43042: कोशाड्ढञ्¶
Padacheda: कोशात् | S | 5 | 1 |
ढञ् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix ढञ् comes after the words कोश etc. in the sense of ‘adapted to that’.
Vasu English Translation¶
The affix ढञ् comes after the words कोश etc. in the sense of ‘adapted to that’. This debars अण् ॥ Thus कोशे संभूतं = कौशेयं वस्त्रम् ‘silken clothes’.
The word कोश means ‘cocoon.’ कौशेयः may literally therefore mean ‘anything suited to the cocoon,’ and may apply to the caterpillar as well as to the silk made out of cocoon. The word कौशेय is however रूढि and means ‘silken.’ Nor does it mean ‘suited to the sheath,’ as a sword, though kosa means ‘sheath’ also. This sutra would have been more properly placed after (4.3.134), under the heading of विकार rather than of संभूत ॥
In fact after the sutra एण्या-ढञ् (4.3.159), the addition of कोशाच्च would have been more appropriate.
Bhashya¶
कोशाड्ढञ्ञ् (1612) (सम्भूताधिकरणे ढञ्ञ्प्रत्ययः) (5472 प्रत्ययस्यार्थबोधकवार्तिकम्॥ 1 ॥) - विकारे कोशाड्ढञ्ञ् - (भाष्यम्) विकारे कोशाड्ढञ्ञ्वक्तव्यः। कोशस्य विकारः कौशेयम्॥ (5473 उत्तरसूत्रानुपपत्तिदर्शकवार्तिकम्॥ 2 ॥) - संभूते ह्यर्थानुपपत्तिः - (भाष्यम्) संभूत इति ह्युच्यमानेऽर्थस्यानुपपत्तिः स्यात्। न ह्यदः कोशे संभवति। किं तर्हि? कोशस्यादो विकारः॥ (प्रथमवार्तिकातिव्याप्तिदर्शकं भाष्यम्) यदि विकार इत्युच्यते, भस्मन्यपि प्राप्नोति। भस्मापि कोशस्य विकारः॥ (अतिव्याप्तिनिवारकभाष्यम्) अथ सम्भूत इत्युच्यमाने क्रिमौ कस्मान्न भवति? क्रिमिरपि कोशे सम्भवति। अनभिधानात्। यथैव तर्ह्यनभिधानात्क्रिमौ न भवत्येवं भस्मन्यपि न भविष्यति। अर्थश्चोपपन्नो भवति॥
Kashika¶
कोशशब्दाद् ढञ् प्रत्ययो भवति तत्र संभूत इत्यस्मिन् विषये। अणोऽपवादः। कोशे संभूतं कौशेयं वस्त्रम्। रूढिरेषा, तेन क्रिमौ न भवति, खड्गकोशात् च॥
Siddhanta Kaumudi¶
कौशेयं वस्त्रम् ॥
Laghu Siddhanta Kaumudi¶
कौशेयम् वस्त्रम्॥
Balamanorama¶
कोशाड्ढञ् - कोशाड्ढञ् । कौशेयं वस्त्रमिति । कृमिविशेषकोशस्य विकार इत्यर्थः ।विकारे कोशाड्ढ॑ञिति वार्तिकात् ।
Tattvabodhini¶
कोशाड्ढञ् - केशात् । कौशेयमिति । वस्त्रविशेषे योगरूढोऽयम् । कोशे संभवस्तु सत्कार्यवादाभिप्रायेण । मतान्तरे तु विकारप्रकरणेएण्या ढ॑ञित्यस्यानन्तरंकोशाच्चे॑ति पठितव्यम् । तथा च वार्तिकंविकारे कोशाड्ढञ॑, संभूते ह्रार्थानुपपत्ति॑रिति ।
Padamanjari¶
