42059: तदधीते तद्वेद¶
Padacheda: तत् | S | 2 | 1 |
अधीते | T | | |
तत् | S | 2 | 1 |
वेद | T | | |
Sutrartha¶
Vasu English Summary¶
The affix अण् – प्राग्दीव्यतोऽण् (4.1.83) comes after a word denoting ‘some subject of study’ in the sense of ‘who has studied that or who understands that’.
Vasu English Translation¶
The affix अण् – प्राग्दीव्यतोऽण् (4.1.83) comes after a word denoting ‘some subject of study’ in the sense of ‘who has studied that or who understands that’. In others words, the sutra means that the affix is added to a word in the accusative case in construction, denoting a person who studies or knows, that. As छन्दोऽधीते = छान्दसः ‘who studies Prosody’. वैयाकरणः (7.3.3) ‘who knows grammar’. So also नैरुक्तः, नैमित्तः ‘who knows the causes’. भौहूर्त्तः, औत्पातः ॥ The word तद् is repeated in this sutra, in order to show a distinction between one who studies and who understands.
Bhashya¶
तदधीते तद्वेद (1482) (अर्थाधिकरणम्) (अर्थद्वयकथनप्रयोजनभाष्यम्) किमर्थमिमावुभावप्यर्थौ निर्दिश्येते, न योऽधीते वेत्त्यप्यसौ, यस्तु वेत्त्यधीतेऽप्यसौ। नैतयोरावश्यकः समावेशः। भवति हि कश्चित्संपाठं पठति, न च वेत्ति; कश्चिच्च वेत्ति, न च संपाठं पठति॥
Kashika¶
तदिति द्वितीयासमर्थादधीते वेद इत्येतयोरर्थयोर्यथाविहितं प्रत्ययो भवति। छन्दोऽधीते छान्दसः। वैयाकरणः। नैरुक्तः। निमित्तानि वेद नैमित्तः। मौहूर्तः। औत्पातः। द्विस्तद्ग्रहणमधीयानविदुषोः पृथग्विधानार्थम्॥
Siddhanta Kaumudi¶
व्याकरणमधीते वेद वा वैयाकरणः ॥
Balamanorama¶
तदधीते तद्वेद - तदधीते । तदधीते इत्यर्थे, तद्वेत्तीत्यर्थे च द्वितीयान्तादणादयः स्युरित्यर्थः । गुरुमुखादक्षरानुपूर्वीग्रहणमध्ययनम् । शब्दार्थज्ञानं वेदनम् । एतेन अध्ययनविधिरर्थज्ञानपर्यन्त इति कतिपयमीमांसकोक्तिः परास्ता, पृथग्ग्रहणवैयथ्र्यात् । यताचैतत्तथा अध्वरमीमासाकुतूहलवृत्तौ प्रपञ्चितमस्माभिः । वैयाकरण इति । अणिन य्वाभ्यामि॑त्यैजागमः ।