42009: वामदेवाड्ड्यड्ड्यौ

Padacheda: वामदेवात् | S | 5 | 1 |

ड्यत्-ड्यौ | S | 1 | 2 |

Sutrartha

‘दृष्टं साम’ अस्मिन् अर्थे तृतीयासमर्थात् वामदेव-शब्दात् ‘ड्यत्’ तथा ‘ड्य’ प्रत्ययौ भवतः

दृष्टं साम (4.2.7) अस्मिन् अर्थे ‘वामदेव’ शब्दात् ड्यत् तथा ड्य एतौ प्रत्ययौ भवतः । वामदेवेन दृष्टं साम → वामदेव + ड्यत् / ड्य → वामदेव् + य [टेः (6.4.143) इति टिलोपः] → वामदेव्य ज्ञातव्यम् 1. ड्यत्-प्रत्ययान्तरूपम् ड्य-प्रत्ययान्तरूपम् च समानमेव भवति । द्वयोः रूपयोः केवलं स्वरभेदः अस्ति । तित्स्वरितम् (6.1.185) इत्यनेन ड्यत्-प्रत्ययान्त-‘वामदेव्य’ शब्दस्य यकारोत्तरः अकारः स्वरितः जायते, परन्तु ड्य-प्रत्ययनिर्मितस्य ‘वामदेव्य’ शब्दस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । 2. एतयोः प्रत्यययोः डकारस्य इत्संज्ञायाः किम् प्रयोजनम्? डकारः नास्ति चेदपि अङ्गस्य भसंज्ञां कृत्वा यस्येति च (6.4.148) इत्यनेन अन्तिमवर्णलोपं कृत्वा अपि एते एव रूपे भवतः । अतः अत्र डकारः किमर्थम् प्रयुक्तः इति प्रश्नः उपतिष्ठति । अस्मिन् विषये भाष्यकारः ब्रूते - सिद्धे ‘यस्येति’लोपेन किमर्थं य-यतौ डितौ। ग्रहणं माऽतदर्थे भूत् वामदेव्यस्य नञ्स्वरे ॥ इत्युक्ते, केवलं य/यत् इति उच्यते चेत् ययतोः च अतदर्थे (6.2.156) अस्य सूत्रस्य अपि ‘वामदेव्य’ शब्दस्य विषये प्रसक्तिः स्यात् । एवं भवति चेत् ‘अवामदेव्य’ अस्य शब्दस्य अन्तिमस्वरः (यकारोत्तरः अकारः) उदात्तः भवेत् । तत् तथा मा भूत्, एतत् स्पष्टीकर्तुमत्र डकारः प्रयुक्तः अस्ति । (अवामदेव्य इत्यत्र अकारः उदात्तः भवति, अतः शेषनिघातेन यकारोत्तरः अकारः अनुदात्तः अस्ति ।) ।

Sutrartha (English)

The word वामदेव gets the प्रत्ययs ड्यत् and ड्य in the meaning of ‘तेन दृष्टं साम’.

Vasu English Summary

The affixes ड्यत् and ड्य come in the sense of the साम वेद seen after the word वामदेव , being in the Instrumental -3rd case in construction.

Vasu English Translation

The affixes ड्यत् and ड्य come in the sense of the साम वेद seen after the word वामदेव , being in the Instrumental -3rd case in construction. Karika सिद्धे यस्येतिलोपेन किमर्थं ययतौ डितौ । ग्रहणं माऽतदर्थे भूद्वामदेव्यस्य नञ्स्वरे ॥

This debars अण् ॥ Thus वामदेवेन दृष्टं साम = वामदेव्यं॑ or वामदेव्यं꣡ ॥ The indicatory त् in ‘dyat’ shows that य has svarita accent (6.1.125).

  1. What is the use of the indicatory ड्?

Ans. The final syllable is elided when a डित् affix is added, by (6.4.143).

  1. The final अ of वामदेव would have been elided without making this affix डित्, by the rule (6.4.148), then what is the use of making this affix डित्?

Ans. Well, the author here indicates by jnapaka, the existence of these two maxims of interpretation, viz. Paribhashas निरनुबन्धकग्रहणे न सानुबन्धकस्य “when a term void of anubandhas is employed, it does not denote that which has an anubandha attached to it”. तदनुबन्धकग्रहणे नातदनुबन्धकस्य “when a term with one or more anubandhas is employed it does not denote that which, in addition to those, has another anubandha attached to it”.