कौशीयं वस्त्रमिति । ननु च न वस्त्रं कोशे सम्भवति, वस्त्रदायां तत्कारणस्य कोशस्य परावृतत्वात्, न च कोशान्तरे वस्त्रस्य सम्भवः, न च तत्रेष्यते, तस्माद्विकारे कोशाड्ढञ् सम्भूते ह्यर्थानुपपतिरिति वार्तिकमेव शरणम् ।’तस्य विकारः’ इत्यत्र प्रकरणे ठेण्या ढञ्ऽ इत्यस्यानन्तरम्’कोशाच्चेति वक्तव्यम्’ इत्यर्थः । अर्थानुपपतिरिति । कौशेयशब्दस्य योऽर्थो लौकिकः सूत्रवस्त्रलक्षणस्तस्यानुपपतिः स्यात्, लौकिकोऽर्थः शास्त्रेण नानुसृतः स्यात् । कृमिरेव त्वभिधेयः प्राप्नोति स हि कोशे सम्भवति । किञ्चाविशेषाभिधानात्खङ्गकोशादपि प्रत्ययः प्रसज्येत, इत्यत आह - रूढिरेषेति । रूढिशब्देषु नावश्यमवयवार्थोऽन्वेष्यः, यथा तैलपायिकादिष्विति मन्यते । सूत्रकारेण तु सत्कार्यवलादाश्रयेण सम्भूते प्रत्ययो विहितः, तत्र हि कारणदशायामपि कार्यस्य सत्वात् तत्र तत्सम्भवति तदनुपपन्नम् । कार्यकारणयोर्हि तादात्म्यमभिसम्बन्धः, न त्वाधाराधेयभावः ॥
Nyaas¶
कौशेयं वस्त्रम् इति। ननु च वरुआं कौशेयं न सम्भवति, किन्तु कृमिः, ततश्च कृमावेव स्यात्, न वस्त्रे; अपि च विशेषानभिधानात् खड्गसम्बन्धिनोऽपि कोशात् प्रत्ययः प्रसज्येतेत्याह - रूढिरेषा इत्यादि। रूढिशब्दो हि यथाकथञ्चिदुत्पाद्यते, न तत्रावश्यमवयवार्थोऽपेक्ष्यः, क्वचिदवयवार्थासम्भवात्। तथा हि तैलं पिबतीत्येवं तैलपायिकाशब्दो व्युत्पाद्यते, न तत्रावश्यमवयवार्थोऽपेक्ष्यः, क्वचिवयवार्थासम्भवात्। तथा हि तैलं पिबतीत्येवं तैलपायिकाशब्दो व्युत्पाद्यते, स च तैलपानक्रियारहित एव क्वचित् प्राणिविशेषे वर्तते। सस्माद्यद्यपि न कृमौ। अथ खङ्गकोशादुत्पत्तौ को दोषः, येन ततः प्रत्ययो नेष्यते? खङ्गस्याबिधानं प्राप्नोति। स हि तत्र सम्भवतीति चेत्? इतरस्मादपि तर्हि कोशात् प्रत्ययोत्पत्तौ च कृमेरभिधानं प्राप्नोति, स हि तत्र सम्भवति। अथ तत्रापि रूढिवशाद्वस्त्रस्याभिधानम्, न कृमेः। इतरस्मादपि तर्हि कोशादुत्पत्तौ वरुआस्याभिधानं न खङ्गस्य? एवं मनयते - यद्यपि सम्भूताधिकारे कोशाड्ढञ् विधीयते, तथापि कौशेयशब्दान्न सम्भवोऽर्थ प्रतीयते, अपि तु विकारोऽर्थः; रूढिवशात्। कौशेयं वरुआमितिकोशविकारो वरुआमित्यर्थः। तथा च वार्त्तिककारेणोक्तम् - विकारे कोशाड्ढञ्, `{सम्भूतार्थानुपपत्तिः -वा।पाठः} सम्भूतार्थानुपपत्तेः` (वा। 1,2 (4.3.42) इति। विकारस्च कौशेयशब्दात् कृमिकोशस्य प्रतीयते, न खङ्गकोशस्य ; रूढिवशात्। तस्माद्यस्य विकारः प्रतीयते तदभिधायिन एव कोशशब्दाद्युक्कतः प्रत्ययः नेतरस्मात्॥
Prakriyasarvasvam¶
<karika>कृमिकोशोद्भवं वासः, कौशेयम् । कारणे कार्यसद्भावपक्षात् सम्भूततोच्यते । विकारे वाच्य एण्या ढञ् कोशाच्चेत्याह भाष्यकृत् ॥ २४५ ॥</karika>