43100: जनपदिनां जनपदवत् सर्वं जनपदेन समानशब्दानां बहुवचने¶
Padacheda: जनपदिनाम् | S | 6 | 3 |
जनपदवत् | S | 0 | 0 |
सर्वम् | S | 1 | 1 |
जनपदेन | S | 3 | 1 |
समान-शब्दानाम् | S | 6 | 3 |
बहुवचने | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
Of words denoting Princes (literally - who are Lords of जनपद) the base and affix meaning ‘this is his object of veneration’ are the same, in every respect, like those of a word denoting kingdom, provided that, the Prince-denoting words have, in the plural, the same form as the Kingdom-denoting words.
Vasu English Translation¶
Of words denoting Princes (literally - who are Lords of जनपद) the base and affix meaning ‘this is his object of veneration’ are the same, in every respect, like those of a word denoting kingdom, provided that, the Prince-denoting words have, in the plural, the same form as the Kingdom-denoting words. The words of this sutra require a detailed analysis. जनपदिनाम् gen. plural of जनपदिन् meaning ‘Iord of an inhabited country’ i. e. Kshatriya Princes, बहुवचने ‘in the plural’, जनपदेन समान शब्दानां ‘the same form as the jana- pada denoting word’, जनपदवत् सर्वम् ‘every thing is like jana-pada’. In other words, ‘after those bases denoting Kshatriya Princes which in the plural have the same forms as the names of the countries, the affix in the sense of veneration will be the same as will come after a janapada word.’ Now the affixes denoting भक्ति as regards जनपद words are given in Sutras (4.2.124) &c. and those affixes will apply here. Thus अङ्गा जनपदो भक्तिरस्य = आङ्गकः formed by वुञ् of Sutra (4.2.125), meaning ‘who loves the country of Angas’ Similarly वाङ्गकः, सौह्मकः पौन्द्रकः ॥
Similarly अङ्गाः क्षत्रिया भक्तिरस्य = आङ्गकः formed by the same affix वुञ्, with this difference of meaning ‘who loves the Kshatriyas called Angas’. So वाङ्गकः, सौह्मकः &c.
Why do we say ‘of Kshatriya Princes’; (janapadinam). Observe, पंचाला ब्राह्मणा भक्तिरस्य = पांचालाः ॥ Here the general affix अण् is employed.
The word सर्व is used in the sutra to show that not only the affixes are the same, but the bases to which the affixes are added will be the same. In the plural, the Kshatriya and the Janapada bases have the same form, but in the singular and dual, the forms of Kshatriya-bases are different. Thus मद्रस्यापत्यं = sing. माद्रः (4.1.170) dual, माद्रौ pl. मद्राः. The form मद्राः denotes both ‘the Kings or Kshatriyas of Madras’ as well as ‘the country called Madras’. Thus मद्रो भक्तिरस्य = मद्रकः ॥ So also in the singular and dual, मद्राः will be the base to which the affix will be added. Thus माद्रो भक्तिरस्य माद्रौ वा भक्तिरस्य = मद्रकः ॥ Similarly वार्ज्य (from वृजि (4.1.171)), as वार्ज्यो वा भक्तिरस्य वार्ज्यौ वा भक्तिरस्य = वृजिकः ॥
Why do we say जनपदेन समान शब्दानाम् ‘the word having the same sound as the janapada word’? Thus अनुषण्डो जनपदः, पौरवो राजा स भक्तिरस्य = पौरवीयः ॥ Here Paurava and Anushanda have not the same sound.
