम् ताः रेतस्याः इष्टकाः । 3. पयस्वान् उपधानमन्त्रः आसाम् इष्टकानाम् ताः पयस्याः इष्टकाः । वेदेषु प्रयोगः - तैत्तिरीयब्राह्मणः 1.10.9.1 - आयुर्वै हिरण्यम् । आयुष्या एवैनमभ्यति क्षरन्ति ॥ तेजो वै हिरण्यम् । तेजस्या एवैनमभ्यति क्षरन्ति ॥ वर्चो वै हिरण्यम् । वर्चस्या एवैनमभ्यति क्षरन्ति ॥ ज्ञातव्यम् - अस्मिन् सूत्रे ‘इति’ अयम् शब्दः प्रयुज्यते । अस्य प्रयोजनम् काशिकाकारः ब्रवीति - ‘इतिकरणो नियमार्थः। अनेकपदसम्भवेऽपि केनचिदेव पदेन तद्वान् मन्त्रो गृह्यते, न सर्वेण’ । इत्युक्ते, यद्यपि मन्त्रे अनेके शब्दाः विद्यन्ते, तथापि प्रत्येकं शब्दं स्वीकृत्य ‘तद्वान्’ इति उक्त्वा ‘यत्’-प्रत्ययः न भवति, अपितु विशिष्टम् शब्दम् स्वीकृत्य एव भवति - इति अस्य आशयः ।
Vasu English Summary¶
The affix यत् comes in the छन्दस् (Vedas) after a प्रातिपदिक (Nominal Stem) in the Nominative 1st-Case in construction, ending with the affix मतुप् when the sense is ‘this is their मन्त्र of putting up’ provided that the things put are bricks and the affix मतुप् is लुक् elided.
Vasu English Translation¶
The affix यत् comes in the छन्दस् (Vedas) after a प्रातिपदिक (Nominal Stem) in the Nominative 1st-Case in construction, ending with the affix मतुप् when the sense is ‘this is their मन्त्र of putting up’ provided that the things put are bricks and the affix मतुप् is लुक् elided. This sutra requires analysis. तद्वान् is formed by adding मतुप् to तद् meaning ‘having that’, and refers to a noun formed by the affix मतुप् ॥ The word आसाम् is genitive plural fem. of इदं meaning ‘of them’; the pronoun refers to the word इष्टका ॥ The word उपधान means ‘putting up’, and technically means ‘used as a Mantra in the putting up of sacrificial bricks, pots &c’. मन्त्र “sacred hymn” इष्टका ‘bricks’. The whole sutra means “the affix ‘yat’ is used with the force of a genitive (asam), after a word which ends with matup (tadvan), and denotes a mantra used in putting up of sacrificial objects; when such mantra refers to bricks : and when this affix yat is added, the affix matup is elided”. Thus वर्चस्वान् is a Mantra containing the word वर्चस् ॥ The bricks put up or collected (उपधीयते) with the recitation of वर्चस्वान् Mantra, will be called वर्चस्या (वर्चस्वत् + यत् = वर्चस् + यत् the affix वत् (मतुप्) being elided = वर्चस्य, fem वर्चस्या) ॥ Thus वर्चस्या उपदधाति ‘he collects Varchasya bricks i. e. on which Varchasvan mantra has been pronounced’. So तेजस्या उपदधाति ॥ So पयस्याः, रेतस्याः ॥
Why do we say तद्वान् ? The affix is not to be added to the whole Mantra. Why do we say, उपधान ‘putting up’? The affix is not to be added to other Mantras such as those used in praying etc. e. g. वर्चस्वानुपस्थान मन्त्र आसामिष्टकानाम्, here there will be no affix. Why do we say Mantra? Observe अंगुलिमानुपधानो हस्त आसाम् ‘these bricks are collected with hand having fingers’, here there will be no affix. Why do we say इष्टकासु ? Observe वर्चस्वानुपधानो मन्त्र एषां कपालानाम्, here there will be no affix, the thing collected being potsherds and not bricks.
