43024: विभाषा पूर्वाह्णापराह्णाभ्याम्

Padacheda: विभाषा | S | 1 | 1 |

पूर्वाह्ण-अपराह्णाभ्याम् | S | 5 | 2 |

Sutrartha


Vasu English Summary

Optionally after the words 1. पूर्वाह्ण and 2. अपराह्ण there are the affixes ट्यु and ट्युल् and their augment is तुट्।

Vasu English Translation

Optionally after the words 1. पूर्वाह्ण and 2. अपराह्ण there are the affixes ट्यु and ट्युल् and their augment is तुट्। In the alternative ठञ् of (4.3.11) also occurs. As पूर्वाह्णेत꣡नम्, अपराह्णे꣡तनम् with tyu, or पौ꣡र्वाह्णिकम् आ꣡पराह्णिकम् with than. With tyul, we have पूर्वाह्णेत꣡नं and अपराह्णेत꣡नं ॥ The sign of the locative is not elided by rule (6.3.17). When the word is taken as incapable of having the case-affix, we have, पूवाह्णत꣡नं or पूर्वाह्ण꣡तनः ॥

Bhashya

विभाषा पूर्वाह्णापराह्णाभ्याम् (1594) (5463 एदन्तत्वसाधकवार्तिकम्॥ 1 ॥) - पूर्वाह्णापराह्णाभ्यां सुबन्तवचनं सप्तमीश्रवणार्थम् - (भाष्यम्) पूर्वाह्णापराह्णाभ्यां सुबन्तत्वं वक्तव्यम्। किं प्रयोजनम्? सप्तमीश्रवणार्थम्। सप्तम्याः श्रवणं यथा स्यात्। पूर्वाह्णेतनम्, अपराह्णेतनम्। तत्तर्हि वक्तव्यम्? (पूर्ववार्तिकस्यान्यथासिद्धत्वबोधकं भाष्यम्) न वक्तव्यम्। आचार्यप्रवृत्तिर्ज्ञापयति -भवत्यत्र सप्तमीति, यदयं घकालतनेषु कालनाम्नः (6.3.17) इति सप्तम्या अलुकं शास्ति॥ (5464 आक्षेपवार्तिकम्॥ 2 ॥) - अलुग्वचनं ज्ञापकमिति चेदव्ययात्सप्तमीप्रसङ्गः - (भाष्यम्) अलुग्वचनं ज्ञापकमिति चेदव्ययात्सप्तमी प्राप्नोति। दोषातनम्, दिवातनम्॥ (प्रत्याक्षेपपरं भाष्यम्) अस्तु। अव्ययात् इति लुग्भविष्यति। इहापि लुक्प्राप्नोति -पूर्वाह्णेतनम्, अपराह्णेतनम्। अलुगत्र लुकं बाधिष्यते। इहापि तर्हि बाधेत -दोषातनम्, दिवातनम्। समानाश्रयो लुगलुका बाध्यते। कश्च समानाश्रयः? यः प्रत्ययाश्रयः, अत्र च प्रागेव प्रत्ययोत्पत्तेर्लुग्भवति॥ न सिध्यति। इह हि सति प्रत्यये लुका भवितव्यम्, सति लुक्यलुका भवितव्यम्। तत्र च प्रत्यय एव नास्ति कुतो लुग्भविष्यति॥ सैषा ज्ञापकेनासती विभक्तिराकृष्यते। सा यथैवेह बाधिका भवति -पूर्वाह्णेतनम्, अपराह्णेतनमिति, एवमिहापि स्यात् -दोषातनम्, दिवातनम्॥ (एदन्तत्वे साधकान्तरबोधकं भाष्यम्) एवं तर्हि न ब्रूमः -अलुग्वचनं ज्ञापकम् -भवत्यत्र सप्तमी इति। किं तर्हि? भवति सुबन्तादुत्पत्तिरिति। किं पुनर्ज्ञाप्यमेतद्, यावता समर्थानां प्रथमादिति वर्तते सामर्थं च सुबन्तेन? ज्ञाप्यमित्याह। कथम्? ङ्याप्प्रातिपदिकादित्यपि वर्तते, तत्र कुत एवत् -सुबन्तादुत्पत्तिर्भविष्यति, न पुनर्ङ्याप्प्रातिपदिकादिति॥ (साधकान्तराक्षेपभाष्यम्) कथं यत्तदुक्तम् -वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणे च प्रत्ययविधौ तत्संप्रत्ययार्थंम् इति? (आक्षेपनिरासभाष्यम्) समर्थस्य यद् वृद्धं ङ्याप्प्रातिपदिकमित्येवमेतद्विज्ञायते॥ (प्रत्याक्षेपभाष्यम्) यद्येतज्ज्ञाप्यते, कथं द्विपद आगतं द्विपाद्रूप्यम्, प्रष्ठौह आगतं प्रष्ठवाड्रूप्यम्, कीलालप आगतं कीलालपारूप्यम्, पपुष आगतं पपिवद्रूप्यम्? पद्भावः,ऊठ्, आकारलोपः, प्रसारणमित्येते विधेयः प्राप्नुवन्ति॥ (प्रत्याक्षेपनिरासभाष्यम्) लुकि कृते न भविष्यन्ति॥ (पुनः प्रत्याक्षेपभाष्यम्) इह तर्हि सामसु साधु सामन्यः, वेमन्यः। न लोपः प्रातिपदिकान्तस्य (8.2.7) इति नलोपः प्राप्नोति॥ (प्रत्याक्षेपनिरासभाष्यम्) लुकि कृते भत्वान्न भविष्यति। इदमिह संप्रधार्यम् -लुक् क्रियतां नलोप इति, किमत्र कर्तव्यम्? परत्वान्नलोपः। एवं तर्हीदमिह संप्रधार्यम् -नलोपः क्रियतां तद्धितोत्पत्तिरिति, किमत्र कर्तव्यम्? परत्वान्नलोपः। असिद्धो नलोपः, तस्यासिद्धत्वात्तद्धितोत्पत्तिर्भविष्यति। परिगणितेषु कार्येषु नलोपोऽसिद्धः, न चेदं तत्र परिगण्यते। इदमपि तत्र परिगण्यते। कथम्? सुब्विधिरिति सर्वविभक्त्यन्तः समासः -सुपो विधिः सुब्विधिः, सुबन्ताद्विधिः सुब्विधिरिति॥