The word बहुवचने is used in the sutra, to indicate, that, though the समान शब्दता or ‘the similarity of word-form’, occurs in the plural number only, yet this atidesa rule applies to the same words in the singular and dual also. For in the plural, the form will be same, because there the Tadraja affix is elided; but in the singular and dual, the Tadraja affix is not elided, and therefore, the word denoting a principality and the word denoting a prince will not have the same form; but this rule applies there also. As वाङ्गः or वाङ्गौ भक्तिरस्य वाङ्गकः ॥
Bhashya¶
जनपदिनां जनपदवत्सर्वं जनपदेन समानशब्दानां बहुवचने (1670) (प्रत्ययातिदेशाधिकरणम्) (सर्वशब्दाक्षेपे भाष्यम्) सर्ववचनं किमर्थम्? (5497 आक्षेपनिराकरणवार्तिकम्॥ 1 ॥) - सर्ववचनं प्रकृतिनिर्ह्रासार्थम् - (भाष्यम्) सर्ववचनं क्रियते प्रकृतिनिर्ह्रासार्थम्। प्रकृतिनिर्ह्रासो यथा स्यात्॥ (5498 प्रयोजनवार्तिकम् ॥ 2 ॥) (भाष्यम्) तच्च मद्रवृज्यर्थं द्रष्टव्यम्। माद्रो भक्तिरस्य माद्रौ वा भक्तिरस्य -मद्रक इत्येव यथा स्यात्। वार्ज्यो भक्तिरस्य वार्ज्यौ वा भक्तिरस्य -वृजिक इत्येव यथा स्यात्॥
Kashika¶
जनपदिनो ये बहुवचने जनपदेन समानशब्दाः, तेषां जनपदवत् सर्वं भवति, प्रत्ययः प्रकृतिश्च, सोऽस्य भक्तिरित्येतस्मिन् विषये। जनपदतदवध्योश्च (४.२.१२४) इत्यत्र प्रकरणे ये प्रत्यया विहिताः, ते जनपदिभ्योऽस्मिन्नर्थेऽतिदिश्यन्ते। जनपदिनो जनपदस्वामिनः क्षत्रियाः। अङ्गा जनपदो भक्तिरस्य आङ्गकः। वाङ्गकः। सौह्मकः। पौण्ड्रकः। तद्वदङ्गाः क्षत्रिया भक्तिरस्य आङ्गकः। वाङ्गकः। सौह्मकः। पौण्ड्रकः। जनपदिनामिति किम्? पञ्चाला ब्राह्मणा भक्तिरस्य पाञ्चालः। सर्वग्रहणं प्रकृत्यतिदेशार्थम्, स च द्व्येकयोः प्रयोजयति। वृद्धिनिमित्तेषु च वुञादिषु विशेषो नास्तीति। मद्रवृज्योः कनि (४.२.१३१) विशेषः। मद्रस्यापत्यम् द्व्यञ्मगधकलिङ्गसूरमसादण् (४.१.१७०), माद्रः। वृजिशब्दादपि वृद्धेत्कोसलाजादाञ्ञ्यङ् (४.१.१७१), वार्ज्यः। स भक्तिरस्येति प्रकृतिनिर्ह्रासे कृते मद्रकः। वृजिकः। जनपदेन समानशब्दानामिति किम् ? अनुषण्डो जनपदः, पौरवो राजा, स भक्तिरस्य पौरवीयः। बहुवचनग्रहणं समानशब्दताविषयलक्षणार्थम्। अन्यथा हि यत्रैव समानशब्दता तत्रैवातिदेशः स्याद्, एकवचनद्विवचनयोर्न स्यात्, वाङ्गो वाङ्गौ वा भक्तिरस्येति। बहुवचने तु बहुवचने समानशब्दानामेकवचनद्विवचनयोः सत्यपि शब्दभेदेऽतिदेशो भवति। वाङ्गो वाङ्गौ वा भक्तिरस्य वाङ्गकः॥
Siddhanta Kaumudi¶
जनपदस्वामिवाचिनां बहुवचने जनपदवाचिनां समानश्रुतीनां जनपदवत्सर्वं स्यात्प्रत्ययः प्रकृतिश्च । जनपदतदवध्योश्च (SK1348) इति प्रकरणे ये प्रत्यया उक्तास्तेऽत्रातिदिश्यन्ते । अङ्गाजनपदो भक्तिरस्याङ्गकः । अङ्गाः क्षत्रिया भक्तिरस्याङ्गकः । जनपदिनां किम् । पौरवो राजा भक्तिरस्य पौरवीयः ॥