ऋतूक्थादि । ‘तदधीते तद्वेदे’ त्यर्थयोः — क्रतु, उक्थादि,सूत्रान्तः-एभ्यः ठक् स्यादित्यर्थः । क्रतुविशेषवाचिनामेवेति । न तु क्रतुशब्दस्यैवेत्यर्थः । अन्यथा उक्थादिगण एव क्रतुशब्दमपि पठेदिति भावः । ननु क्रतुविशेषाणां कथमद्ययनम्, अक्षरग्रहणात्मकत्वाऽभावादित्यत आहतेभ्य इति । अग्निष्टोमादिशब्दाः क्रतुविशेषेषु मुख्याः । तत्प्रतिपादकग्रन्थेषु तु गौणाः । तत्र क्रतुविशेषात्मकमुख्यार्थकेभ्योऽग्निष्टोमादिशब्देभ्यो वेदितरि प्रत्ययाः । अग्निष्टोमादिक्रतुप्रतिपादकग्रन्थेषु लक्षणया विद्यमानेभ्यस्तु तेभ्योऽध्येतरीत्यर्थः । आग्निष्टोमिक इति । अग्निष्टोमं क्रतुं वेत्ति, तत्प्रतिपादकग्रन्थमधीते इति वाऽर्थः । उक्थशब्दः सामसु मुख्यः । सामलक्षणग्रन्थे प्रातिशाख्ये तु गौणः । तत्र गौणार्थकादेव उक्थशब्दाट्ठगित्याह — उक्थं सामविशेष इति ।अग्निष्टोमस्तोत्रात्परं यत्साम गीयते॑ इति वृत्तिकृदुक्तेरिति भावः । भाष्ये तु सामशब्दपर्याय उक्थशब्द इति लक्ष्यते । मुख्यार्थादिति । सामवाचिन उक्थशब्दात्तु न ठक् । तस्मिन्निषिद्धे तदधीते इत्यण् च न भवतीत्यर्थः । भाष्ये तु मुख्यार्थकादुक्थशब्दाट्ठक् नेत्येव लक्ष्यते । उक्थादिगणपठितान्न्यायादिशब्दाट्ठकमुदाहरति — न्यायमिति ।अधीते वेत्ति वे॑ति शेषः । नैयायिक इति । ठकि ऐजागमः । वृत्तिमिति ।अधीते वेद वे॑ति शेषः । वार्त्तिक इति । ठकि आदिवृद्धौ रपरत्वम् । साङ्ग्रहसूत्रिक इति । संग्रहाख्यं सूत्रमधीते वेत्ति वेत्यर्थः । विद्यालक्षणेति । विद्या, लक्षण, कल्प-एतदन्तादपि उक्तेऽर्थे ठगित्यर्थः । अङ्गेति । अङ्ग, क्षत्र, धर्म, त्रि-एतत्पूर्वकाद्विद्यान्तात्समासाट्ठक् नेत्यर्थः । ततश्च अणेव । त्रिविद्या इति । शाकपार्थिवादित्वाद्विधाशब्दस्य लोप इति भावः । तिरुआओ विद्यास्त्रिविद्या इति न विग्रहः,दिक्सङ्ख्ये संज्ञाया॑मिति नियमात् । नापि तिरुआओ विद्या अधीते वेद वेति तद्धितार्थे द्विगुः, तथा सति तद्धितस्य द्विगुनिमित्ततया ‘द्विगोर्लुगनपत्ये’ इति लुगापत्तेः । तिसृणां विद्यानां समाहर इति द्विगुरप्यत्र निर्बाध एव । आख्यानेति । आख्यान, आख्यायिका, इतिहास, पुराण-एभ्यश्च उक्तेऽर्थे ठग्वक्तव्य इत्यर्थः । तत्र आख्यानशब्देन आक्यायिकाशब्देन च आख्यानविशेषवाचिन आख्यायिकाविशेषवाचिनश्च ग्रहणम् । इतिहास पुराणशब्दयोस्तु स्वरूपयोरेव ग्रहणम् । आख्यानं नाम कथाप्रबन्धः ।आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षण॑मित्यमरः ।इतिहासः पुरावृत्त॑मिति च ।सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चेति पुराणं पञ्चलक्षमम् । तत्र आख्यानादुदाहरति — यवक्रीतमिति । आख्यायिकाया उदाहरति — वासवदत्तामिति । लुग्वक्तव्य इति ।