43092: शण्डिकादिभ्यो ञ्यः¶
Padacheda: शण्डिका-आदिभ्यः | S | 5 | 3 |
ञ्यः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix ञ्य comes in the sense of ‘this is his native-land’ after the words शण्डिक etc.
Vasu English Translation¶
The affix ञ्य comes in the sense of ‘this is his native-land’ after the words शण्डिक etc. This debars अण् &c. Thus शाण्डिक्यः, सार्वसेन्यः &c.
1 शण्डिक, 2 सर्वसेन, 3 सर्वकेश, 4 शक, 5 शट, (सट), 6 रक, 7 शङ्ख, 8 बोध.
Kashika¶
शण्डिक इत्येवमादिभ्यः प्रातिपदिकेभ्यो ञ्यः प्रत्ययो भवति सोऽस्याभिजन इत्येतस्मिन् विषये। अणादेरपवादः। शाण्डिक्यः। सार्वसेन्यः॥ शण्डिक। सर्वसेन। सर्वकेश। शक। सट। रक। शङ्ख। बोध। शण्डिकादिः॥
Siddhanta Kaumudi¶
शण्डिकोऽभिजनोऽस्य शाण्डिक्यः ॥
Balamanorama¶
शण्डिकादिभ्यो ञ्यः - शाण्डिकादिभ्यो ञ्यः ।सोऽभिजन इत्यर्थे प्रथमान्तेभ्य॑ इति शेषः ।
Padamanjari¶
अणाअदेरपवाद इति । आदिशब्देन छादेः । तत्र यदि शण्डिकादयः पर्वतशब्दाः, ततः पूर्वेण च्छः प्राप्तः; अथ जनपदशब्दाः, ततो ठवृद्धादपि बहुवचनविषयात्ऽ इति वुञ्, शण्डिकाशब्दात्कोपधादण् प्राप्तः ॥
Nyaas¶
अणादेरपवादः इति। आदिशब्देन छादेः। अत्र ये शण्डिकादीन् पर्वातनाचक्षते तेषां मतेन पूर्वसूत्रेण प्राप्तस्य छस्यापवादः। ये तु जनपदशब्दाः, तेषां अवृद्धादपि बहुवचनविषयात् (4.2.125) इति प्राप्तस्य वुञः। शण्डिकशब्दात् कोपधादण् (4.2.132) इति प्राप्तस्याणः॥
Prakriyasarvasvam¶
एभ्यः सोऽस्याभिजन इत्यर्थे ञ्यः स्यात् । शाण्डिक्यः । शकदेशाभिजनः शाक्यः इत्यादि ॥