Balamanorama¶
जनपदिनां जनपदवत् सर्वं जनपदेन समानशब्दानां बहुवचने - जनपदिनां । बहुवचने परे ये जनपदे समानशब्दाः=जनपदवाचिशब्देन समानः शब्दः=श्रवणं येषां तथाविधाः, तेषां जनपदिनां=जनपदस्वामिवाचिनां जनपदवत्=जनपदे इव सर्वं स्यादित्यर्थः ।जनपदतदवध्योश्चे॑ति प्रकरणे ये प्रत्यया विहितास्ते भवन्ति, प्रकृतयोऽपि तथैव भवन्तीति तु ‘सर्व’ शब्दाल्लभ्यते । तदाह — जनपदस्वामिवाचिनामित्यादिना । अङ्गा जनपद इति । दृष्टान्तार्थमिदम् । अङ्गनाम्नां राज्ञां निवासो जनपदः-अङ्गाः । ‘जनपदे लुप्’ इति चातुरर्थिकस्य लुप् । स जनपदो भक्तिरस्येत्यर्थेजनपदतदवध्योश्चे॑ति वुञ्प्रत्यये ‘आङ्गकः’ इति यथा तथा अङ्गदेशस्वामिनः क्षत्रिया अङ्गा भक्तिरस्येत्यर्थे क्षत्रियवाचकादङ्गशब्दाद्वुञि ‘आङ्गका’ इति रूपमित्यर्थः । पञ्चाला ब्राआहृणा इति । अभेदोपचारादिह ब्राआहृणेषु पञ्चालशब्दः । तत्रातिदेशा.ञभावादणेव भवति । पौरव इति । पौरवशब्दो न जनपदवृत्तिरिति भावः । बहुवचने किम् । एकवचनद्विवचनयोः सत्यपि शब्दभेदेऽतिदेशो भवतचि । यथा आङ्गो वा आङ्गौ वा भक्तिरस्य आङ्गक इति । प्रकृतिश्चेति किम् । मद्राणां राजा माद्रः ।द्य्वञ्मगधे॑त्यण् । माद्रो भक्तिरस्येत्यर्थे अतिदेशान्माद्रस्य मद्रत्वे सतिमद्रवृज्यो॑रिति कनि ‘माद्रक’ इति सिध्यति ।
Tattvabodhini¶
जनपदिनां जनपदवत् सर्वं जनपदेन समानशब्दानां बहुवचने - जनपदिनां । स्वस्वामिभावसंबन्धे मत्वर्थयं दर्शयित -जनपदस्वमिवाचिनामिति । प्रत्ययः प्रकृतिश्चेति । अनेन सर्वशब्दस्यार्थो दर्शितः । असति सर्वग्रहणे प्राधान्यात्प्रत्ययस्यैवातिदेशः स्यान्न, तु प्रकृतेरिति हरदत्तःष । अत्र वार्तिककारः सर्वशब्दस्य प्रयोजनमाह -॒सर्ववचनं प्रकृतिनिह्र्यासार्थं, तच्च मद्रवृज्यर्थ॑मिति । अयं भावः -वृद्धिनिमित्तेषु वुञादिष्वतिदिष्टेऽपि प्रकृतिरूपे पुनर्वृद्द्या भाव्यमिति विशेषस्य तत्र दुर्लभत्वान्मद्रवृज्योः कनि विशेषो बोध्यः । सोऽप्यबहुत्वे एवेति । निह्र्यासोऽपचयोऽल्पता । तथा हि मद्राणां राजा ।व्द्यञ्मगधे॑त्यण् । माद्रः । वजिशब्दातच्वृद्देत्कोशले॑ति ञ्यङ् । वार्ज्यः । स भक्तिरस्येति प्रकृतिनिह्र्यासे — मद्रकः । वृजिकः ।मद्रवृज्योः कन् । अन्यथा माद्रकः वाज्र्यक इति स्यात् । आङ्गक इति ।जनपदतदवध्योश्च॑अवृद्धादपी॑ति वुञ् । अङ्गशब्दात्स्वामिवाचिनो बहुवचनान्तादणि प्राप्ते वुञतिदिश्यते । पञ्चाला ब्राआहृणा इति । अभेदोपचारद्ब्राआहृणेषु पञ्चालशब्दस्य वृत्तिः । बहुवचनग्रहणं किम् । एकवचनद्विवचनयोः सत्यपि शब्दभेदे अतिदेशो यथा स्यात् । आह्गः आङ्गौ वा भक्तिस्य आङ्गकः । इह वृद्धाच्छ#ए प्राप्ते वुञ् ।
Padamanjari¶
