44020: क्त्रेर्मम् नित्यम्

Padacheda: क्त्रेः | S | 5 | 1 |

मप् | S | 1 | 1 |

नित्यम् | S | 1 | 1 |

Sutrartha

‘निर्वृत्तम्’ अस्मिन् अर्थे ‘क्त्रि’प्रत्ययान्तशब्देभ्यः मप्-प्रत्ययः भवति ।

‘क्त्रि’ इति कश्चन कृत्-प्रत्ययः । यस्मिन् धातौ औपदेशिक-अवस्थायाम् ‘डु’ इति इत्संज्ञकः अस्ति, तेभ्यः भावार्थे ड्वितः क्त्रिः (3.3.88) अनेन सूत्रेण ‘क्त्रि’ इति प्रत्ययः विधीयते । यथा - डुपचष् + क्त्रि = पक्त्रि ।एतादृशात् क्त्रि-प्रत्ययान्त-प्रातिपदिकात् ‘निर्वृत्तम्’ अस्मिन् अर्थे ‘मप्’ इति प्रत्ययः विधीयते । यथा - 1. डुपचष् + क्त्रि = पक्त्रि (= पचनक्रिया )। पचनक्रियया निर्वृत्तम् = पक्त्रि + मप् → पक्त्रिम । 2. डुकृञ् + क्त्रि = कृत्रि (कृतिः / क्रिया इत्यर्थः) । कृत्या / क्रियया निर्वृत्तम् = कृत्रि + मप् → कृत्रिम । अस्मिन् सूत्रे ‘नित्यम्’ इति उक्तमस्ति । अस्य स्पष्टीकरणार्थं काशिकाकारः वदति - ‘नित्यग्रहणं स्वातन्त्र्यनिवृत्त्यर्थम्, तेन त्र्यन्तं नित्यं मप्प्रत्ययान्तमेव भवति, विषयान्तरे न प्रयोक्तव्यम्’ । इत्युक्ते, ‘क्त्रि’ प्रत्ययान्तशब्दः नित्यम् मप्-प्रत्ययेन सह एव प्रयोक्तव्यः, अन्यथा न । केवलं ‘पक्त्रि’, ‘कृत्रि’ एतादृशानां शब्दानाम् प्रयोगः न करणीयः, नित्यम् ‘पक्त्रिम’, ‘कृत्रिम’ एतादृशम् ‘मप्’ प्रत्ययेन सह एव प्रयोगः कर्तव्यः - इति अस्य आशयः । अतः विग्रहवाक्ये अपि ‘पचनक्रियया निर्वृत्तम् पक्त्रिमम्’ इत्येव उच्यते, न हि ‘पक्त्र्या निर्वृत्तम्’ इति । अत्र एकम् वार्त्तिकमपि ज्ञातव्यम् - <!भावप्रत्ययान्तात् इमप् वक्तव्यः!> । इत्युक्ते, ‘क्रियायाः भावः’ अस्मिन् अर्थे यदि कञ्चन कृत्-प्रत्ययं प्रयोज्य प्रातिपदिकनिर्माणं क्रियते, तर्हि तस्मात् कृदन्तात् ‘तेन निर्वृत्तम्’ अस्मिन् अर्थे इमप्-प्रत्ययः भवति । यथा - 1. पचनक्रियायाः भावः = पच् + घञ् → पाक । पाकेन निर्वृत्तम् = पाक + इमप् → पाकिम । 2. त्यज् + घञ् → त्याग । त्यागेन निर्वृत्तम् → त्यागिम । ज्ञातव्यम् - प्राग्दीव्यतीय-अधिकारे तेन निर्वृत्तम् (4.2.68) इति किञ्चन सूत्रमस्ति । परन्तु तस्य प्रयोगः भिन्नेभ्यः प्रातिपदिकेभ्यः भवति, तथा केवलं देशस्य नाम्नः निर्देशार्थम् एव भवति । सः अर्थः भिन्नः, अयमर्थः भिन्नः ।

Vasu English Summary

The affix मप् comes always after the words ending in the affix त्रि, in the sense of ‘completed thereby’.

Vasu English Translation

The affix मप् comes always after the words ending in the affix त्रि, in the sense of ‘completed thereby’. The त्रि here refers to the affix ‘ktri’ (3.3.88). Thus the root डुपच् takes त्रि and forms पक्त्रि, which is not a complete word, but must take the augment मप्, to form a full word. Thus पच् + क्त्रि + मप् = पक्त्रिमम् ‘what is completed by being cooked’. So from डुवप् we have वप् + क्त्रि + मप् = उप्त्रिमम् (VI.I.I5): from डुकृञ् we have कृत्रिमम् ॥

The word नित्य in the sutra indicates that the affix क्त्रि never comes singly by itself, all words ending in ‘Ktri’ are invariably followed by मप् also. In fact मप् way be regarded as an invariable augment of the affix ‘Ktri’.

