44067: श्राणामांसौदनाट्टिठन्

Padacheda: श्राणा-मांस-ओदनात् | S | 5 | 1 |

टिठन् | S | 1 | 1 |

Sutrartha

‘नित्यरूपेण, अव्यभिचाररूपेण अस्मै दीयते’ अस्मिन् अर्थे श्राणा तथा मांसौदन - एताभ्यां शब्दाभ्यां प्रथमासमर्थाभ्याम् ‘टिठन्’ प्रत्ययः भवति ।

‘श्राणा’ (यवागुः), तथा ‘मांसौदन’ (मांसमिश्रितम् ओदनम्) एताभ्यां शब्दाभ्याम् तदस्मै दीयते नियुक्तम् (4.4.66) अस्मिन् अर्थे औत्सर्गिकं ठक्-प्रत्ययं बाधित्वा टिठन्-प्रत्ययः विधीयते । ‘टिठन्’ इत्यत्र टकारनकारौ इत्संज्ञकौ स्तः, इकारः तु उच्चारणार्थः अस्ति । श्राणा दीयते अस्मै नियुक्तम् सः = श्राणा + टिठन् = श्राणा + ठ → श्राणा + इक [ठस्येकः (7.3.50) इति इक-आदेशः] → श्राण् + इक [किति च (7.2.118) इति आदिवृद्धिः, यस्येति च (6.4.148) इति आकारलोपः] → श्राणिक । तथैव - मांसौदनम् दीयते अस्मै नियुक्तम् सः = मांसौदनिकः । ज्ञातव्यम् - 1) ‘टिठन्’ इत्यत्र टकारः इत्संज्ञकः अस्ति । तस्य प्रयोजनम् स्त्रीप्रत्ययविधाने दृश्यते - स्त्रीत्वे विवक्षिते टित्-प्रत्ययान्तशब्दाः टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4.1.15) इत्यनेन ङीप्-प्रत्ययं प्राप्नुवन्ति ।यथा - श्राणा दीयते अस्यै नियुक्तम् सा = श्राणा + टिठन् + ङीप् → श्राणिकी । 2) ‘टिठन्’ इत्यत्र नकारः अपि इत्संज्ञकः अस्ति । तस्य प्रयोजनम् ‘स्वरविधानम्’ इति । ञ्नित्यादिर्नित्यम् (6.1.197) इत्यनेन नित्-प्रत्ययान्तशब्दानां प्रथमस्वरः उदात्तसंज्ञां प्राप्नोतो । 3) केचन पण्डिताः ‘मांसौदन’ शब्दस्य विग्रहं कृत्वा ‘मांस’ तथा ‘ओदन’ द्वयोः विषये भिन्नरूपेण अपि टिठन्-विधानम् कुर्वन्ति । यथा - मांसम् दीयते अस्मै नियुक्तम् सः मांसिकः , ओदनं दीयते अस्मै नियुक्तम् सः ओदनिकः । अस्मिन् विषये काशिकाकारः वदति - ‘अथ ठञेव कस्मान् न उक्तः, न ह्यत्र ठञः टिठनः वा विशेषः अस्ति? मांसौदनग्रहणं सङ्घातविगृहीतार्थं केचिदिच्छन्ति, तत्र वृद्ध्यभावो विशेषः’ । इत्युक्ते, यदि केवलं ‘श्राणा’ तथा ‘मांसौदन’ द्वौ शब्दौ एव अभविष्यताम्, तर्हि आचार्यः ‘ठञ्’ इत्येव प्रत्ययविधानमकरिष्यत् - यतः ञित्-प्रत्ययान्त-शब्दाः अपि स्त्रीत्वे विवक्षिते टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4.1.15) इत्यनेन ङीप्-प्रत्ययं प्राप्नुवन्ति, तथा च नित्-प्रत्ययवत् आद्युदात्तत्वमपि निदर्शयन्ति । परन्तु अत्र आचार्यः ञकारस्य प्रयोगम् न करोति अपितु नकारटकारयोः पृथक् रूपेण प्रयोगं करोति । एतत् अस्यैव ज्ञापकम् यत् अत्र आचार्यः ‘ओदन’ शब्दस्य अपि ग्रहणं कर्तुम् इच्छति, परन्तु तस्य विषये आदिवृद्धिं न इच्छति । अतएव अत्र ‘मांस’ तथा ‘ओदन’ - द्वयोः पृथक्-रूपेण अपि ग्रहणम् करणीयम् ।

Vasu English Summary

The affix टिठन् comes in the sense of ‘to whom this is given rightfully’ after the words 1. श्राणा and 2. मांसौदन।

Vasu English Translation

The affix टिठन् comes in the sense of ‘to whom this is given rightfully’ after the words 1. श्राणा and 2. मांसौदन। This टिठन् debars ठक् ॥ The इ of टि is for the sake of pronunciation, the ट् indicates that the feminine is formed by ङीप् (4.1.154). Thus श्राणा नियुक्तमस्मै दीयते = श्राणिकः f. श्राणिकी ‘who is entitled to get rice gruel’. So also मांसौदनिकः f. मांसौदनिकी ॥

The difference between ठक् and टिठन् is in accent, the former having udatta on the final (6.1.165), the latter on the initial (6.1.197). The feminine of ठक् and टिठन् will both be formed by ङीप् (4.1.15). Now the affix ठञ् resembles टिठन् both in accent (6.1.197) and in feminine (4.1.15). Why was not ठञ् used instead of टिठन्, for it would have produced exactly the same forms ? True, as regards the words श्राणा and मांसौदन the affix ठञ् might have been employed instead of टिठन् ॥ According to some, however, the affix टिठन् applies to मांस and ओदन separately also. But ठञ् cannot be applied to ओदन as it would cause Vriddhi (7.2.117) which टिठन् does not. Thus ओदन् + टिठन् = ओदनिकः, f. ओदनिकी ॥ With ठञ् the form would have been औदनिकः which is not wanted.