For had य and यत् been only taught instead of ‘dya’ and ‘dyat’, then by rule (6.2.156) the final of such word, with the negative particle अ, would take udatta on the final, but that is not the case. Therefore अवामदेव्यं is not finally acute, but has acute on the first syllable, taking the accent of the Indeclinable (6.2.2). As अ꣡वामदेव्यं ॥

Bhashya

वामदेवाडड्यड्ड्यौ (1432) (ड्यड्ड्ययोरधिकरणम्) (डित्त्वफलबोधकभाष्यम्) किमर्थो डकारः? डितीति लोपो यथा स्यात्। नैतदस्ति प्रयोजनम्। यस्येति लोपेनाप्येतत्सिद्धम्। एवं तर्हि सिद्धे सति यद्ययतौ डितौ करोति तज् ज्ञापयत्याचार्यः -भवत एते परिभाषे -अननुबन्धकग्रहणे न सानुबन्धकस्य ग्रहणम्, तदनुबन्धकग्रहणे नातदनुबन्धकस्य ग्रहणमिति॥ (ज्ञापनफलबोधकभाष्यम्) किमेतस्य ज्ञापने प्रयोजनम्? अवामदेव्यमित्येतत्सिद्धं भवति। सिद्धे यस्येति लोपेन किमर्थं ययतौ डितौ। ग्रहणं माऽतदर्थे भू- द्वामदेव्यस्य नञ्ञ्स्वरे॥

Kashika

वामदेवशब्दात् तृतीयासमर्थाद् दृष्टं सामेत्येतस्मिन्नर्थे ड्यत् ड्य इत्येतौ प्रत्ययौ भवतः। अणोऽपवादः। वामदेवेन दृष्टं साम वामदेव्यं साम। तित्करणं स्वरार्थम्। डित्करणं किमर्थम्? ययतोश्चातदर्थे (६.२.१५६) इति नञ उत्तरस्यान्तोदात्तत्वे विधीयमानेऽनयोर्ग्रहणं मा भूत्। अननुबन्धकग्रहणपरिभाषया एकानुबन्धकग्रहणपरिभाषया चानयोर्निवृत्तिः क्रियते। अवा॑मदेव्यम्।

सिद्धे यस्येतिलोपेन किमर्थं ययतौ डितौ ।

ग्रहणं मातदर्थे भूद् वामदेव्यस्य नञ्स्वरे॥

Siddhanta Kaumudi

वामदेवेन दृष्टं साम वामदेव्यम् ॥ सिद्धे यस्येतिलोपेन किमर्थं ययतौ डितौ । ग्रहणं माऽतदर्थे भूद्वामदेव्यस्य नञ्स्वरे ॥ 1 ॥ इति भाष्यम् ॥

Laghu Siddhanta Kaumudi

वामदेवेन दृष्टं साम वामदेव्यम्॥

Balamanorama

वामदेवाड्ड्यड्ड्यौ - वामदेवाड्डड्डऔ । वामदेव्यमिति । डित्त्वाट्टिलोपः । तित्त्वं स्वरार्थम् । ननुयस्येति चे॑ति लोपेन सिद्धे किमर्थमिह डित्करणमिति चेत्, सत्यम्ययतोरेव विधौ ‘ययतोश्चाऽतदर्थे’ इति नञः परस्य ययदन्तस्यान्तोदात्तस्वरविधावनयोग्र्रहणं स्यात्, तदभावार्थ डित्करणं । डित्करणे सति तु स्वरविधावनयोर्न ग्रहणंनिरनुबन्धकग्रहणे सति न सानुबन्धकस्य ग्रहण॑मिति परिभाषयातदनुबन्धकग्रहणे सति नाऽतदनुबन्धकस्य॑ इति परिभाषया च तन्निवृत्तिर्भवति । एते तु परिभाषे इहैव ज्ञाप्येते । तथाचअवामदेव्य॑मित्यत्राऽयं स्वरो न भवति । एतत्सङ्ग्राहकं भाष्यस्थं श्लोकं पठति — सिद्धे यस्येत्यादि । अत्र पूर्वार्धमाक्षेपपरम् । ‘यस्य’ इति लोपेन सिद्धे ययतौ किमर्थं डितौ कृतावित्यर्थः । ग्रहणमिति । वामदेव्यशब्दस्य नञ्स्वरे=नञाश्रयस्वरविधौ अतदर्थे=नञाश्रयस्वरविधौ अतदर्थे=॒ययतोश्चातदर्थे॑ इति सूत्रे अनयोडर्ड्डयोग्र्रहणं मा भूदित्येतदर्थं डित्करणमित्यर्थः ।

