43119: क्षुद्राभ्रमरवटरपादपादञ्¶
Padacheda: क्षुद्रा-भ्रमर-वटर-पादपात् | S | 5 | 1 |
अञ् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix अञ् comes after the words 1. क्षुद्रा 2. भ्रमर 3. वटर and 4. पादप in the sense of ‘made by him’, the whole word being a Name.
Vasu English Translation¶
The affix अञ् comes after the words 1. क्षुद्रा 2. भ्रमर 3. वटर and 4. पादप in the sense of ‘made by him’, the whole word being a Name. This debars अण्, there being difference in accent between अण् and अञ् ॥ Thus क्षुद्राभिः कृतम् = क्षौद्रम् ‘honey’ lit ‘made by a small bee’. So also भ्रामरम्, वाटरम् and पादपम् ॥
Kashika¶
तेन, कृते, संज्ञायामिति सर्वमनुवर्तते। क्षुद्रादिभ्योऽञ् प्रत्ययो भवति तेन कृत इत्येतस्मिन् विषये संज्ञायां गम्यमानायाम्। अणोऽपवादः। स्वरे विशेषः। क्षुद्रादिभिः कृतं क्षौद्रम्। भ्रामरम्। वाटरम्। पादपम्॥
Siddhanta Kaumudi¶
तेन कृते संज्ञायाम् । क्षुद्राभिः कृतं क्षौद्रम् । भ्रामरम् । वाटरम् । पादपम् ॥
Balamanorama¶
क्षुद्राभ्रमरवटरपादपादञ् - क्षुद्राभ्रमर ।तेन कृते संज्ञाया॑मिति-सेषपूरणम् । क्षुद्राः=मधमक्षिकाः ।
Padamanjari¶
अणोऽपवाद इति । बाहुल्यादेवमुक्तम्, पादपशब्दाद्धि च्छः प्राप्नोति । अन्ये तु पादपशब्दस्य स्थाने पदपशब्दं पठन्ति ॥
Nyaas¶
स्वरे विशेषः इति। अणि हि प्रत्ययस्वरेणान्तोदात्तत्वं स्यात्। अञि तु सति ञित्स्वरेणाद्युदात्तत्वं भवति॥
Prakriyasarvasvam¶
नाम्न्येव । क्षुद्राभिः कृतं क्षौद्रं मधु । भ्रामरं मधु । वाटरम् । पादपम् ॥
Sutra Prayogas¶
क्षौद्रपटलैरिव (रघुवंशम्): क्षुद्राभ्रमरवटरपादपादञ् इति संज्ञायामञ्प्रत्ययः।
भ्रामरं (भट्टिकाव्यम्): क्षुद्राभ्रमर इति अञ्।