The word श्राणा is a Past Participle (क्त) of श्राणा ‘to cook.’ The श्रा is not changed to श्रृ as required by (6.1.27). This is an anomaly. The nistha त is changed to ण (8.2.43). The form श्राता is also found, as in (6.1.36), and the regular form is शृतं = क्षीरम् (6.1.27).

Kashika

श्राणामांसौदनशब्दाभ्यां टिठन् प्रत्ययो भवति तदस्मै दीयते नियुक्तमित्येतस्मिन्नर्थे। ठकोऽपवादः। इकार उच्चारणार्थः। टकारो ङीबर्थः। श्राणा नियुक्तमस्मै दीयते श्राणिकः। श्राणिकी। मांसौदनिकः। मांसौदनिकी। अथ ठञेव कस्माद् नोक्तः, न ह्यत्र ठञष्टिठनो वा विशेषोऽस्ति? मांसौदनग्रहणं संघातविगृहीतार्थं केचिदिच्छन्ति। तत्र वृद्ध्यभावो विशेषः। ओदनिकः। ओदनिकी॥

Siddhanta Kaumudi

श्राणा नियुक्तं दीयतेऽस्मै श्राणिकः । श्राणिकी । मांसौदनग्रहणं संधातविगृहीतार्थम् । मांसौदनिकः । मांसिकः । ओदनिकः ॥

Balamanorama

श्राणामांसौदनाट्टिठन् - श्राणामांस ।तदस्मै दीयते नियत॑मित्येव । श्राणा=यवागूः ।यवागूरुष्णिका श्राणा विलेपी तरला च से॑त्यमरः । टित्त्वं ङीबर्थम् । तदाह — श्राणिकीति । सङ्घातविगृहीतार्थमिति । ठकैव सिद्धे ‘ओदनिक’ इत्यत्र आदिवृद्ध्यभावार्थं प्रत्ययान्तरविधानमिति भावः ।

Tattvabodhini

श्राणामांसौदनाट्टिठन् - श्राणा ।यवागूरुष्णिक श्राणा विलेपी तरला च से ॑त्यमरः । टिठनिति । इकार उच्चारणार्थः । टो ङीबर्थः । सङ्घातविगृहीतार्थमिति ।ओदनिक॑इत्यत्र हि वृद्धिनिवारणाऽयं टिठन्नारब्धः । अन्यथा लाघवाट्ठञमेव ब्राऊयादिति भावः ।

Padamanjari

‘श्रा पाके’ क्तः, क्षीरहविषोरेव निपातनाच्छभावाभावे’संयोगादेरातो धातोः’ इति निष्टातकारस्य नकारः । श्राणा उ यवागूः । मांसमिश्र ओदनो मांसौदनः । ठञेव कस्मान्नोक्त इति । लाघावात्स एव युक्तो वक्तुमिति भावः । न ह्यत्रेति । द्वे अप्येते प्रकृती पूर्वमेव वृद्धे, योऽपि’वृद्धिनिमितस्य’ इति पुंवद्भावप्रतिषेधः, स टिठन्यपि’न कोपधायाः’ इति भवति । मासौदनग्रहणमित्यादि । ठञ्येव वक्तव्ये टिठनो वचनमेवात्र प्रमाणमिति तेषां भावः ॥

Nyaas

अथ ठञेव कस्मान्नोक्तः इति। एव हि लघु सूत्रं भवतीति भावः। स्यादेतत् - ठञ्टिठनोर्विशेषोऽस्ति, अतष्टिन्नुक्तो न ठञ्? इत्यत आह - न ह्यत्र इत्यादि। द्व्योरप्यनयोर्वृद्धत्वान्नास्ति विशेषः। योऽपि वृद्धिनिमित्तस्य (6.3.38) इत्यादिना ठञि पुंवद्भावप्रतिषेधः, तसय् न कोपधायाः (6.3.37) इति टिठ्न्नप्यभावान्नात्र ठञ्टिठनोः कश्चिद्विशेषोऽस्ति। मांसौदन इत्यादिना विशेषं दर्शयति।केचित् इति वचनाद्विगृहीतग्रहणं केचिन्नेच्छनतीत्येतदुक्तं भवति। तन्मते ठञेव वक्तव्यः। टिठत्वचनं वैचित्र्यार्थ वेदितव्यम्॥

Prakriyasarvasvam

टो ङीबर्थः । इकार उक्त्यर्थः । श्राणास्मै नियतं दीयत इति श्राणिकः । मांसौदनिकः । व्यस्ताच्च । मांसिकः । ओदनिकः ॥

Vartika

मांसौदनग्रहणं संघातविगृहीतार्थम् ।