42100: रंकोरमनुष्येऽण् च¶
Padacheda: रङ्कोः | S | 5 | 1 |
अ-मनुष्ये | S | 7 | 1 |
अण् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
After the word रंकु the affixes ष्फक् and अण् are added in the remaining senses when the meaning is a non-human being.
Vasu English Translation¶
After the word रंकु the affixes ष्फक् and अण् are added in the remaining senses when the meaning is a non-human being. As राङ्कवो गौः or राङ्कवायणो गौः but राङ्कवको मनुष्यः (4.2.134).
The word रंकु belongs to कच्छादि class (4.2.133); and when a human being is to be denoted, then by (4.2.134), it will take the affix अण्, and when a non-human being is to be designated, then it will take अण् by rule (4.2.133); then where is the necessity of the present sutra by which अण् is enjoined when a non-human being is to be designated ? To this the reply is that the force of the negative affix in amanuysha is that of इव; i.e. अमनुष्य = मनुष्य सदृशः “a being like man, but not man”. The word अमनुष्य does not mean ‘anything which is not a man’. For had this been its meaning, then a blanket is also a thing which is not a man, and in denoting a blanket, we should add ष्फक्; but we never do so. When blanket is to be denoted we add अण् of (4.2.133), as राङ्कवः “a woolen blanket”. When we want to denote a living being other than man, then we add अण् and ष्फक् of this sutra. The अण् is repeated in this sutra, for the purpose also of showing that otherwise अण् would have been debarred by the special affix ष्फक् ॥
The word रंकु is the name of a country, it would have taken अण् under the universal rule (4.1.83), but this is debarred by वुञ् of (4.2.125), and वुञ् is debarred by ठञ् of (4.2.119), and ठञ् is debarred by अण् of (4.2.132), as it has क् as penultimate, the present sutra debars that and ordains अण् and ष्फक् ॥
Bhashya¶
रङ्कोरमनुष्येऽण्च (1521) (अमनुष्यग्रहणाक्षेपभाष्यम्) अमनुष्य इति किमर्थम्? राङ्कवकः मनुष्यः॥ (5400 प्रत्याख्यानवार्तिकम्॥ 1 ॥) - रङ्कोरमनुष्यग्रहणानर्थक्यं मनुष्यतत्स्थयोर्वुञ्ञ्विधानात् - (भाष्यम्) रङ्कोरमनुष्यग्रहणमनर्थकम्। किं कारणम्? मनुष्यतत्स्थयोर्वुञ्ञ्विधानात्। अयं मनुष्ये मनुष्यस्थे च वुञ्ञ्विधीयते स बाधको भविष्यति॥ (एकदेशिभाष्यम्) एवं तर्हि ज्ञापयत्याचार्यः -अमनुष्ये मनुष्यस्थे ष्फगणौ भवत इति॥ (5401 प्रत्याख्यानसमर्थकं वार्तिकम्॥ 2 ॥) - अमनुष्ये मनुष्यस्थे ष्फगणोर्ज्ञापकमिति चेन्नानिष्टत्वात् - (भाष्यम्) अमनुष्ये मनुष्यस्थे ष्फगणोर्ज्ञापकमिति चेत्तन्न। किं कारणम्? अनिष्टत्वात्। न ह्यमनुष्ये मनुष्यस्थे ष्फगणाविष्येते। किं तर्हि? वुञ्ञेवेष्यते॥ (5402 अण्ग्रहणप्रत्याख्यानवार्तिकम्॥ 3 ॥) - अण्ग्रहणं च कच्छादिभ्योऽण्वचनात् - (भाष्यम्) अण्ग्रहणं चानर्थकम्। किं कारणम्? कच्छादिभ्योऽण्वचनात्। कच्छादिपाठादत्राण्भविष्यति॥
Kashika¶
रङ्कुशब्दादण् प्रत्ययो भवति, चकारात् ष्फक् च शैषिकोऽमनुष्येऽभिधेये। राङ्कवो गौः। राङ्कवायणो गौः। अमनुष्य इति किम्? राङ्कवको मनुष्यः। ननु च रङ्कुशब्दः कच्छादिषु (४.२.१३३) पठ्यते, तत्र च मनुष्यतत्स्थयोर्वुञ् (४.२.१३४) इति मनुष्ये परत्वाद् वुञैव भवितव्यम्, कच्छादिपाठादमनुष्येऽणपि सिद्धः, किमिह मनुष्यप्रतिषेधेनाण्ग्रहणेन च? तदुच्यते, नैवायं मनुष्यप्रतिषेधः। किं तर्हि? नञिवयुक्तन्यायेन मनुष्यसदृशे प्राणिनि प्रतिपत्तिः क्रियते। तेन राङ्कवः कम्बल इति ष्फग् न भवति। विशेषविहितेन च ष्फकाणो बाधा मा भूदित्यण्ग्रहणमपि क्रियते॥
Siddhanta Kaumudi¶
चात् ष्फक् । राङ्कवो गौः । राङ्कवायणः । अमनुष्य इति किम् । राङ्कवको मनुष्यः ॥
Balamanorama¶
रंकोरमनुष्येऽण् च - रङ्कोरमनुष्येऽण् च । रङ्कोरण् स्याच्चात्ष्फक् । राङ्कवो गौरिति । रङ्कुर्नाम देशविशेषः । तत्र जातादिरित्यर्थः । राङ्कवको मनुष्य इति । अत्र मनुष्यत्वान्न ष्फगणौ । किन्तुमनुष्यस्तत्स्थयो॑रिति वक्ष्यमाणो वुञ् । अकादेशः । राङ्कवो मनुष्य इति त्वपपाठः ।
Tattvabodhini¶
रंकोरमनुष्येऽण् च - रङ्कोरमनुष्ये । रङ्कवो जनपदः, ततःप्राग्दीव्यतोऽ॑णित्यण्प्राप्तः । तद्बाधकत्वेनअवृद्धादपी॑ति वुञ्प्राप्तः, तमपि बाधित्वाओर्देशे॑इति ठञप्राप्तः, तस्य तुकोपधादण्बाधकः, ततो ।ञपि परत्वात्कच्छाद्यणि प्राप्तेऽनेन ष्फगणौ विधीयेते । कोपधत्वादेवाऽणि सिद्धे कच्छादिषु सङ्कुशब्दस्य पाठोमनुष्यतत्स्थयोर्वुञ्विधानार्थ इति कैयटः । अतएवाह — — राङ्कवको मनुष्य इति॥ क्वचित्तुराङ्कव॑इति पठते, स तु लेखकप्रमादः । स्यादेतत् -अमनुष्यग्रहणमिह व्यर्थम्, अपवादेन वुञा तत्र ष्फगणोर्बाधेनाऽमनुष्य एव पर्यवसानात् । अण्ग्रहणमपि व्यर्थमेव, कच्छादित्वादेव तत्सिद्धेः । अत्राह काशिकाकृत् — नायं प्रसज्यप्रतिषेधः किं तु पर्युदासः, तेन मनुष्यभिन्ने प्राणिन्येव ष्फग्विधीयत इति, राङ्क्रवः कम्बल इत्यत्र न ष्फक् । विशेष विहितेन ष्पका अणो बाधा मा भूदित्यण्ग्रहणं च क्रियत इति । भाष्ये तु अप्राणिन्यपि ष्फकमङ्गीकत्येदं द्वयमपि प्रत्याख्यातम् ।
Padamanjari¶
