44098: तत्र साधुः¶
Padacheda: तत्र | S | 0 | 0 |
साधुः | S | 1 | 1 |
Sutrartha¶
सप्तमीसमर्थात् साधुः (कुशलः / प्रवीणः / योग्यः) अस्मिन् अर्थे संज्ञायाः विषये यत्-प्रत्यय भवति ।
‘साधुः’ इत्युक्ते प्रवीणः, कुशलः, योग्यः । ‘साधुः’ अस्मिन् अर्थे सप्तमीसमर्थात् यत्-प्रत्ययः वर्तमानसूत्रेण विधीयते । यद्यपि अस्य सूत्रस्य प्रयोगः सर्वेभ्यः सप्तमीसमर्थेभ्यः भवितुमर्हति, तथापि ‘संज्ञायाम्’ इत्यस्य अनुवृत्तिः अत्र विद्यते, अतः केवलं विशिष्ट-प्रयोगेषु एव अस्य सूत्रस्य प्रसक्तिः अस्ति, न अन्यत्र । यथा - 1. सामसु साधुः = सामन् + यत् → सामन्य । [नस्तद्धिते (6.4.144) इत्यनेन टिलोपे प्राप्ते, तथा च अल्लोपोऽनः (6.4.134) इत्यनेन उपधा-अकारस्य लोपे प्राप्ते, ये चाभावकर्मणोः (6.4.168) इत्यनेन प्रकृतिभावः] सामकार्येषु प्रवीणः सः सामन्यः । एवमेव - 2. कर्मणि साधुः सः कर्मण्यः । 3. वेमनि (हत्यायाम्) साधुः सः वेमन्यः । 4. शरणे साधुः सः शरण्यः ।
Vasu English Summary¶
The affix यत् comes in the sense of ‘excellent in regard thereto’ after a word in the Locative -7th case in construction.
Vasu English Translation¶
The affix यत् comes in the sense of ‘excellent in regard thereto’ after a word in the Locative -7th case in construction. Thus सामसु साधुः = सामन्यः॑ (6.4.168) ‘conversant with the Sama-Veda’. So also वेमन्यः, कर्मण्यः, शरन्यः &c. The word साधु here means प्रवीण, or योग्य ‘expert’ and ‘fit’, and does not mean उपकारक ‘a benefactor or a good person’. When the sense is that of ‘good’, the sutra तस्मै हितम् (5.1.5) will apply.
Kashika¶
तत्रेति सप्तमीसमर्थात् साधुरित्येतस्मिन्नर्थे यत् प्रत्ययो भवति। सामसु साधुः सामन्यः। वेमन्यः। कर्मण्यः। शरण्यः। साधुरिह प्रवीणो योग्यो वा गृह्यते, नोपकारकः। तत्र हि परत्वात् तस्मै हितम् (५.१.५) इत्यनेन विधिना भवितव्यम्॥
Siddhanta Kaumudi¶
अग्रे साधुः अग्र्यः । सामसु साधुः सामन्यः । येचाभावकर्मणोः (SK1154) इति प्रकृतिभावः । कर्मण्यः । शरण्यः ॥
Laghu Siddhanta Kaumudi¶
अग्रे साधुः - अग्र्यः। सामसु साधुः सामन्यः। ये चाभावकर्मणोरिति प्रकृतिभावः। कर्मण्यः। शरण्यः॥
Balamanorama¶
तत्र साधुः - तत्र साधुः । सप्तम्यन्तात्साधुरित्यर्थे यत्स्यादित्यर्थः । अग्रय इति । अग्रे साधुरित्यर्थः । साधुरत्र प्रवीणो गृह्रते, नतु हितः, तत्रतस्मै हित॑मिति वक्ष्यमाणत्वात् ।
Tattvabodhini¶
तत्र साधुः - तत्र साधुः । सा४धुरिह प्रवीणो योग्यो वा गृह्रते, निपकर्ता । तत्र हि परत्वात्तस्मै हित॑मित्येन भाव्यम् । संज्ञाधिकारादुपकर्ता न गृह्रत इत्यन्ये ।
Padamanjari¶
सामन्य इति ।’ये चाभावकर्मणोः’ इति प्रकृतिभावः । प्रवीणः उ निपुणः, योग्यः उ समर्थः । तत्र हि परत्वादिति ।’तस्मै हितम्’ इत्यनेन चतुर्थीसमर्थात्प्रत्ययो विधीयते, अनेन तु सप्तमीसमर्थातेन नात्र’विप्रतिषेधे परम्’ इत्येतत्परत्वापरत्वं विवक्षितम्, कि तर्हि ? इष्टवाची परशब्दः, उपकारलक्षणे साधौ प्राक्क्रीतीयानामेवेष्टत्वात्’तस्मै हितम्’ इत्यनेन विधिना भवितव्यमित्यर्थः । एतच्च संज्ञाधिकाराल्लभ्यते ॥
Nyaas¶
सामन्यः इति। ये चाभावकर्मणोः (6.4.168) इति प्रकृतिभावः। साधुरिह निपुणः, योग्य इति भावः॥
Prakriyasarvasvam¶
अत्रार्थे यत् स्यात् । साधुः प्रवाणो योग्यो वा । सामसु साधुः सामन्यः । कर्मण्यः । नान्तत्वेऽपि ‘ये चाभावकर्मणोः’ (६-४-१६८) इति टिलोपाभावः ।।
Sutra Prayogas¶
शरण्यः (रघुवंशम्): तत्र साधुः इति यत्प्रत्ययः।
शरण्यम् (रघुवंशम्): तत्र साधुः इति यत्प्रत्ययः।
जगच्छरण्यस्य (कुमारसम्भवम्): तत्र साधुः इति यत्प्रत्ययः।
कुल्यां (भट्टिकाव्यम्): तत्र साधुः इति कुले साध्वीं यत्।