जनपदिनाम् जनपदिवाचिनां शब्दानाम् जनपदवत् जनपदवाचिनां शब्दानामिव, जनपदेन जनपदवाचिना शब्देन, समानशब्दानाम् समनश्रुतीनाम्, बहुवचने बह्वर्थाभिधाने । वृतेरप्येष एवार्थः । प्रत्ययः प्रकृतिश्चेति । अनेन सर्वशब्दस्यार्थो दर्शितः । जनपदिनो जनपदस्वामिन इति । स्वस्वामिभावसम्बन्धे मत्वर्थीयं दर्शयति । अङ्गा जनपदा इत्यादिना दृष्टान्ते प्रवृत्तिप्रकारमाह । तद्वदित्यादिना तूदाहरणम् । सर्वत्र बहुष्वर्थेषु’द्व्यञ्मगध’ इत्यादिना विहितस्याणः’तद्राजस्य बहुषु’ इति लुकि कृते समानशब्दादवृद्धादपि बहुवचनेति वुञि विवक्षिते’गोत्रे’ लुगचिऽ इति वचनादाङ्गशब्दाद् वुञ् । पञ्चाला ब्राह्मणा इति । अभेदोपवाराद् ब्राह्मणेषु पञ्चालशब्दस्य वृत्तिः, तत्रातिधेशाभावादणेव भवति । सर्वग्रहणमित्यादि । असति सर्वग्रहणे प्राधान्यात्प्रत्ययस्यैवातिदेशः स्यात्, न प्रकृतेः । वतिनिर्देशस्तु यैर्जनपदैर्ये जनपदिनस्तेषां तज्जनपदप्रत्यय एव यथा स्यात्, जनपदान्तरप्रत्ययो मा भूदित्येवमर्थं स्यात् । न त्वेनन प्रकृत्यतिदेशो लभ्यते, तस्मातदर्थं सर्वग्रहणं क्रियते । स च द्व्येकयोः प्रयोजयतीति पाठः । स च प्रकृत्यतिदेशः सर्वग्रहणं द्व्येकयोः प्रयोजयति, न बहुषु; तत्र रूपस्या भिन्नत्वात् । यदाह -‘बहुवचने समानशब्दानाम्’ इति । द्व्येकयोस्तु जनपदवाचिनो रूपं वृद्धम्, जनपदवाचिनस्त्ववृद्धमिति तत्रैव सर्वग्रहणस्य प्रयोजनमित्यर्थः । अतिदेशः प्रयोजयति, अतिदेशं प्रयोजयतीति वा पाठे न समीचीनमर्थं पश्यामः । वृद्धिनिमितेष्वित्यादि । तत्र ह्यतिदिष्टेऽपि प्रकृतिरूपे पुनर्वृद्ध्या भाव्यमिति नास्ति वेशेषः । मद्रवृज्योः कति विशेष इति । तत्र वृद्ध्यसम्भवात् । प्रकृतिनिर्ह्रासे कृत इति । निर्ह्रासःउअपचयः, अल्पत्वमित्यर्थः । मद्रकः, वृजिक इति । असति तु प्रकृत्यतिदेशे माद्रकको वार्ज्यक इति स्यात् । बहुवचनग्रहणमित्यादि । समानशब्दताया यो विषयस्तस्य लक्षणं प्रदर्शनं तदर्थम् । अन्यथा हीति । यदि बहुवचनग्रहणं न क्रियते । यत्रैवेति । बहुवचने, तत्रैव हि तद्राजस्य लुकि कृते समानशब्दता भवति । एकवचनद्विवचनयोर्न स्यादिति । लुगभावेन समानशब्दताया अभावात् । ननु सर्वग्रहणं प्रकृत्यतिदेशार्थम्, स च द्व्येकयोः प्रयोजयतीत्युक्तम्, तत्कथं द्व्येकयोर्न स्यात् ? तस्मात् सर्वग्रहणाध्यत्र क्वचित्समानशब्दानां सर्वत्रातिदेशः सिद्धः । अस्यैवार्थस्य विश्पष्टप्रतिपत्यर्थम्’बहुवचने’ इत्युपलक्षणमुपातम् ॥
Nyaas¶
{नास्ति -काशिका}एकशब्दाः इति। एतेन समानशब्दोऽयमेकवाचीति दर्शयति। प्रत्ययः प्रकृतिश्च इति। सर्वशब्देन योऽर्थ उपात्तस्तमाचष्टे। तद्वत् अङ्गा क्षत्त्रिया भक्तिरस्य इति। अङ्गादिभ्यः क्षत्त्रियेभ्यो बहुष्वपत्येषु द्व्यञ्मगधकलिङ्गसूरमसादण् (4.1.170) इत्यादिना विहितस्याणः तद्राजस्य (2.4.62) इत्यादिना लुक् क्रियते। बहुवचनेऽङ्गदयो जनपदिनो जनपदेन समानशब्दा भवन्ति। अत्र जनपदवृत्तिभ्योऽङ्गादिभ्यो यथा सोऽस्य भक्तिः (4.3.95) इत्येतस्मिन् विषये जनपदतदवध्योश्च (4.2.124) इति वुञ् भवति, तथा जनपदवृत्तिभ्योऽपि -पञ्चाला ब्राआहृणाः`इति। यदा पञ्चालनिवासिषु साहचर्यात् पञ्चालादिशब्दो वर्तते, तदा भवन्ति ब्राआहृणा जनपदेन बहुवचने समानशब्दाः, न तु ते जनपदिनः। तेनातिदेशाभावादणेव भवति - `पाञ्चालः।