42137: गर्तोत्तरपदाच्छः¶
Padacheda: गर्त-उत्तरपदात् | S | 5 | 1 |
छः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix छ comes in the remaining senses after a प्रातिपदिक (Nominal Stem) denoting a place and having the word गर्त as its second term.
Vasu English Translation¶
The affix छ comes in the remaining senses after a प्रातिपदिक (Nominal Stem) denoting a place and having the word गर्त as its second term. This debars अण् ॥ The word देशे is to be read into the sutra. This rule being a subsequent one debars the affixes ठञ् and ञिठ् of sutra 117 ante. Thus वृकगर्तीयं, शृगालगर्तीयम्, श्वाविद्गर्तीयम् ‘born in porcupine’s hole &c’. The word उत्तरपद is used in the sutra, so as to prevent the application of the rule to a word which ends in गर्त, but is preceded by the affix बहु, as बाहुगर्तम् ॥ Here बहु is an affix (5.3.68) and not a pada.
Bhashya¶
गर्तोत्तरपदाच्छः (1558) (छाधिकरणम्) (5440 पूर्वविप्रतिषेधे वार्तिकम्॥ 1 ॥) - गर्तोत्तरपदाच्छविधेर्जनपदाद्वुञ्ञ् विप्रतिषिद्धम् - (भाष्यम्) गर्तोत्तरपदाच्छविधेर्जनपदाद् वुञ्ञ् भवति पूर्वविप्रतिषेधेन। गर्तोत्तरपदाच्छो भवतीत्यस्यावकाशः -श्वाविद्गर्त -श्वाविद्गर्तीयः। वुञ्ञोऽवकाशः -अङ्गाः -आङ्गकः। इहोभयं प्राप्नोति, त्रैगर्तकः। वुञ्ञ् भवति पूर्वविप्रतिषेधेन॥ (वार्तिकप्रत्याख्याने भाष्यम्) स तर्हि पूर्वविप्रतिषेधो वक्तव्यः? न वक्तव्यः। उक्तमेवावधिग्रहणस्य प्रयोजनम् -जनपदाज्जनपदावधेर्वुञ्ञेव यथा स्यात्, यदन्यत् प्राप्नोति तन्मा भूदिति॥
Kashika¶
देश इत्येव। गर्तोत्तरपदाद् देशवाचिनः प्रातिपदिकात् छः प्रत्ययो भवति शैषिकः। अणोऽपवादः। वाहीकग्रामलक्षणं च प्रत्ययं परत्वाद् बाधते। वृकगर्तीयम्। शृगालगर्तीयम्। श्वाविद्गर्तीयम्। उत्तरपदग्रहणं बहुच्पूर्वनिरासार्थम्। बाहुगर्तम्॥
Siddhanta Kaumudi¶
देशे । अणोऽपवादः । वृकगर्तीयम् । उत्तरपदग्रहणं बहुच्पूर्वनिरासार्थम् ॥
Balamanorama¶
गर्तोत्तरपदाच्छः - गर्तोत्तरपदाच्छः । देशे इति । शेषपूरणम् । देशवाचिन इति यावत् । वृकगर्तीयमिति । वृकगर्तो नाम देशः । तत्र भव इत्यर्थः । ननु गर्ताच्छ इत्येतावतैव केवलगर्तशब्दस्य देशवाचित्वाऽभावाद्गर्तोत्तरपदादिति सिद्धे उत्तरपदग्रहणं व्यर्थमित्यत आह — उत्तरपदग्रहणमिति ।
Padamanjari¶
वाहीकग्रामलक्षणमिति । यद्यपि’वाहीकग्रामेभ्यश्च’ इति ठञ्ञिठौ विहितौ, तथाप्युत्सृष्टानुबन्धयोस्तयोष्ठरूपाविशेषाद्वाहीकग्रामलक्षणमित्येकवचननिर्देशः । श्वाविद्गर्तीयमिति । श्वानं विध्यतीति व्यधेः क्विप्, सम्प्रसारणम्,’नहिवृत्ति’ इति दीर्घः, श्वाविधां गर्तः श्वाविद्गर्तः ॥
Nyaas¶
अवृद्धार्थ वचनम्। वृद्धात्तु वृद्धाच्छः (4.2.113) इत्यनेनैव सिद्धमिति। सति तु वृद्धावपि परत्वादनेनैव भवितव्यम्। अनोऽपवादः इति। नाप्राप्ते तस्मिन्नस्यारम्भात्। वाहीकग्रामलक्षणञ्च इत्यादि। यद् गर्तोत्तरपदं वाहीकवाचि ततो वाहीकग्रामलक्षणौ ठञ्ञिठौ बाधित्तवात् परत्वाच्छ एव भवति, तस्य गर्तोत्तरपदमवकाश इति। अथोत्तरपदग्रहणं किमर्थम्, न गर्तान्तादित्येवोच्येत? इत्याह - उत्तरपदग्रहणम् इत्यादि। यदि गर्तान्तादित्युच्येत तदा बहुगर्त इत्येतस्मादपि बहुच्पूर्वात् स्यात्, भवति ह्रेतद्गर्तान्तम्। उत्तरपदग्रहणे तु सति न भवति, न ह्रेतद्गर्तोत्तरपदम्। समासे हि सत्येतद्भवति - पूर्वपदमुत्तरपदमिति॥
Prakriyasarvasvam¶
देशादित्येव । वृकगर्तीयम् ॥