42114: वृद्धाच्छः

Padacheda: वृद्धात् | S | 5 | 1 |

छः | S | 1 | 1 |

Sutrartha


Vasu English Summary

After the word वृद्ध , the affix छ is added in the remaining senses.

Vasu English Translation

After the word वृद्ध , the affix छ is added in the remaining senses. The word गोत्र does not govern this sutra. This is a general rule. The Vriddha is defined in (l. 1.73) &c. This debars अण् ॥ Thus from गार्ग्य we have गार्गीय (6.4.148) & (6.4.152). So also वात्सीयः, शालीयः, मालीयः, ॥

This rule being a subsequent one, debars the following preceding rules, in case of conflict of rules (1.4.2) I.The rule relating to Indeclinables (104), 2. The rule relating to words ending in तीर and रूप्य (106.3. The rule relating to Villages of North-folk (109), 4. The rule relating to penultimate क (110). Thus.

इह-इहत्य; but आरात्-आरातीयः करवतीर-कारवतीरम्; but वायसतीर-वायसतीरीयः चणाररूप्य-चाणाररूप्यम्; but माणिरूप्य-माणिरूप्यकः (4.2.21) शिवपुर-शैवपुरम्; but वाडवकर्ष-वाडवकर्षीय; निलीनक-नैलीनकः; but औलूक-औलूकीयः ॥

Kashika

गोत्र इति नानुवर्तते। सामान्येन विधानम्। वृद्धात् प्रातिपदिकाच् छः प्रत्ययो भवति शैषिकः। अणोऽपवादः। गार्गीयः। वात्सीयः। शालीयः। मालीयः। अव्ययतीररूप्योत्तरपदोदीच्यग्रामकोपधविधीन् (४.२.१०४,१०६,१०९,११०) तु परत्वाद् बाधते॥

Siddhanta Kaumudi

शालीयः । मालीयः । तदीयः ॥

Laghu Siddhanta Kaumudi

शालीयः। मालीयः। तदीयः। वा नामधेयस्य वृद्धसंज्ञा वक्तव्या (वार्त्तिकम्) । देवदत्तीयः, दैवदत्तः॥

Balamanorama

वृद्धाच्छः - भवतष्ठक्छसौ । भावत्क इति ।इसुसुक्तान्तात्कः॑ । ननु भवच्छब्दाच्छस्य ईयादेशे सति भत्वेन पदत्वस्य बाधात्कथं जश्त्वमित्यत आह — जश्त्वमिति ।सिति चे॑ति पदत्वेन भत्वस्य बाधादिति भावः । ननु ‘भावत’ इति कथमण्प्रत्ययः,त्यदादीनि चे॑ति भवच्छब्दस्य वृद्धतया छस्यैव युक्तत्वादित्यत आह — वृद्धादित्यनुवृत्तेः शत्रन्तादणेवेति । त्यदादिषुभातेर्डवतु॑रिति डवत्वन्तस्यैव पाठादिति भावः ।

Padamanjari

अव्ययतीरेत्यादि । अव्ययात्यब् भवतीत्यस्यावकाशः - अमात्यः, च्छस्यावकाशः - शालीयो मालीयः, आराच्छब्दाच्छाए भवति - आरातीयः । ठमेहक्वतसित्रेभ्यःऽ इति परिगणनमनपेक्ष्यायं विप्रतिषेधः । तीरोतरविधेरवकाशः - काश्यतीरः, च्छस्य स एव; वायसतीराच्छाए भवति वायसतीरियः । रूप्योतरविधेरवकाशः - चाररूप्यः, च्छस्य स एव; माणिरूप्याच्छः प्राप्तः, तं चापि योपधलक्षणो वुञ् बाधते - माणिरूप्यकः । प्राप्तिमात्राश्रयेण तु च्छस्य रूप्योतरपदलक्षणस्य च ञस्य विप्रतिषेध उक्तः । उदीच्यग्रामलक्षणस्य विधेरवकाशः -शिवपुर - शैवपुरः, वाडवकर्षाच्छाए भवति - वाडवकर्षीयः। कोपधविधिः -‘प्रस्थोतरपदपलद्यादिकोपधादण्’ इत्ययं विवक्षितः, स तस्माद्धि परस्थस्तस्यावकाशः -‘प्रस्थोतरपदपलद्यादिकोपधादण्’ इत्ययं विवक्षितः, स तस्माद्धि परस्थस्तस्यावकाशः - निलीनक - नैलीनकम्, उलूका अस्मिन्सन्ति’तदस्मिन्नस्ति’ इत्यण्, औलको नाम ग्रामस्तत्र भवः, तस्माच्छाए भवति - औलूकीयः । यस्तु’कोपधादण्’ इत्यण्, स जनपदवुञोऽपवादः, तस्यापि’वृद्धादकेकान्त’ इत्यत्र’कोपधग्रहणं सोसुकाद्यर्थम्’ इति विहितश्छाए बाधको भवति ॥

