43054: दिगादिभ्यो यत्¶
Padacheda: दिक्-आदिभ्यः | S | 5 | 3 |
यत् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix यत् comes in the sense of ‘who stays there’ after the प्रातिपदिक (Nominal Stems) दिक् etc.
Vasu English Translation¶
The affix यत् comes in the sense of ‘who stays there’ after the प्रातिपदिक (Nominal Stems) दिक् etc. This debars अण् and छ ॥ As दिशि भवं = दिश्यम् ‘lying in a particular quarter’, वर्ग्यम् ॥
The words मुख and जघन which ordinarily mean ‘mouth’ and ‘hip’ respectively, have not this meaning when this affix is to be added. They must refer to non-corporeal or abstract objects. As सेनामुख्यं ‘who stays in the van of the army’. सेनाजघन्यन् ‘who stays in the rear of the army’. In fact, the words ‘mukha’ and ‘jaghana’ here mean the ‘van’ and the ‘rear’ of an army. The word उदक् takes this affix, when the word so formed is a Name. As उदक्या = रजस्वला, otherwise we have औदको मत्स्यः ॥
1 दिश् 2 वर्ग, 3 पूग, 4 गण, 5 पक्ष, 6 धाय्य (धाय्या)7 मित्र, 8 मेधा, 9 अन्तर, 10 पथिन् 11 रहस्, 12 अलीक, 13 उखा, 14 साक्षिन्, 15 देश, 16 आदि, 17 अन्त, 18 मुख, 19 जघन, 20 मेघ, 21 यूथ, 22 उदकात्संज्ञायाम्, 23 न्याय, 24 वंश, 25 वेश (विश) 26 काल, 27 आकाश, 28 अनुवंश ॥
Kashika¶
दिश् इत्येवमादिभ्यः प्रातिपदिकेभ्यो यत् प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। अणश्छस्य चापवादः। दिशि भवं दिश्यम्। वर्ग्यम्। मुखजघनशब्दयोरशरीरावयवार्थः पाठः, सेनामुख्यम्, सेनाजघन्यमिति॥ दिश्। वर्ग। पूग। गण। पक्ष। धाय्या। मित्र। मेधा। अन्तर। पथिन्। रहस्। अलीक। उखा। साक्षिन्। आदि। अन्त। मुख। जघन। मेघ। यूथ। उदकात् संज्ञायाम् (ग० सू० १०३)। न्याय। वंश। अनुवंश। विश। काल। अप्। आकाश। दिगादिः॥
Siddhanta Kaumudi¶
दिश्यम् । वर्ग्यम् ॥
Laghu Siddhanta Kaumudi¶
दिश्यम्। वर्ग्यम्॥
Balamanorama¶
दिगादिभ्यो यत् - दिगादिभ्यो यत् ।भव इत्यर्थे सप्तम्यन्तेभ्यः॑ इति शेषः । दिश्यमिमि । दिशि भवमित्यर्थः ।
Tattvabodhini¶
दिगादिभ्यो यत् - दिगादिभ्यो ।दिश्, वर्ग, पूग, पक्ष, रहस्, उखा, साक्षिन्, आदि, अन्त, मुख, जघन, मेघ,यूथ,उदकात्संज्ञायां॑न्याय, वंश, काल्येत्यादि दिगादिः । मुखजघनयोः पाठोऽत्राऽशरीरावयवार्थः । सेनाया मुखे जघने च भवं — — मुख्यम् । जघन्यम् ।
Padamanjari¶
सेनामुख्यमिति । यदन्तस्य सेनाशब्देन षष्ठीसमासः, न तु सेनामुख्यशब्दात्प्रत्ययः; तदन्तविध्यभावात् ॥
Nyaas¶
अणश्छस्य चापवादःर इति। यद्दिगादिषु वृद्धं वाप्यादि ततश्छस्यापवादः, शेषेभ्यस्त्वणः प्राग्दीव्यतीयस्य।अथ मुखजघनयोश्च किमर्थः पाठो दिगादिषु , यावता शरीरावयवात् ताभ्यामुत्तरसूत्रेणैव (4.3.55) भविष्यति? इत्याह - मुखजघनयोः इति। सेनावयववाचिनौ हि यौ मुखजघनशब्दौ तौ शरीरवयववाचिनौ न भवतः। पाणिपादाद्यवयवस्वभावं हि शरीरम्, न चैवमात्मिका सेना; किं तर्हि? रथादिसमुदायात्मिका। उदकात्संज्ञायाम् इति। उदकशब्दात् संज्ञायां गम्यमानायां यद्भवति - उदक्या स्त्री, रजस्वलोच्यते। न चात्र प्रकृत्यर्थः प्रत्ययार्थो वा विद्यते। सा च तयोरविद्यमानता संज्ञाग्रहणेन विज्ञायते। संज्ञायामन्यत्र - औदको मत्स्य इति, अत्राणेव भवति॥
Prakriyasarvasvam¶
दिग्वर्गपूगगणोखामुखजघनवंशानुवंशदेशकालाकाशपक्षसाक्षिभ्यो यत् । दिशि भवं, दिश्यम् । वर्ग्यम् । पूग्यम् । गण्यम् । उख्यम् । मुख्यम् । जघन्यम् । अत्रोत्तमाधमपक्षौ मुखजघनार्थौ । वंश्यम् । अनुवंश्यम् । अत्र तदन्तविध्यभावाद् राजवंश्यादयः साध्वर्थे यतीति वामनः । देश्यम् । काल्यम् । आकाश्यम् । पक्ष्यम् । साक्ष्यम् । आद्यन्तान्तररहःपथ्यलीकयूथन्यायमित्रमेघमेधधाय्याद्भ्यश्च । आद्यम् । अन्त्यम् । अन्तरे भवं, अन्तर्यम् । रहस्यम् । पथ्यम् । अलीक्यम् । यूथ्यम् । न्याय्यम् । मित्र्यम् । मेध्यम् । मेधो यज्ञः, मेध्यम् । धाय्याभवं धाय्यम् । अप्सु भवमित्यत्र ‘अपो योनियन्मतुषु’ (वा० ६-३-१८) इति यति परे सप्तम्या अलुक् । ओर्गुणः । अप्सव्यम् । उदकात् संज्ञायम् (ग० सू०) । उदक्या रजस्वला । अन्यत्रौदको मत्स्यः । दिगादियदन्येभ्योऽपि दृश्यत इति स्वामी । तेन वने भवं वन्यम् । वीज्यम् ॥
Sutra Prayogas¶
दिश्यानि (शिशुपालवधम्): दिगादिभ्यो यत् इति यत्प्रत्ययः।
बाह्लजे (शिशुपालवधम्): दिगादिभ्यो यत् इति भवार्थे यत्प्रत्ययः।
नस्या (शिशुपालवधम्): दिगादिभ्यो यत् इति यत्प्रत्ययः।
मेध्यैः (शिशुपालवधम्): दिगादिभ्यो यत् इति यत् प्रत्ययः।
अन्त्या (भट्टिकाव्यम्): दिगादिभ्यो यत् इति यत्प्रत्ययः।