Vart:- After a word ending in an affix denoting ‘condition’, the affix इमप् is added. Thus पाकेन निर्वृत्तं = पाकिमम् (पच् + घञ् (3.3.18) + इमप्), so त्यागिमम्, सेकिमम्, कुट्टिमम् ॥

Kashika

निर्वृत्त इत्येव। ड्वितः क्त्रिः (३.३.८८) इत्ययं त्रिशब्दो गृह्यते। त्र्यन्ताद् नित्यं मप् प्रत्ययो भवति तेन निर्वृत्त इत्येतस्मिन्नर्थे। डुपचष् पाके — पक्त्रिमम्। डुवप् — उप्त्रिमम्। डुकृञ् — कृत्रिमम्। नित्यग्रहणं स्वातन्त्र्यनिवृत्त्यर्थम्। तेन त्र्यन्तं नित्यं मप्प्रत्ययान्तमेव भवति, विषयान्तरे न प्रयोक्तव्यमिति॥ भावप्रत्ययान्तादिमब् वक्तव्यः॥ पाकेन निर्वृत्तं पाकिमम्। त्यागिमम् सेकिमम्। कुट्टिमम्॥

Siddhanta Kaumudi

त्रिप्रत्ययान्तप्रकृतिकात्तृतीयान्तान्निर्वृत्तेऽर्थे मप्स्यान्नित्यम् । कृत्या निर्वृत्तं कृत्रिमम् । पक्त्रिमम् ।<!भावप्रत्ययान्तादिमब्वक्तव्यः !> (वार्तिकम्) ॥ पाकेन निर्वृत्तं पाकिमम् । त्यागिमम् ॥

Laghu Siddhanta Kaumudi

क्त्रिप्रत्ययान्तात्मप् निर्वृत्तेऽर्थे। पाकेन निर्वृत्तं पक्त्रिमम्। डुवप् उप्त्रिमम्॥

Balamanorama

क्त्रेर्मम् नित्यं - त्रेर्मम्नित्यम् । तेन निर्वृत्तमित्यर्थेड्वितः क्रि॑रिति क्रिप्रत्ययान्तान्नित्यं मप्प्रत्ययः स्यादित्यर्थः ।समर्थानां प्रथमाद्वे॑ति महाविकल्पनिवृत्त्यर्थं नित्यग्रहणात् । ततश्च अस्मिन्नर्थे मप्प्रत्ययं विना क्रियप्रत्ययान्तस्य प्रयोगो नेति भाष्ये स्पष्टम् । एवं चात्र अस्वपदविग्रहं दर्शयति — कृत्या निर्वृत्तमिति । अत्र विग्रहवाक्येस्त्रियां क्तिन्नि॑ति क्तिन्नन्तोऽयं कृतिशब्दः । कृत्रिममिति । ‘डुकृञ् करणे’ इति धातोःड्वितः क्रि॑रिति क्रिप्रत्ययान्तान्मप् । पक्रिममिति । पक्त्या निर्वृत्तमित्यस्वपदविग्रहः । ‘डुपचष् पाके’ इत्यस्मात्क्रियप्रत्ययान्तान्मप् । इमब्वक्तव्य इति । निर्वृत्तमित्यर्थे तृतीयान्ता॑दिति शेषः । अत्र नित्यमिति न संबध्यते इत्यभिप्रेत्य लौकिकस्वपदविग्रहं दर्शयति — पाकेन निर्वृत्तमिति ।

Tattvabodhini

क्त्रेर्मम् नित्यं - त्रेर्मम्नित्यम् । नित्यग्रहणं स्वातन्त्र्येण प्रयोगं वारयितुम् । अतएव लौलिके विग्रहवाक्येक्तिन्नदीनां प्रयोगो , न तु त्रेः, तदाह -कृत्या निर्वृत्तमिति । एवमग्रेऽपि पाकेन निर्वृत्तमिति विग्रहो बोध्यः । सङ्ख्यावाची त्रिशब्दो नेह गृह्रते, प्रत्ययाऽप्रत्यययोः प्रत्ययस्यैव ग्रहणात्,णिजां त्रयाणा॑मिति लिङ्गाच्च । ननु नित्यग्रहणेन निर्वृत्तार्थविवक्षायां मपं विना त्रिप्रत्ययान्तस्य प्रयोगनिवारणेऽपि तदविवक्षायां तस्य स्वातन्त्र्येण प्रयोगो दुर्वार इति चेत् । न ।नित्य॑मिति योगं विभज्य तत्सामर्थ्यादर्थ विशेषानादरेणैव स्वातन्त्र्यवारणात् । इमबिति । एवं च मप् कर्तव्यः ।भावप्रत्ययान्तादिमब्वक्तव्यः । तथा हि -॒भावप्रत्ययान्तादिमप् । ततःत्रेः॑ । पूर्वेण सिद्धे नियमार्थमिदं, -त्रिप्रत्ययान्त इमब्विषय एवेति । तेन त्रिपत्ययान्तस्य प्रयोगो निवर्तते । ततोनित्यम् । अनेन निर्वृत्तार्थाऽविवक्षायामपि त्र्यन्तस्य स्वातन्त्रं वार्यते । एवं च सङ्ख्यावाचित्रिशब्दस्य ग्रहणशङ्कैव नास्ति,भावप्रत्ययान्ता॑दित्यनुवृत्तेः । स्वरेऽपि विशेषो नास्ति, उदात्तनिवृत्तिस्वरेण इमप इकारस्योदात्तत्वात् ।

