42145: कृकणपर्णाद्भारद्वाजे

Padacheda: कृकण-पर्णात् | S | 5 | 1 |

भारद्वाजे | S | 7 | 1 |

Sutrartha


Vasu English Summary

The affix छ comes in the remaining senses after कृकण and पर्ण when denoting the country भारद्वाच।

Vasu English Translation

The affix छ comes in the remaining senses after कृकण and पर्ण when denoting the country भारद्वाच। The word देशे is understood here also. The word भारद्वाज does not here mean Gotra, but country. Thus कृकणीयम् and पर्णीयम् ॥

Why do we say “denoting country of Bharadvaja?” Observe कार्कणम्, पार्णम् &c.

Kashika

देश इत्येव। भारद्वाजशब्दोऽपि देशवचन एव, न गोत्रशब्दः। प्रकृतिविशेषणं चैतत्, न प्रत्ययार्थः। कृकणपर्णशब्दाभ्यां भारद्वाजदेशवाचिभ्यां छः प्रत्ययो भवति शैषिकः। कृकणीयम्। पर्णीयम्। भारद्वाज इति किम्? कार्कणम्। पार्णम्॥

॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य द्वितीयः पादः॥

Siddhanta Kaumudi

भारद्वाजदेशवाचिभ्यामाभ्यां छः । कृकणीयम् । पर्णीयम् । भारद्वाजे किम् । कार्कणम् । पार्णम् ॥

Tattvabodhini

कृकणपर्णाद्भारद्वाजे - कृकण । भारद्वाजशब्दोऽत्र देशवचनः, स च न प्रत्ययार्थः, किं तु प्रकृतिविशेषणमित्याह — भारद्वाजदेशेत्यादिना ।

Padamanjari

न गोत्रशब्द इति । कुत इत्याह - प्रकृतिविशेषणं चैतदिति । चशब्दो हिशब्दार्थे ॥

Nyaas

`भारद्वाजशब्दोऽपि देशवचन एव,न गोत्रशब्दः`इति। देश एव भारद्वाजे कृकणपर्णशब्दवृत्तेः सम्भवात्॥

Prakriyasarvasvam

भारद्वाजदेशाभ्यामाभ्यां छः । क्रुकणीयम् । पर्णीयम् । अन्यदेशे कार्कणम् । पार्णम् ॥