44100: भक्ताण्णः¶
Padacheda: भक्तात् | S | 5 | 1 |
णः | S | 1 | 1 |
Sutrartha¶
‘साधुः’ इत्यस्मिन् अर्थे सप्तमीसमर्थात् ‘भक्त’ (पक्वः ओदनः) शब्दात् संज्ञायाः विषये ण-प्रत्ययः भवति ।
‘भक्त’ इत्युक्ते पक्वः ओदनः (cooked rice) । ‘साधुः’ इत्युक्ते प्रवीणः, कुशलः, योग्यः । ‘साधुः’ अस्मिन् अर्थे सप्तमीसमर्थात् ‘भक्त’शब्दात् ण-प्रत्ययः भवति - भक्ते साधुः = भक्त + ण → भक्त + अ [इत्संज्ञालोपः] → भाक्त + अ [तद्धितेष्वचामादेः (7.2.117) आदिवृद्धिः] → भाक्त् + अ [यस्येति च (6.4.148) इति अकारलोपः] → भाक्त भक्ते साधुः भाक्ताः तण्डुलाः । ते तण्डुलाः येषु उत्तमाः गुणाः सन्ति, येभ्यः पक्व-ओदनस्य निर्माणम् भवितुमर्हति, ते तण्डुलाः ‘भाक्ताः’ नाम्ना ज्ञायन्ते । स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्ययः विधीयते । भक्ते साधुः भाक्ता यवागूः ।
Vasu English Summary¶
The affix ण comes in the sense of ‘excellent with regard thereto’ after the word भक्त।
Vasu English Translation¶
The affix ण comes in the sense of ‘excellent with regard thereto’ after the word भक्त। This debars यत्; thus, भक्ते साधुः = माक्तः शालिः ‘rice’ lit. suitable or excellent for food. भाक्ता स्तण्डुलाः ॥
Kashika¶
भक्तशब्दाद् णः प्रत्ययो भवति तत्र साधुरित्येतस्मिन् विषये। यतोऽपवादः। भक्ते साधुर्भाक्तः शालिः। भाक्तास्तण्डुलाः॥
Siddhanta Kaumudi¶
भक्ते साधवो भाक्ताः शालयः ॥
Balamanorama¶
भक्ताण्णः - भक्ताण्णः । सप्तम्यन्तादस्मात्साधुरित्यर्थ इति शेषः ।
Tattvabodhini¶
भक्ताण्णः - भक्ते इति ।भस्सां स्त्री भक्तमन्धोऽन्न॑मित्यमरः ।
Padamanjari¶
भक्तास्तण्डुला इति । भक्तयोग्याः, त्रिफलीकृतत्वात् ॥
Prakriyasarvasvam¶
भक्ते योग्या भाक्तास्तण्डुलाः ।।