42076: स्त्रीषु सौवीरसाल्वप्राक्षु¶
Padacheda: स्त्रीषु | S | 7 | 3 |
सौवीर-साल्व-प्राक्षु | S | 7 | 3 |
Sutrartha¶
सौवीरे विद्यमानस्य देशस्य, साल्वे विद्यमानस्य देशस्य, तथा पूर्वदिशि विद्यमानस्य देशस्य चतुरर्थेषु स्त्रीलिङ्गे अभिधानम् कर्तव्यमस्ति चेत् अञ्-प्रत्ययः विधीयते ।
यदि सौवीरे विद्यमानस्य देशस्य/साल्वे विद्यमानस्य देशस्य चतुरर्थेषु स्त्रीलिङ्गे निर्देशः कर्तव्यः अस्ति, यदि वा पूर्वदिशि विद्यमानानाम् देशानाम् चतुरर्थेषु स्त्रीलिङ्गे निर्देशः कर्तव्यः अस्ति, तर्हि वर्तमानसूत्रेण अञ्-प्रत्ययः विधीयते । यथा 1. सौवीरदेशे वर्तमाना, दत्तमित्रेण निर्वृत्ता नगरी = दत्तमित्र + अञ् + ङीप् → दात्तमित्री नगरी । 2. साल्वदेशे वर्तमाना, विधूमाग्निना निर्वृत्ता नगरी = विधूमाग्नि + अञ् + ङीप् → वैधूमाग्नी नगरी । 3. पूर्वदिशि विद्यमाना, ककन्देन निर्वृत्ता नगरी = ककन्द + अञ् + ङीप् → काकन्दी नगरी । 4. पूर्वदिशि विद्यमाना, मकन्देन निर्वृत्ता नगरी = मकन्द + अञ् + ङीप् → माकन्दी नगरी । 5. पूर्वदिशि विद्यमाना, जरुषेण निर्वृत्ता नगरी = जरुष + अञ् + ङीप् → जारुषी नगरी । ज्ञातव्यम् - 1. अस्मिन् सूत्रे प्रयुक्तः ‘स्त्रीषु’ अयम् शब्दः ‘देश’ इत्यस्य विशेषणरूपेण प्रयुक्तः अस्ति । यः देशः स्त्रीलिङ्गवाची अस्ति (यथा ‘नगरी’, ‘पुरी’ आदयः) तस्य अयम् निर्देशः । 2. अष्टाध्याय्याम् तदस्मिन्नस्तीति देशे तन्नाम्नि (4.2.67), तेन निर्वृत्तम् (4.2.68), तस्य निवासः (4.2.69), तथा अदूरभवश्च (4.2.70) एते चत्वारः अर्थाः ‘चतुरर्थाः’ नाम्ना ज्ञायन्ते ।
Sutrartha (English)¶
In the context of चतुरर्थाः, To indicate the feminine name of a country in the सौवीर region, शाल्व region or eastern region, the अञ् प्रत्यय is used.
Vasu English Summary¶
So also when the palace is situated in the lands of the सौवीर or साल्व or of the Eatern People and the word in these cases is always feminine.
Vasu English Translation¶
So also when the palace is situated in the lands of the सौवीर or साल्व or of the Eatern People and the word in these cases is always feminine. The word सौवीर &c, are attributes of देशेतन्नाम्नि (4.2.67): so also the word स्त्रीषु ॥ Thus दात्तामित्री “the city founded by Dattamitra” (in Sauvira). So also वैधूमाग्नी (in Salva) काकन्दी, माकन्दी, माणिचरी, जारुषी (in Eastern countries).
Kashika¶
देशे तन्नाम्नीत्यस्य विशेषणं सौवीरादयः, स्त्रीत्वं च । ङ्याप्प्रातिपदिकादञ् प्रत्ययो भवति चातुरर्थिकः, अणोऽपवादः, सौवीरे स्त्रीलिङ्गे देशे वाच्ये साल्वे प्राचि। सौवीरे तावत् — दत्तामित्रेण निर्वृत्ता नगरी दात्तामित्री। साल्वे — विधूमाग्निना निर्वृत्ता वैधूमाग्नी। प्राचि खल्वपि — ककन्देन निर्वृत्ता काकन्दी। माकन्दी। माणिचरी। जारुषी॥
Siddhanta Kaumudi¶
स्त्रीलिङ्गेषु एषु देशेषु वाच्येष्वञ् । सौवीरे, दत्तामित्रेण निर्वृत्ता दात्तामित्री नगरी । साल्वे, वैधूमाग्नी । प्राचि, माकन्दी ॥
Balamanorama¶
स्त्रीषु सौवीरसाल्वप्राक्षु - स्त्रीषु सौवीर । सौवीरे इति । ‘उदाहरणं वक्ष्यते’ इति शेषः । दात्तामित्री नगरीति ।टिड्ढे॑ति ङीप् । साल्वे इति । ‘उदाह्यियते’ इति शेषः । वैधूमाग्नीति । विधामाग्निना निर्वृत्तेत्यर्थः । अञि ङीप् । प्राचीति । प्राचि देशे उदाह्यियत इत्यर्थः । माकन्दीति । माकन्देन निर्वृत्तेत्यर्थः ।
Prakriyasarvasvam¶
सौवीरेषु साल्वेषु प्राग्देशेषु च स्त्रीलिङ्गेषु देशेषु वाच्येष्वञ् । सौवीरे—दत्तमित्रकृता, दात्तमित्री नगरी । साल्वे—वैधूमाग्नी तत्कृता । प्राक्षु— काकन्दकृता, काकन्दी पूः ॥