उक्तप्रत्ययस्ये॑ति शेषः । सर्ववेद इति । अणो लुकि आदिवृद्ध्यभावः । सर्वतन्त्र इति । सर्वतन्त्राण्यधीते वेद वेत्यर्थः । सवार्तिंक इति । वार्तिकेन सह सवार्तिकम् ।तेन सहे॑ति बहुव्रीहि ।वौपसर्जनस्ये॑ति सभावः । सवार्तिकं सूत्रमधीते इत्यर्थः । द्विगोरिति । द्वे तन्त्रे अधीते वेत्ति वेत्यर्थे तद्धितार्थे द्विगुनिमित्तत्वादणो लुकि आदिवृद्ध्यभावे ‘द्वितन्त्र’ इति रूपमित्यर्थः । इकन्पदोत्तरपदादिति । पदशब्द उत्तरपदं यस्य स पदोत्तरपदः, तस्मादुक्तेऽर्थे इकन्प्रत्ययो वक्तव्यः । शतषष्टेः षिकन्पथ इति । शतशब्दात्षष्टिशब्दाच्च परो यः पथिन्शब्दस्तस्मादुक्तेर्थे षिकन्प्रत्ययो वक्तव्य इत्यर्थः । पूर्वपदिक इति । पूर्वपदमधीते वेत्ति वेत्यर्थः । एवमुत्तरपदिकः । शतपथिक इति । शतपथं नाम वाजसनेयिब्राआहृणं । तदधीते वेत्ति वेत्यर्थः । शतपथिकीति । षित्त्वान्ङीषिति भावः । एवं षष्ठिपथिकः । षष्टिपथिकीति ।
Tattvabodhini¶
तदधीते तद्वेद - तदधीते । द्वितीयान्तादध्येतरि वेदितरि च प्रत्ययः स्यात् । द्विस्तद्ग्रहणमधीयाने विदुषि च प्रत्येकं विधानार्थम् । तेनोत्तरत्र क्रतुवसन्तादयः शब्दास्तत्प्रतिपादकग्रन्थे गौणा अप्यधीयानेऽपि प्रत्ययं प्राप्रनुवन्ति । अन्यथा तेषामध्ययनाऽसंभवेन वेदितर्येव प्रत्ययः स्यादिति भावः ।
Padamanjari¶
इह योऽयं ग्रन्थमधीते स तं स्वरूपता वेति, यश्च वेति सोऽवश्यमधीते - इत्यन्यतरोपादानेन सिद्धम्, किमर्थमिमावर्थावुपदिश्येते, नैतयोरावश्यकः समावेशः, अध्ययनमु शब्दपाठः, अर्थावबोधः उ वेदनम्, भवति च - कश्चित्संपाठ्ंअ पठति नार्थं वेति, कश्चिच्चार्थं वेति न संपाठ्ंअ पठति । द्विस्तद्ग्रहणमित्यादि ।’तदधीते वेद’ इत्युच्यमाने समुच्चयो विज्ञायेत, ततश्च यस्तदधीते वेद च तत्रैव स्यात्, यस्तु केवलमधीते वेद वा न तत्र स्यात्; द्विस्तद्ग्रहणे तु वाक्यभेदेनाधीयानविदुषोः पृथक्प्रत्ययविधानं सिध्यति । ननु च’तदस्य तदस्मिन्स्यात्’ इत्यत्र नानार्थनिर्देशे प्रत्येकं समर्थविभक्तिः सम्बन्धनीयेति द्विस्तद्ग्रहणेन न्यायो व्युत्पादयिष्यते, अत एव’तेन दीव्यति’ इत्यत्र प्रत्यर्थं प्रत्ययो भवति ? न ब्रूमः - इहैव द्विस्तद्ग्रहणमधीयानविदुषोः पृथग्विधानार्थमिति, किं तर्हि ? उतरत्र’क्रतूक्थादिसूत्रान्ताठठक्’ ,’वसन्तादिभ्यष्टक्’ इत्यत्रापि, किं च कारणं न स्यात् ? क्रतुशब्दः कर्मनामदेयं वसन्तादयोऽप्यर्थाः, न तेषामध्ययनं सम्भवति, तस्य शब्दविषयत्वात्, तत्सहचरिते तु ग्रन्थे सम्भवति, गौणत्वातु न गृह्यते, मुख्य एव त्वर्थे वेदनं सम्भवतीति तेभ्यो विदुष्येव स्याद्, नाध्येतरि । पुनस्तद्ग्रहणातु यत्नाद् गौणस्यापि ग्रहणातत्रापि भवति ॥