Kashika¶
तद्वानिति निर्देशादेव समर्थविभक्तिः। मतुबन्तात् प्रातिपदिकात् प्रथमासमर्थादासामिति षष्ठ्यर्थे यत् प्रत्ययो भवति, यत् प्रथमासमर्थमुपधानो मन्त्रश्चेत् स भवति, यत् तदासामिति निर्दिष्टमिष्टकाश्चेत् ता भवन्ति। लुक् च मतोरिति प्रकृतिनिर्ह्रासः। इतिकरणस्ततश्चेद् विवक्षा। तद्वानित्यवयवेन समुदायो निर्दिश्यते। वर्चः शब्दो यस्मिन् मन्त्रेऽस्ति, स वर्चस्वान्। उपधीयते येन स उपधानः। चयनवचन इत्यर्थः। वर्चस्वानुपधानमन्त्र आसामिष्टकानामिति विगृह्य यति विहिते मतोर्लुकि कृते व॒र्च॒स्या॑ (तै०ब्रा०१.८.९.१) उपदधाति। ते॒ज॒स्या॑ (तै०ब्रा० १.८.९.१)उपदधाति। प॑य॒स्याः॑ (तै०सं०२.३.१३.२)। रेतस्याः (ष०विं०२.१)। तद्वानिति किम् ? मन्त्रसमुदायादेव मा भूत्। उपधान इति किम्? वर्चस्वानुपस्थानमन्त्र आसामित्यत्र मा भूत्। मन्त्र इति किम्? अङ्गुलिमानुपधानो हस्त आसामित्यत्र मा भूत्। इष्टकास्विति किम् ? वर्चस्वान् उपधानमन्त्र एषां कपालानामित्यत्र मा भूत्। इतिकरणो नियमार्थः। अनेकपदसंभवेऽपि केनचिदेव पदेन तद्वान् मन्त्रो गृह्यते, न सर्वेण॥
Siddhanta Kaumudi¶
वर्चस्वानुपधानो मन्त्र आसामिष्टकानां वर्चस्याः । ऋतव्याः ॥
Padamanjari¶
मतुनिर्ह्रासः उ मतोरपचयः । तद्वानित्यवयवेन समुदायो निदिश्यत इति । स विवक्षितो वर्च शब्दादिरवयवोऽस्मिन्मन्त्रलक्षणे समुदायेऽस्तीत्येवमेकदेशार्थाभिधायिनः सर्वनाम्नः समुदाये मतुबयं विहित इत्यर्थः । वर्चः शब्दो यस्मिन्मन्त्रेऽस्तीति । स पुनः कुम्भेष्टकोपधानमन्त्रः -‘भूतं च स्थ भव्यं च स्थ देवस्य वः सवितुः प्रसवः’ इत्यादिकः । वर्चस्या उपदधातीति । यथा वर्चस्या भवन्ति तथोपधातीत्यर्थः । तेजस्वान्मन्त्रः -‘वसु च स्थ वाम च स्थ देवस्य वः सवितुः’ इत्यादिकः । वयस्वन्तो मन्त्राः -‘त्र्यविर्वयस्त्रष्टुअब्’ इत्यादिकाः, ऋतुमन्तो मन्त्राः -‘मधुश्च माधवश्च’ इत्यादिकाः । मन्त्रसमुदायादेव मा भूदिति । ननु तद्वानित्यस्मिन्नसति’समर्थानां प्रथमाद्वा’ इति वचनादासामिति प्रथमं निर्दिष्टत्वात् षष्ठ।