रङ्कवो नाम जनपदः, ततः’प्राग्दीव्यतो’ ण्ऽ प्राप्तः, तस्य ठवृद्धादपिऽ इति वुञ् बाधकः, तस्य ओर्देअशे ठञ्, ततः कोपधादण्, ततः’कच्छादिभ्यश्च’ इत्यण् प्राप्तः, ततः ष्फगणौ विधीयेते । कोपधत्वादेवाणि सिद्धे रङ्कुशब्दस्य कच्छादिषु पाठो मनुष्यतत्स्थयोर्वुञ्विधानार्थः । मनुष्ये परत्वादिति । उत्कृष्टत्वाद् अपवादत्वादित्यर्थः । कच्छादिपाठारमनुष्येऽणपि सिद्ध इति । ननु च मनुष्यतत्स्थयोर्वुञ्विधानार्थस्तत्र पाठः स्यात्, ततश्च तद्व्यतिरिकते विषये ष्फगेव स्यात्, यत्राण् विधीयते ? नैतदस्ति; कच्छादिपाठस्योभयार्थत्वे बाधकाभावात् । नञिवयुक्तन्यायेन मनुष्यसदृशे प्राणिनि प्रतिपतिः क्रियते इति । यस्त्वमनुष्यशब्दो रक्षः पिशाचादिषु रूढः, न तस्यैव ग्रहणम् ; अनभिधानादिति मन्यते, अथैवं कस्मान्न विज्ञायते - परत्वादेव वुञि सिद्धे मनुष्यप्रतिषेधो ज्ञापयति -‘मनुष्यतत्स्थयोः’ इत्यस्याप्येतौ ष्फगणौ बाधकाविति, तेन तत्स्थे ष्फगणावेव भवतो न वुञिति ? तन्न; अनिष्टत्वात् । न हि तस्थे ष्फगणाविष्येते, किं तहि ? वुज्ञेव । राङ्कवः कम्बल इति ष्फग्न भवतीति । यथा तु वार्तिकं भाष्यं च तथात्र ष्फगिष्यते, मनुष्यप्रतिषएधश्च प्रत्याख्यातः । यथाऽऽह - रङ्कोरमनुष्यग्रहणानर्थक्यं मनुष्यतत्स्थयोर्वुञ्विधानात्, तत्स्थे ष्फगणोर्ज्ञापकमिति चेन्नानिष्टत्वादण्ग्रहणानर्थक्यं च कच्छादिभ्योऽणिवधानात्ऽ इति । विशेषविहितेन च ष्फकेति । अन्यथा कच्छादिपाठस्य प्राणिनि चरितार्थत्वात्प्राणिनि ष्फगेव स्यात् ॥
Nyaas¶
ओर्देशे ठञ् (4.2.119) इति ठञि जनपदतदवध्योश्च (4.2.124) इति जनपदलक्षणे वुञि कोपधादण् (4.2.132) इत्यणि प्राप्ते वचनम्। {कच्छादिपाठादमनुष्येऽणापि -काशिका,पदमञ्जरी च।} कच्छादिपाठादणिप सिद्धः इति। कच्छादिभ्यश्च (4.2.133) इत्यत्र कोपधादण् (4.2.132) इत्यण् ग्रहणानुवृत्तेः। नञिवयुक्तन्यायेन`इति। नञ्युक्ते चेवयुक्ते च तत्सदृशसम्प्रत्ययो भवति। इह च मनुष्यशब्दो नञ्युक्तः, तस्मान्नेह मनुष्यन्नेह मनुष्यप्रतिषेध्यः क्रियते। अपि च मनुष्यसदृशे प्राणिन्येव प्रवृत्तिः, तेन मनुष्यसदृशे प्राणिनि ष्फगणौ भवतः। अप्राणिनि तु कच्छादिपाठादणेव भवति, न ष्पक् - `राङ्कवः कम्बलः`इति। `विशेष विहितेन इत्यादि। यदीहाप्यण्न क्रियेत,तदा`{कच्छादिभ्यश्च इत्येव सूत्रम्।} कच्छादिभ्योऽण्` (4.2.132) इत्यणो राङ्कवः कम्बल इत्यत्र सावकाशत्वात् प्राणिनि विशेषविहितेन ष्फका तस्य बाधनं स्यात्। तस्मादेष दोषो मा भूदित्यणपि क्रियते॥
Prakriyasarvasvam¶
जनपदार्थादस्मात् अमनुष्ये प्राणिनि वाच्येऽण् ष्फक् च स्यात् । राङ्कवो मेषः । राङ्कवायणी गौः । अप्राणिनि त्वण् । राङ्कवः कम्बलः । वार्तिकमते तु तत्रापि ष्फगस्ति । राङ्कवायणः कम्बलः ॥