Nyaas¶
वैयाकरणः इति। नन य्वाभ्याम् (7.3.3) इत्यादिना वृद्धिप्रतिषेधः,ऐजागमश्च। द्विस्तद्दग्रहणम् इत्यादि। यदि तदधीते वेद इत्येवोच्येत प्रत्ययार्थद्वस्य द्वितीयासमर्थे समुच्चयो विज्ञायते, ततश्च यस्त्वधीते वेत्ति च तत्रैव स्यात्; यस्त्वधीते केवलं न वेत्ति, वेत्ति वा केवलं नाधीते तत्र न स्यात्। द्विस्तद्ग्रहणे तु वाक्यभेदादधीयाने विदुषि च प्रत्येकं प्रत्ययः सिध्यति। तदर्थं द्विस्तद्ग्रहणम्। नैतद्द्विस्तद्ग्रहणस्य प्रयोजनम्, यथैव हि ते न दीव्यति खनति जयति जितम् (4.4.2) इत्यत्र सकृत् समर्थविभक्त्युपादानेऽपि प्रत्ययार्थचतुष्टयेन तृतीयासमर्थेन समुच्चयो न विज्ञायते,तथेहापि न विज्ञास्यते। तेन यथा दीव्यतिप्रभृतिषु प्रत्ययो भवति, तथेहापि प्रत्येकमधीयाने विदुषि च भविष्यतीति? न ब्राऊमः - इहैव द्विस्तद्ग्रहणमधीयानविदुषोः पृथग्विधानार्थमिति। कुतस्तर्हि? **क्रतूक्थादिसूत्रान्ताट्ठक्** (4.2.60) , **वसन्तादिभ्यष्ठक्** (4.2.63) इत्यत्र च। किं कारणं तत्र न स्यात्? क्रतुशब्दः कर्मनामधेयः,वसन्तादयोऽप्यृतुवचनाः, तेषामध्ययनं नोपपद्यते। तत्सहचरिते ग्रन्थे स्यात्, स च तत्र गोण इति न गृह्रते। मुख्य एवार्थे वेदने सम्भवतीति तेभ्यो विदुष्येण प्रत्ययः स्यात्, नाध्येतरि। पुनर्द्विस्तद्ग्रहणाद्गौणस्यापि ग्रहणं भवतीति प्रत्येकमध्येतृविदुषोरत्र ठक्प्रत्ययो भवति॥क्रतुशब्दः कर्मनामधेयः, तस्याध्यनवेदने द्वे न सम्भवत इति साहचर्यात् तदर्थो ग्रन्थो गृह्रते, न तु क्रतुनामा क्रतुरस्तीति तद्विशेषा येऽग्निष्टोमादयस्तद्रथो ग्रन्थो गृह्रते, तत्र चाह - `क्रतुविशेषवाचिभ्यः इति। अग्निष्टोममधीत इत्यग्निष्टोमेन सहचरितं तदर्थग्रन्थमधीत इत्यर्थः।सूत्रान्तादकल्पादेरिष्यते इति। किमिष्यत एव? ततो न तत् शस्यते, लभ्यते च। कुतः? वेत्यनुवृत्तेव्र्यवस्थितविभाषाविज्ञानात्। किं तर्हि? सामलक्षण औक्थिक्ये वर्तमाने इति। उक्थसंज्ञकानां साम्नलक्षणं व्याख्याग्रन्थ औक्थिक्यः, {छन्दोगौक्थिक्य इतिमु।पाठः।