Kashika

पूर्वाह्णापराह्णशब्दाभ्यां विभाषा ट्युट्युलौ प्रत्ययौ भवतः, तुट् च तयोरागमः। कालाट् ठञ् (४.३.११) इति ठञि प्राप्ते वचनम्, पक्षे सोऽपि भवति। पूर्वाह्णेतनम्। अपराह्णेतनम्। पौर्वाह्णिकम्। आपराह्णिकम्। घकालतनेषु कालनाम्नः (६.३.१७) इति सप्तम्या अलुक्। यदा तु न सप्तमी समर्थविभक्तिः। पूर्वाह्णः सोढोऽस्येति तदा पूर्वाह्णतन इति भवितव्यम्॥

Siddhanta Kaumudi

आभ्यां ट्युट्युलौ वा स्तस्तयोस्तुट् च । पक्षे ठञ् । पूर्वाह्णेतनम् । अपराह्णेतनम् । घकालतनेषु -(SK975)इत्यलुक् । पूर्वाह्णः सोढोऽस्येति विग्रहे तु पूर्वाह्णतनम् । अपराह्णतनम् । पौर्वाह्णिकम् । आपराह्णिकम् ॥

Balamanorama

विभाषा पूर्वाह्णापराह्णाभ्याम् - विभाषा पूर्वाह्णा । पक्षे ठञिति । तथा सति न तुट्, तस्य ठ्युठ्युल्भ्यां संनियोगशिष्टत्वादिति भावः । तदेवंराष्ट्रावारे॑त्यारभ्य एतदन्तैः सूत्रैः शाष्ट्रादिप्रकृतिविशेषेभ्यो घादयः प्रत्ययविशेषा अनुक्रान्ताः ।

Padamanjari

सप्तम्या अलुगिति’ङ्याप्प्रातिपदिकात्’ इत्यत्र निरणायि - सुबन्तातद्धितोत्पतिरिति, ततत्रैव द्रष्टव्यम् । यदि सुबन्तातद्धित उत्पद्यते, कथं पूर्वाह्णतन इत्यत्र भवति ? तत्राह - यदा त्विति ॥

Nyaas

{पूर्वाह्णेतनम् -काशिका} पूर्वाह्णेतनः इति। अह्नः पूर्वो भाग इति पूर्वादिसूत्रेणै (2.2.1) कदेशिसमासः। राजहःसखिभ्यष्टच् (5.4.91) इति टच् समासान्तः, अह्नोऽह्न एतेभ्यः (5.4.88) इत्यह्नादेशः,`अह्नोऽदन्तात्` (8.4.7) इति णत्वम्। यदाऽपत्यम्यन्तात् प्रत्ययस्तदा पूर्वाह्णतन इति भवितव्यमिति; सप्तम्यभावात्। सप्तम्यभावस्तु प्रथमासमर्थात् तद्धितोत्पत्तेः॥

Prakriyasarvasvam

आभ्यां वा ट्युट्युलौ तुट् च । पूर्वाह्णतनम् । अपराह्णतनम् ॥