Tattvabodhini

वामदेवाड्ड्यड्ड्यौ - वामदेवात् । ग्रहणं माऽदर्थैत्यादि । अतदर्थे — ॒ययतोश्चातदर्थे इति विहिते॑नञ्स्वरे -नञाश्रितस्वरे डड्डतोग्र्रहणं मा भूदित्यर्थः ।ययतोश्चे॑ति सूत्रेण विधीयमानं नञः परस्य ययदन्तस्योत्तरपदस्यान्तोदात्तत्वमवामदेव्यशब्दे मा भूत् किंतु — — अव्ययपूरक्लपदस्वर एव यखा स्यादित्येतदर्थं ढित्करणमिति फलितोऽर्थः । न च कृतेऽपि डित्त्वेययतो॑रित्यस्य प्रवृत्तिः कृतो नेति शङ्क्यं,निरनुबन्धकग्रहणे न सानुबन्धकस्य॑,तदनुबन्धकग्रहणे नाऽतदनुबन्धकस्ये॑ति परिभाषयोः सत्त्वात् । इमे च परिभाषे इहैव डित्त्वेन ज्ञाप्येते । तत्राऽऽद्यायाः प्रयोजनं -॒पूरणगुणे॑ति सूत्रे तव्यग्रहणे तव्यतोऽग्रहणम् । द्वितीयस्यास्तु अङ्ग्रहण् चङोऽग्रहणम् ।आयतेरः॑अहि परे॑इति शेषः । अआत् । चङि परे तु न , अशिइआयत् ।

Padamanjari

डिस्कारणं किमर्थमिति । यस्येति लोपेनैव सिद्धि मत्वा प्रश्नः । अनयोर्ग्रहणं मा भूदिति । अथ’क्रियमाणे’ पि डित्करणे कस्मादेवानयोर्ग्रहणं न भवति ? तत्राह - अननुबन्धकेति । ठननुबन्धकस्य ग्रहणे न सानुबन्धकस्यऽ इति यग्रहणे ड।ल्ड।ल्तोर्ग्रहणं न भवति, एकानुबन्धकपरिभाषया तु यद्ग्रहणे ड।ल्तो ग्रहणाभावः । अवामदेव्यमिति । अव्ययपूर्वपदप्रकृतिस्वरेणाद्यौदातत्वमेव भवति । संग्रहश्लोके अतदर्थे इत्यनेन’ययतोश्चातदर्थे’ इत्येतत्सूत्रं लक्ष्यते । नञ्स्वर इति । नञाश्रयः स्वरो नञ्स्वरः, उतरपदान्तोदातत्वं तस्मिन्विधीयमाने इत्यर्थः ॥

Nyaas

{उदाहरणद्वयं मूले नास्ति, एवमेव वामदेव्य् इति दृश्यते।} वामदेव्यम्, वागमदेव्यम् इति। एकस्तित्स्वरेणान्तस्वरितः, द्वितीयः प्रत्ययस्वरेणान्तोदात्तः।ङित्करणं किमर्थम् इति। यस्येति च (6.4.148) इत्येवं लोपस्य सिद्धत्वाड्डित्करणस्यानर्थक्यं मन्यते - डड्डआवित्यादि। न वामदेव्यमवामदेव्यमिति - - अत्र नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः (6.2.155) इत्यतो नञ इत्यनुवर्तमाने ययतोश्चातदर्थे (6.2.156) इत्युत्तरपदस्यान्तोदात्तत्वे विधीयमानेऽनयोग्र्रहणं मा भूदित्येवमर्थ डित्करणम्। असति च तत्रानयोग्र्रहणे नञ एव स्वरो भवति, स पुनरुदात्तः। निपाता आद्युदात्ता भवन्ति (फिट्।सू।4।80) इति वचनात्। अथ क्रियमाणे डित्करणे कस्मादनयोग्र्रहणं न भवति? इत्याह्म - निरनुबन्धग्रहणे न सानुबन्धकस्य (व्या।प।53) इति परिभाषया डडडयोरपि निवृत्तिः क्रियते। यद्ग्रहणेऽपि एकानुबन्धकरणे न द्व्यनुबन्धकस्य (व्या।प।52) इति परिभाषया यतः। अनयोश्च परिभाषयोरस्तित्व एतदेव डित्करणं लिङ्गम्।सङ्ग्रहश्लोके अतदर्थे इत्यनेन ययतोश्चातदर्थे (6.2.156) इत्येतत् सूत्रं लभ्यते। एतस्मिन् सूत्रे इत्यर्थः। `नञ्स्वरे`इति। नञो यः स्वरः नञ्स्वरः। शेषो गतार्थः॥

Prakriyasarvasvam

वामदेव्यमिदं साम ड्यतस्तित्त्वात् स्वरे भिदा । यस्येति लोपतः सिद्धेर्डित्फलं चोभयोः स्वरे ॥ २३० ॥<!तीयादीकक् स्वार्थे वा वाच्यः!> (वा० ४-२-८) द्वैतीयीकं, द्वितीयं, तार्तीयीकं तृतीयम् ।<!न विद्यायाः!> (वा० ४-२-८) द्वितीया विद्या ॥