43164: प्लक्षादिभ्योऽण्¶
Padacheda: प्लक्ष-आदिभ्यः | S | 5 | 3 |
अण् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix अण् comes in the sense of ‘product or part, it being a fruit’ after the words प्लक्ष etc.
Vasu English Translation¶
The affix अण् comes in the sense of ‘product or part, it being a fruit’ after the words प्लक्ष etc. This debars अञ् ॥ Thus प्लाक्षम्, नैयग्रोधम् ॥
1 प्लक्ष 2 न्यग्रोध, 3 अश्वत्थ, 4 इङ्गुदी, 5 शिग्रु, 6 रुरु, 7 कक्षतु ( कर्कन्धु, कर्कन्तु ऋक्रतु) 8 बृहती. ॥
Kashika¶
फल इत्येव। प्लक्षादिभ्यः प्रातिपदिकेभ्यः फले विकारावयवत्वेन विवक्षितेऽण् प्रत्ययो भवति। अञोऽपवादः। विधानसामर्थ्यात् तस्य न लुग् भवति। प्लाक्षम्। नैयग्रोधम्॥ प्लक्ष। न्यग्रोध। अश्वत्थ। इङ्गुदी। शिग्रु। कर्कन्धु। बृहती। प्लक्षादिः॥
Siddhanta Kaumudi¶
विधानसामर्थ्यान्न लुक् । प्लाक्षम् ॥
Balamanorama¶
प्लक्षादिभ्योऽण् - प्लक्षादिभ्योऽण् । विकारे अवयवे चे॑ति शेषः । तत्र शिग्रुकर्कन्धूशब्दयोरुवर्णान्तत्वादञि प्राप्ते, प्लक्षन्यग्रोधादीनामनुदात्तादित्वादञि प्राप्तेऽण्विधिः । नन्वस्य फले अणो लुक्कुतो नेत्यत आह — विधानेति ।
Tattvabodhini¶
प्लक्षादिभ्योऽण् - प्लक्षादिभ्योऽण् । अञोऽपवादः । शिग्रुकर्कन्धूशब्दाभ्याम्ओर॑ञिति, अन्येभ्यस्त्वनुदात्तादित्वादञः प्राप्तिः । प्लक्ष न्याग्रोध अआत्थ इङ्गुदी शिग्रु कर्कन्धू बृहती । तत्र प्लक्षशब्दःफिषः॑इत्यन्तोदात्तः । न्ग्रोधशब्दोलघावन्ते॑ इति मध्योदात्तः । अआत्थशब्दस्तु घृतादित्वादन्तोदात्तः । इङ्गुदीबृहतीशब्दौ गौरादिङीषन्तौ ।आआत्थवैणवप्लाक्षनैयग्रोधैङ्गुदं फले॑इत्यमरः ।
Padamanjari¶
अञोऽपवाद इति । शिग्रु-काक्षतुशब्दाभ्यामुवर्णान्तलक्षणस्य, शेषेभ्यस्त्वनुदातल7णस्य । तत्र प्लक्षशब्दः’फिषः’ इत्यन्तोदातः, फिषिति प्रातिपदिकस्य नाम । न्यग्रोधशब्दः’लघावन्ते’ इति मध्योदातः । अश्वत्थशब्दो घृतादित्वादन्तोदातः । इड्गुदीबृहतीशब्दौ गौरादिङीषन्तौ । विधानसामर्थ्यादिति । यद्यस्य लुक् स्याद्विधानमनर्थकं स्यात् । न ह्यणोऽञो वा लुकि कृते कश्चिद्विशेषः । नैयग्रोधमिति । न्यग्रोधस्य च’केवलस्य’ इत्यैजागमः ॥
Nyaas¶
कः पुनर्लुपि सति विशेषो यतो लुकि प्रकृते स विधीयते? इत्याह - युक्तवद्भावो विशेषः इति। लुपि सति युक्तवद्भावो भवति लुपि युक्तवद्व्यक्तिवचने (1.2.51) इति, लुपि सत्येव विशेष इति। जम्बूः फलम् इति। अत्र युक्तवद्भावेन प्रकृतिगतमेव लिङ्गं भवति, तेन नपुंसकलिङ्गं न प्रवर्तते।लुप्प्रकरणे इत्यादि। फलपाकेन शुष्यन्तीति फलपाकशुषः। अन्येभ्योऽपि दृश्यते (3।3130) इति क्विप्। व्रीहयः, मुद्गाः इति। बिल्वादिभ्योऽणो (4.3.134) लुप्। यवाः, माषाः`इति। अत औत्सर्गिकस्याणः। एते `तृणधान्यानाम् (फि।सू।2।27) इत्यादिनाद्युदात्ताः।पुष्पमूलेषु बहुलम् इति। पुष्पमूलेषु चाभिधेयेषु बहुलं लुब्भवति। मल्लिका,वनमल्लिका, जातिः, विदारी, अंशुमती, बृहती -अत्रानुदात्तादिलक्षणस्याञो लुप्। मल्लिकानवमल्लिकाशब्दौ लघावन्ते द्वयोश्च बह्वषो गुरुः (फि।सू।2।42) इति मध्योदात्तौ। जातिशब्दश्च क्विच्क्तौ च संज्ञायाम् (3.3.174) इति क्तिच्प्रत्ययान्तत्वादन्तोदात्तः। बदरीबृहतीशब्दावपि गौरादिङीषन्तत्वादन्तोदात्तावेव। अंशुमतीशब्दः उगितश्च (6.3.45) इति ङीबन्तः। अंशुशब्दस्य प्रातिपदिकस्वरेणान्तोदात्तत्वान्मध्योदात्तः। पाटलानि इति। बिल्वादित्वादण्। शाल्वानि मूलानि इति। शाल्वानीत्यनुदात्तादिलक्षमोऽढ। शाल्वशब्दः प्रातिपदिकस्वरेणान्तोदात्तः। शाल्व इति =शाक इति यस्य प्रसिद्धिः। क्वचिदन्यदपि इति। लुपोऽन्यत्रापि क्वचित् कार्यं भवति। तत्पुर्लुक्लुपोरभावश्च। कदम्बकम् इत्यादावनुदात्तलक्षणस्याञो लुक्। कदम्बादयः शब्दा लघावन्ते (फि।सू।2।42) इत्यादिना मध्योदात्ताः। बल्वानि इति। अत्रोभयाभावः। बिल्वादिभ्योऽण् (4.3.136) । एतत्तु सर्व हरीतक्यादिपाठादेव सिद्धमिति नापूर्व वक्तव्यम्। यतो हरीतक्यादिषु येषाञ्च फलपाक निमित्तः शोषः; पुष्पमूलेष#उ बहुलम् (4.3.165) इति पठन्ते॥