सर्वग्रहणम् इत्यादि। यदि सर्वग्रहणं न क्रियते, तदा प्रत्ययस्य विधीयमानतया प्राधान्यात् प्रधाने कार्यसम्प्रत्ययात् तस्यैवातिदेशः स्यात्, न प्रकृतेः। तस्माद्यथा प्रकृतेरप्यतिदेशो भवति तदर्थं सर्वग्रहणं क्रियते। स च इत्यादि। स च प्रकृत्यतिदेशः सर्वगर्हणं द्व्येकयोरेव प्रयोजयति, न बहुषु। जनपदशब्दो नात्र वृद्धः, तस्मादवृद्धो जनपदशब्दो दृश्यते। बहुवचने तु तद्राजस्य बहुषु तेनैवास्त्रियाम् (2.4.62) इति लुकि कृते विनाप्यतिदेशेनावृद्धः, अत एव भवतीति तत्र प्रकृत्यतिदेशोऽनर्थकः। ततो नेतदर्थं सर्वग्रहणं कर्तव्यम्। वृद्धिनिमित्तेषु इत्यादि। वृद्धिनिमित्तेषु वुञादिष्वादिष्टायामवृद्धायां प्रकृतौ पुनर्वृद्धिभावात्। प्रकृतिनिह्र्यासेकृते इति सर्वग्रहणात्प्रकृत्यदेशेन निर्हासः। निह्र्यासोऽल्पतयाऽपक्षय इत्यर्थः। माद्रः इति। एताञ्च प्रकृतिमपेक्ष्य मद्र इत्येषा प्रकृतिरल्पा भवति। वार्ज्यःर इत्येताञ्च वृजिरिति। ननु वतेः सर्वसादृशस्यार्थत्वनाद्वतिनिर्देशेनैव प्रकृतेरतिदेशो भविष्यतीति, तत्क सर्वग्रहणेन? नैतदस्ति; यतैव तत्र सर्वसादृश्यार्थे वतौ न प्रत्यार्थो देवतार्थेऽतिदिश्यते, तथेहापि जनपदरूपं जनपदिनि नातिदिश्यते। कस्मात् पुनस्तत्र प्रत्ययार्थो नातिदिश्यते? वतिना तयोर्भेदस्य प्रतिपादितत्वात्। वतिर्हि सादृश्ये रिधीयते, सादृस्यं च भेदाश्रयम्; यदि भवार्थस्यापि देवतार्थतया विपरिणामः स्यात्, तदा वतिरेव न स्यात्। तस्मादन्यस्य कार्यस्य सादृस्यं वतिराचष्टे, प्रत्ययार्थयोस्तु भेदम्, इहापि च जनपदजनपदिनोर्भेदमाचष्ट इति। असति सर्वग्रहणे जनपदरूपं जनपदरूपं जनपदिनि न लभ्यते। तस्मात् सर्वग्रहणं क्रियते।बहुलग्रहणम् इत्यादि। समानशब्दताया विषयप्रदर्शनं लक्षणम्। तदर्थं बहुवचनग्रहणम्। अन्यथा हि इत्यादि। बहुवचनग्रहणं न क्रियेतेत्यर्थः। तत्रैव इति। बहुवचने। बहुवचन एव तद्राजप्रत्ययस्य लुकि कृते समानशब्दता भवति, यतश्च तत्रैवातिदेशः स्यात्। एकवचनद्विवचनयोर्न स्यात् इति। तत्र समानशब्दतया अभावात्। बहुवचने तु इत्ादि। बहुवचनग्रहणे तु सति बहुवचने ये जनपदेन समानशब्दास्तेषां यत्र वा तत्र वातिदेशे विज्ञायमाने द्व्येकयोरप्यसौ सिद्धो भवति॥
Prakriyasarvasvam¶
बहुवचने जनपदेन समानशब्दा ये जनपदस्वामिनः, तेभ्यो भक्त्यर्थे जनपदवत् सर्वं स्यात् । अङ्गा इति जनपदेन समानशब्दाः राजानः, ते भक्तिरस्ये- त्याङ्गकः । द्वित्वैकत्वयोरप्येवम् । आङ्गयोराङ्गे वा भक्तोऽप्याङ्गकः । ‘जनपदतद- वध्योश्च’ (४-२-१२४) इत्याद्युक्तो वुञ् । एवं ‘मद्रवृज्योः कन्’ (४-२-१३१) मद्रराजभक्तो मद्रकः ॥