44038: आक्रन्दाट्ठञ्च¶
Padacheda: आक्रन्दात् | S | 5 | 1 |
ठञ् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
‘धावति’ अस्मिन् अर्थे द्वितीयासमर्थात् आक्रन्दशब्दात् ठञ् तथा ठक् प्रत्ययौ भवतः ।
‘आक्रन्द’ इति कस्यचन देशस्य नाम । यस्मिन् देशे नित्यमाक्रन्दनं श्रूयते, तस्य अभिधानम् ‘आक्रन्द’देशः । दुःखिनां रोदनस्थानम् इत्याशयः । अस्मात् शब्दात् ‘धावति’ अस्मिन् अर्थे ठक्-प्रत्ययः तथा ठञ्-प्रत्ययः - द्वावपि भवतः । आक्रन्दं धावति सः आक्रन्दिकः । ज्ञातव्यम् - ठक् तथा ठञ् - द्वयोः प्रत्यययोः प्रयोगेण ‘आक्रन्दिक’ एतत् समानमेव रूपं जायते । परन्तु द्वयोः रुपयोः स्वरे भेदः अस्ति । ठञ्-प्रत्ययान्तः ‘आक्रन्दिक’ शब्दः ञ्नित्यादिर्नित्यम् (6.1.197) इत्यनेन आद्युदात्तः भवति, तथा ठक्-प्रत्ययान्तः ‘आक्रन्दिक’शब्दः कितः (6.1.165) इत्यनेन अन्तोदात्तः भवति ।
Vasu English Summary¶
The affixes ठञ् and ठक् come after the word आक्रन्द being in the Accusative -2nd case in construction in the sense of ‘who runs’.
Vasu English Translation¶
The affixes ठञ् and ठक् come after the word आक्रन्द being in the Accusative -2nd case in construction in the sense of ‘who runs’. The word आक्रन्द means ‘a place where persons weep’ e.g. a battle - field. It also means ‘weeping’ ‘invoking’ &c. The difference between ठक् and ठञ् in the accent. Thus आक्रन्दं धावति = आक्रन्दिकः꣡ or आ꣡क्रन्दिकः, f. आक्रन्दिकी ‘a person who runs to a place where cries of distress are heard’.
Kashika¶
आक्रन्दन्त्येतस्मिन्नित्यक्रन्दो देशः। अथवाक्रन्द्यत इत्याक्रन्द आर्तायनमुच्यते। विशेषाभावाद् द्वयोरपि ग्रहणम्। आक्रन्दशब्दात् तदिति द्वितीयासमर्थाद् धावतीत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति, चकारात् ठक् च। स्वरे विशेषः। आक्रन्दं धावति आक्रन्दिकः। आक्रन्दिकी॥
Siddhanta Kaumudi¶
अस्माट्ठञ् स्याच्चाट्ठक् धावतीत्यर्थे । आक्रन्दं दुःखिनां रोदनस्थानं धावति आक्रन्दिकः ॥
Balamanorama¶
आक्रन्दाट्ठञ्च - आक्रन्दाट्ठञ्च । अस्मादिति । आक्रन्दशब्दाद्द्वितीयान्तादित्यर्थः । आकन्दन्ति । अस्मिन्नत्याक्रन्दः । तदाह — रोदनस्थानमिति ।
Padamanjari¶
आक्रन्दो देश इति । दुः खितानां रोदनस्यायनमार्तायनमुच्यते, आर्तैरीयते प्राप्यत इति कृत्वा । आर्तायनमार्तानां त्राता आक्रन्द इत्युच्यते, आक्रन्द्यते आर्तैराहूयत इति कृत्वा ॥
Nyaas¶
आर्तायनम् इति। परित्राणार्थमीयते गम्यत इत्ययनम्, आर्तानामयनमार्तायनम्। शरणमित्यर्थः॥
Prakriyasarvasvam¶
ठक् च स्यात् । <karika> आक्रन्द्यतेऽत्रेत्याक्रन्दो रोदवान् देश उच्यते । आक्रन्दत्येनमित्यार्तत्राताप्याक्रन्द ईरितः ॥ २७४ ॥ आक्रन्ददेशमाधावन् पार्थ आक्रन्दिकोऽभवत् । तं रक्षितारं धावन्त आसन् आक्रन्दिका द्विजाः ॥ २७५ ॥ </karika>