43029: पथः पन्थ च¶
Padacheda: पथः | S | 6 | 1 |
पन्थ | S | | | 1
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix वुञ् comes after the word पथ , in the sense of ‘produced therein’ and thereby in the room of पथ , the substitute is पन्थ।
Vasu English Translation¶
The affix वुञ् comes after the word पथ , in the sense of ‘produced therein’ and thereby in the room of पथ , the substitute is पन्थ। Thus पथि जातः = पन्थकः ‘produced in the way.’
This debars the अण् ॥
Kashika¶
पथिशब्दाद् वुन् प्रत्ययो भवति तत्र जात इत्येतस्मिन् विषये, अणोऽपवादः, प्रत्ययसन्नियोगेन च पथः पन्थ इत्ययमादेशो भवति। पथि जातः पन्थकः॥
Siddhanta Kaumudi¶
पथि जातः पन्थकः ॥
Tattvabodhini¶
पथः पन्थ च - अ च । अमावास्याशब्दादकारप्रत्ययः स्यात् । अयमपि पूर्ववदुभाभ्यां बोध्यः । अमावास्य इति । ह्रस्वमध्यात्तु अमावस्यः ।
Nyaas¶
एकदेशाविकृतस्य इत्यादि। अमावस्यदन्यतरस्याम् (3.1.122) इत्यत्र ण्यत्यवृद्धिरेव निपात्यते। अवृद्धिस्तु वृद्धेरेकादेशभूततया विकारो भवतीत्येकदेशविवृतममावस्याशब्दस्योपपद्यते। ये तु सन्धिवेलादिषु ह्रस्वोपधमधीयते, तेषां वृद्ध्युपधस्य ग्रहणं न प्राप्नोति, न हि विकृतिः प्रकृतिं गृह्णाति। तस्माद्दीर्घ एव पाठो युक्तः॥।