} छन्दोगौक्थिकय` (4.3.129) इत्यादिना ञ्यः। तत्रौक्थिक्ये सामलक्षणेग्रन्थे वर्तमान उक्थशब्दः प्रत्ययमुत्पादयति। कुत एतत्? गौणेन सह क्रतुशब्देन निर्देशात्। औक्थिक्ये उक्थशब्दस्य वृत्तिस्तादथ्र्याद्भवति। भवति च तादथ्र्यात् ताच्छब्द्यम्, यथा - प्रदीपार्था मल्लिका प्रदीप इति। औक्थिक्यं योऽधीते कथं तत्र भवितव्यम्? इत्यत आङ - औक्थिक्यशब्दाच्च इति। तत्रैव कारणमाह - अनभिधानात् इति।विद्यालक्षणकल्पसूत्रान्तात् (ग।सू।84), इत्यस्यातिप्रसक्तस्यापवादमाह - विद्या च`इत्यादि। विद्याशब्दोऽनङ्गक्षत्रधर्मसंसर्गत्रिपूर्व एव प्रत्ययमुत्पादयति, नाङ्गादिपूर्व इत्यर्थः। `त्रैविद्यः इति। त्र्यवयवा विद्या, शाकपार्थिवादित्वादुत्तरपदलोपी समासः। त्रिविद्यामधीते त्रैविद्यः। यावक्रीतमाख्यानधीते यावक्रीतिकः। प्रियङ्गुमधीते प्रैयङ्गविकः। वासवदत्तामाख्ययिकामधीते वासवदत्तिकः। सुमनोत्तरामधीते सौमनोत्तरिकः।`सर्वसादेर्द्विगोश्च लः इति। सर्वादेः सादेर्द्विगोरुत्पन्नस्य ठको लोपो भवतीत्यर्थः। ननु च द्विगोर्लुगनपत्ये (4.1.88) इत्येवं सिद्धः? सत्यमेतत्; इह तु कैश्चित् विद्यालक्षणकल्पसूत्रान्तात् (ग।सू।84) इत्यादिना प्रतिपदं प्रत्ययो विधीयते। तद् द्वेष्यमपि जायेत। प्रतिपदविधानान्न लुक्, ततो लुग्वचनम्।अनुसूर्लक्ष्यलक्षणे च इति। अनुसूशब्दः प्रत्ययमुत्पादयति। लक्ष्यलक्षणे च शब्दरूपे प्रत्ययमुत्पादयतः। आनुसुकः इति। इसुसुक्तान्तात् कः (7.3.51) इति कः, केऽणः (7.4.13) इति ह्रस्वः।इकन बहुलं पदोत्तरपदात् इति। पदशब्द उत्तरपदं यस्य स तथोक्तः।`शतषष्टेः षिकन् पथः`इति। शतषष्टिशब्दाभ्यामुत्तरस्मात् पथः षिकन् प्रत्ययो भवति। षकारो ङीषर्थः, नकारः स्वरार्थः। एतत्सर्वमुक्थादिषु पाठादेव सिद्धम्। यदपीह किञ्चिन्न पठते, तदपि च बहुलग्रहणेन संगृहीतम्। उक्थादिष्वपि षिकन् बहुलं पदोत्तरपदाच्चेति पठते॥
Prakriyasarvasvam¶
अनयोरर्थयोरण् स्यात् । प्रायेण ग्रन्थपरेभ्य एवेष्टम् । व्याकरणमधीते वैयाकरणः । ‘न य्वाभ्याम्—’ (७-३-३) इत्यैच् । निमित्तं वेद नैमित्तः । तैतिल्यादिभिः कृतास्तैतिलिजाजलिलाङ्गलिनो नाम ग्रन्थाः । तानधीत इत्यणि ‘इनणी—’ (६-४-१६४) ति प्रकृतिभावे प्राप्ते, ‘सब्रह्मचारिपीठसर्पिकलापिकौथु- मितैतिलिजाजलिलाङ्ग्लिशिलालिशिखण्डिसूकरसद्मसुपर्वणां टिलोपो वाच्यः’ ।। (वा० ६-४-१४४) तैतिलः । जाजलः । लाङ्गलः । द्वौ वेदाबधीते द्विवेदः । ‘द्विगोलुर्गननपत्ये’ (४-१-८८) इत्यणो लुक् ।।