Padamanjari

ड्वितः क्त्रिरित्ययं त्रिशब्दो गृह्यत इति । सङ्ख्यावचनस्त्वनभिधानान्न गृह्यते । उप्त्रिममिति । वच्यादिसूत्रेण संप्रसारणम् । नित्यगंरहणं स्वातन्त्र्यनिवृत्यर्थमिति । प्रत्ययरहितस्य त्र्यन्तस्य प्रयोगः स्वातन्त्र्यम्, स्वातन्त्र्यनिवृतौ सत्यां यो गुणस्तं दर्शयति - त्र्यन्तं नित्यं मप्प्रत्ययान्तमेव भवतीति । एवकारव्यवच्छेद्यं दर्शयति - विषयान्तरे न प्रयोक्तव्यमिति । ननु विभाषया वाक्ये प्रसक्ते नित्यग्रहणं क्रियमाणं निर्वृताधैकारे तद्विषयमेव वाक्यं निवर्तयितुमर्हति - पक्त्रिणा निर्वृतमिति, यथा - ठन उपधालोपिनोन्यतरस्याम्ऽ’नित्यं संज्ञाच्छन्दसोः’ इति, ततश्च विषयान्तरगतत्र्यन्तस्य स्वातन्त्र्यं स्यादेव कृत्रिमर्हत्सुविहितमिति ? एवं मन्यते - योगविभागोऽत्र कर्तव्यः,’त्रेर्मब्भवति निर्वृते’ इत्येको योगः, ततः’नित्यम्’ । अत्र त्रेर्मबित्येवापेक्ष्यते न निर्वृत इति; योगविभागसामर्थ्यात् । तेन सर्वविषयस्वातन्त्र्यस्य नित्यग्रहणेन निवृत्तिः क्रियत इति । नन्वेवमपि’नित्यम्’ इत्यत्र निर्वृतमित्यस्यानपेक्षणात्स्वातन्त्र्यान्तरे । नित्यमुपाधिः प्राप्नोति ? सत्यम् ; अनभिधानातु तथानाश्रीयते । भावप्रत्ययान्तादिमब् वक्तव्य इति ।’तेन निर्वृतम्’ इत्येतस्मिन्नर्थे । पाकेन निर्वृतं पाकिममिति । एवं च त्र्यन्तादपि भावाभिधायिन इमपि कृते यस्येति लोपे च कृत्रिममित्यादि सिद्धं भवति, स्वरेऽपि नास्ति विशेषः, उदातनिवृत्तिस्वरेणैवोदातत्वम् । सूत्रारम्भस्तु नित्यग्रहणेन स्वातन्त्र्यं निवर्तयिष्यामीत्येवमर्थे वेदितव्यः ॥

Nyaas

डिवतः क्त्रिरित्ययं त्रिशब्दो गृह्रते इति। संख्याशब्दः कस्मान्न गृह्रते??नभिधानात्। न हि त्रिरित्युच्यते विवक्षितार्थस्य प्रतीतिर्भवति। उप्त्रिमम् इति। वचिस्वपियजादीनां किति (6.1.15) इति सम्प्रसारणम्।नित्यग्रहणं स्वातन्त्र्यनिवृत्त्यर्थम् इति। केवलस्य त्रिप्रत्ययान्तस्य मप्प्रत्ययरहितस्य प्रयोगः स्वातन्त्र्यम्, तन्निवृत्त्यर्थं नित्यग्रहणम्। स्वातन्त्रनिवृत्त्यर्थे नित्यग्रहणे सति योऽर्थः सम्पद्यते तं {त्र्यन्तः - मु।पाठः} त्र्यन्तम् इत्यादिना दर्शयति। विषयान्तरे इत्यादिना यदेवकारस्य व्यवच्छेद्यं तदाचष्टे। मप्प्रत्ययविषयार्थादन्यविषये यत्र प्रत्ययो न भवति तद्वि यान्तरम्। नित्यग्रहणं तन्निवृत्तिर्यथा स्यादित्येवमर्थं वेदितव्यम्॥

Prakriyasarvasvam

त्र्यन्तात् तेन निवृत्तमित्यर्थे तद्धितो मप् स्यात् । नित्योक्तेर्मपा सहैव त्र्यन्तस्य प्रयोगः । करणेन निर्वृत्तं कृत्रिमम् । एवं डुक्रीञ्, क्रीत्रिमम् ॥

Vartika

भावप्रत्ययान्तादिमब्वक्तव्यः ।

Sutra Prayogas

  • तुलितकृत्रिमभक्तिशोभाः (रघुवंशम्): क्त्रेर्मम्नित्यम् इति मबागमः।

  • कृत्रिमपुत्रकैश्च (कुमारसम्भवम्): क्त्रेर्मम्नित्यम् इति ममागमश्च।

  • अकृत्रिमप्रेमरसाभिरामं (किरातार्जुनीयम्): त्रेर्मम्नित्यम् इति मम्प्रत्ययः।