Nyaas

अव्ययतीर`इत्यादि। तत्राव्ययविधिं बाधते - आराद्भव आरातीयः। तीरोत्तर एव विधिः,तं च वायसतीरे भवो वायसतीरीयः। रूपोत्तरपदात्तु छं बाधित्वा **धन्वयोपधाद्वुञ्** (4.2.121) इति योपधलक्षणो वुञ् भवति - मणिरूप्ये भवो माणिरूप्यक इति। उदीच्यग्रामविदिं बाधते - वाडवाक्षे भवो वाडवाक्षीयः, साडलपुरे भवः साडलपुरीयः। कोपधलक्षमम् -औदके भव औदकीयः, चौल्लुके भवः चौल्लुकीयः। तेषां तु विधीनामवृद्धोऽवकाशः॥बाल-मनोरमावृद्धाच्छः 1318, 4.2.124 वृद्धाच्छः। वृद्धसंज्ञकाच्छः स्याज्जातादिष्वर्थेषु। अणोऽपवादः। शालीय इति। शालायां जात इत्यादिरर्थः। एवं तदीयः।बाल-मनोरमाभवतष्ठक्छसौ 1320, 4.2.124 भवतष्ठक्छसौ। भावत्क इति। `इसुसुक्तान्तात्कः। ननु भवच्छब्दाच्छस्य ईयादेशे सति भत्वेन पदत्वस्य बाधात्कथं जश्त्वमित्यत आह -जश्त्वमिति। सिति चे`ति पदत्वेन भत्वस्य बाधादिति भावः। ननु `भावत इति कथमण्प्रत्ययः, `त्यदादीनि चे`ति भवच्छब्दस्य वृद्धतया छस्यैव युक्तत्वादित्यत आह -वृद्धादित्यनुवृत्तेः शत्रन्तादणेवेति। त्यदादिषु `भातेर्डवतु`रिति डवत्वन्तस्यैव पाठादिति भावः।

Prakriyasarvasvam

वृद्धेभ्यः शेषेऽर्थे छः स्यात् । मालीयः । ‘शैषिकात् सरूपः शैषिको नेष्टः ।’ तेन मालीये भव इत्यत्र पुनश्छो न । विरूपात्तु स्यात् । राष्ट्रियीयः । संज्ञापूर्वत्वाद् वृद्धाच्छोऽनित्यः । द्वारपालस्येदं दौवारपालं धनम् । श्वदंष्ट्रायां भवः शौवदंष्ट्रः । द्वारादि । ‘गोत्रप्रत्ययान्तादसमस्तवदि’ति काश्यपीयवत् परमकाश्यपीय इत्यपि छः । ‘जिह्वाकात्यहरीतकात्यवर्णमित्युक्ते’स्तयोरणेव । जैह्वाकातः । हारीतकातः । आपत्ययलोपः । ‘त्यदादीनि चे’ति वृद्धत्वात् त्यदीयम् । तदीयम् । द्वीयेम् । किमीयम् ॥

Sutra Prayogas

  • जाह्नवीया (रघुवंशम्): वृद्धाच्छः इति छप्रत्ययः।

  • वाल्मीकीये (रघुवंशम्): वृद्धाच्छः इति छप्रत्ययः।

  • मदीये (भट्टिकाव्यम्): वृद्धाच्छः इति छप्रत्ययः।

  • भावत्कं (भट्टिकाव्यम्): भवतष्टक्छसौ इति ठक् प्रत्ययः।