ल्न्तादिष्टकावाचिन उपधाने मन्त्रे प्रत्ययविधिः प्रसञ्जनीयः ? सत्यम् ; आसामिति प्रथमं न करिष्यत इति मत्वा प्रश्नप्रतिवचने, ततश्च तद्वानित्यस्याभावे’त्र्यविर्वयस्त्रिष्टुअप्लन्दः’ इत्यमुपधानमन्त्र आसामिष्टकानामिति वाक्यं स्यात्, ततश्चेतिना परामृष्टान्मन्त्रसमुदायादेव प्रत्ययः प्राप्नोति । वर्चस्वानुपस्यानमन्त्र इत्यादि । उपस्थानं मन्त्रेणाभिमन्त्रणं विवक्षितम्,’शिवेन मा चक्षुषा’ इत्यादिकः कुम्भेष्टकाभिमन्त्रणे विनियुक्तः । अङ्गुलिमानित्यादि । यद्यपि सर्वासामिष्टकानामङ्गुलिमान्हस्त उपधानः, तथापि यास्तूष्णीमुपधेया इष्टकास्तासु मन्त्रव्यावृत्यर्थतया विशेषणमर्थवत् - एषां कपालानामित्यत्र मा भूदिति । स्त्रीलिङ्गनिर्देशादत्राप्रसङ्ग इति चेति ? एवमपि शर्करासु प्रसङ्गः । अनेकपदसम्भवेऽपीति । असति त्वितिकरणे मन्त्रे बहूनां सम्भवाद्येन केनचेत्पदेन तद्वान्मन्त्रो गृह्यं त तथा पदैकदेशेन वर्णसमुदायेन, इतिकरणात्वय मतिप्रसङ्गो न भवति । मतुब्ग्रहणमुतरार्थमश्विमानित्यत्र मतुप एव लुग्यथा स्यात्, हनेमाभूदिति । इह तु मत्वन्तात्प्रत्ययविधानातस्यैव तुग्भविष्यति । वर्चः शब्दादावसुप्रभृतेरप्रसङ्गः, उणादीनामत्र्युत्पन्नत्वात् इह’प्राणभृत उपदधाति’ इत्यादावभेदोपचारात्प्रत्ययाभावः ॥
Nyaas¶
स विवक्षितोऽवयवोऽस्मिन्निति तद्वान्। कः पुनरसौ? समुदायः। अत एवाह - तद्वानित्यवयवेन समुदायो निर्दिश्यते इति। एतेनैकदेशादिदं प्रत्ययविधानमित्युक्तं भवति। ` वर्चःशब्दोऽस्मिन् मन्त्रेऽस्ति` इत्यादिना तत्समुदायं प्रदर्शयति। चयनवचनः इति। चिनोतेरेव करणे लुप्। तेजस्या`इति। तेजःशब्दोऽस्य मन्त्स्यास्तीति तेजस्वानुपधानमन्त्रः। शेषं विग्रहवाक्यादि पूर्ववत्। मन्त्रादेव, समुदायान्मा भत्। यद्यपि समुदायः प्रातिपदिकमं न भवति, तथापि वचनसामर्थ्यापि स्यात्। किं तर्हि वचनान्न लभ्यत इत्यभिप्रायः।`इतिकरणो नियमार्थः इति। असतीहेतिकरणे मन्त्रे बहूनां सम्भवे सर्वेण पदेन तद्वान् मन्त्रो गृह्रते। अस्मस्तु सति तेन नियमार्थेन येनैव पदेन तद्वता मन्त्रेणेष्टकोपलक्ष्यते,तेनैव सर्वो मन्त्रो गृह्रत इत्येतदुपपन्नं भवति।अथ मतुब्ग्रहणं किमर्थम्, यावता मतुबन्तादयं विधीयते, तत्र प्रत्ययस्य लुग् विज्ञायमानो विधानसामर्थ्याच्च मतुप एव भविष्यतीत्यपार्थकं मतुब्ग्रहणं? नैवम्; उत्तरत्र अइआमानण् (4.4.125) इत्यतर्ह्रुपवानमात्रावयवे द्वौ मत्वर्थीयौ - इनिमतुपौ, तत्रासति मतुब्ग्रहणे लुक् स्यात्; अस्मिन् सति मतुप एव भवति॥
Prakriyasarvasvam¶
तद्वानुपधानसाधनभूतो मन्त्र आसामित्यर्थे इष्टकासु वाच्यासु यत् स्यात् । पूर्वस्थितस्य मतुपश्च लुक् स्यात् ॥ वर्चस्वान् मन्त्रआसामिष्टकानामिति वर्चस्या उपद्धाति ।