42007: दृष्टं साम

Padacheda: दृष्टम् | S | 1 | 1 |

साम | S | 1 | 1 |

Sutrartha

येन साम दृष्टम् तस्मात् तृतीयासमर्थात् ‘साम’ निर्देशयितुमण् प्रत्ययः भवति ।

‘साम’ इति सामन्-शब्दस्य प्रथमैकवचनम् । ‘वैदिकः मन्त्रः / पवित्रः श्लोकः’ इति तस्य अर्थः । एतादृशस्य मन्त्रस्य निर्देशः तस्य द्रष्टारम् (= प्राप्तारम् / चिन्तितारम्) निर्दिश्य कर्तुमस्य सूत्रस्य प्रयोगः भवति । यथा - 1. वसिष्ठेन दृष्टं साम = वसिष्ठ + अण् → वासिष्ठम् । 2. विश्वामित्रेण दृष्टं साम = विश्वामित्र + अण् → वैश्वामित्रम् । 3. क्रुञ्चेन दृष्टं साम = क्रुञ्च + अण् → क्रौञ्च । अत्र एकं वार्त्तिकं ज्ञातव्यम् - <!अस्मिन् अर्थे अण् डित् वा वक्तव्यः!> । इत्युक्ते, अण्-प्रत्ययः ‘दृष्टं साम’ अस्मिन् अर्थे विकल्पेन डित्वत् भवति । डित्वात् टेः (6.4.143) इत्यनेन टिलोपः विधीयते ।

यथा - उशनसा दृष्टं साम

= उशनस + अण् → औशनस + अण् [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → औशन् + अण् [अण्-प्रत्ययस्य डित्त्वात् टेः (6.4.143) इत्यनेन टिलोपः] → औशन । इदं डित्वम् वैकल्पिकमस्ति, अतः पक्षे यस्येति च (6.4.148) इति अकारलोपं कृत्वा ‘औशनस’ इत्यपि रूपं सिद्ध्यति । ज्ञातव्यम् - 1. कलि-शब्दात् अण्-प्रत्ययस्य अपवादत्वेन कलेर्ढक् (4.2.8) इत्यनेन ढक्-प्रत्ययः भवति । कलिना दृष्टं साम = कालेयम् । 2. वामदेव-शब्दात् अण्-प्रत्ययस्य अपवादत्वेन वामदेवात् ड्यत्-ड्यौ (4.2.9) इत्यनेन ड्यत् / ड्य प्रत्ययौ भवतः । वामेदेवेन दृष्टं साम - वामदेव्य ।

Sutrartha (English)

To indicate the name of a साम using its visionary, an appropriate तद्धितप्रत्यय gets attached to the तृतीयासमर्थ name of the visionary.

Vasu English Summary

The affix अण् – प्राग्दीव्यतोऽण् (4.1.83) comes after a word in construction in the Instrumental -3rd case, in the sense of seen - the thing seen by the one whose name is in the Instrumental -3rd case, being the साम वेद।

Vasu English Translation

The affix अण् – प्राग्दीव्यतोऽण् (4.1.83) comes after a word in construction in the Instrumental -3rd case, in the sense of seen - the thing seen by the one whose name is in the Instrumental -3rd case, being the साम वेद। Thus क्रुञ्चेन दृष्टं = क्रौञ्चं साम “the portion of the Sama seen by (or revealed to) Kruncha.” So also वासिष्ठम्, वैश्वामित्रम् ॥

Bhashya

दृष्टं साम (1430) (अर्थाधिकरणम्) (5338 कलिशब्दविषयं वार्तिकम्॥ 1 ॥) - दृष्टं साम कलेर्ढक् - (भाष्यम्) दृष्टं सामेत्यत्र कलेर्ढग्वक्तव्यः। कलिना दृष्टं साम कालेयं साम गीयते॥ अपर आह - (5339 व्यापकवार्तिकम्॥ 2 ॥) - सर्वत्राग्निकलिभ्यां ढक् - (भाष्यम्) सर्वत्राग्निकलिभ्यां ढग्वक्तव्यः। अग्निना दृष्टं सामाग्नेयम्, अग्नौ भवमाग्नेयम्, अग्नेरागतमाग्नेयम्, अग्नेः स्वमाग्नेयम्, अग्निर्देवताऽस्याग्नेयः। कलिना दृष्टं कालेयम्, कलौ भवं कालेयम्, कलेरागतं कालेयम्, कलेः स्वं कालेयम्, कलिर्देवताऽस्य कालेयश्चरुः॥ (विधायकं श्लोकवार्तिकम्॥) दृष्टेसामनि जाते चाप्यण् डिदि्द्वर्वा विधीयते॥ (भाष्यम्) दृष्टे सामनि जाते चाप्यण् डिदि्द्वर्वा वक्तव्यः। उशनसा दृष्टं साम औशनम्, औशनसम्। सतभिषजः जातः शातभिषजः, शातभिषः॥ (विधायकं श्लोकवार्तिकम्॥) तीयादीकक्॥ (भाष्यम्) तीयादीकक् वक्तव्यः। द्वैतीयीकः, तार्त्तीयीकः॥ (निषेधे श्लोकवार्तिकम्॥) न विद्यायाः॥ (भाष्यम्) विद्याया न भवतीति वक्तव्यम्। द्वितीया विद्या, तृतीया विद्येत्येव॥ (अतिदेशे श्लोकवार्तिकम्॥) गोत्रादङ्कवदिष्यते॥ (भाष्यम्) औपगवकम्, कापटवकम्॥ दृष्टे सामनि जाते चाप्यण् डिदि्द्वर्वा विधीयते। तीयादीकग्न विद्याया गोत्रादङ्कवदिष्यते॥

Kashika

तेनेति तृतीयासमर्थाद् दृष्टम् इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यद् दृष्टं साम चेत् तद् भवति। क्रुञ्चेन दृष्टं क्रौञ्चं साम। वासिष्ठ्म। वैश्वामित्रम्॥

Siddhanta Kaumudi

तेनेत्येव । वसिष्ठेन दृष्टं साम ।<!अस्मिन्नर्थेऽण् डिद्वा वक्तव्यः !> (वार्तिकम्) ॥ उशनसा दृष्टमौशनम् ॥ औशनसम् ॥

Laghu Siddhanta Kaumudi

तेनेत्येव। वसिष्ठेन दृष्टं वासिष्ठं साम॥

Balamanorama

दृष्टं साम (कलेर्ढक्) - कलेर्ढक् । वार्त्तिकमिदम् ।

Tattvabodhini

दृष्टं साम (कलेर्ढक्) - दृष्टं साम । तृतीयान्ताद्दृष्टमित्यर्थेऽणादयः स्युर्युद्दृष्टं त्चेचत्साम ।अस्मिन्नर्थेऽण् डिद्वा वक्तव्यः । अस्मिन्नर्थे इति तथा च श्र्लोकवार्तिकं — ॒दृष्टे सामनि जाते वाप्यण् डिद् द्विर्वा विधीयते । तीयैदीकक् न विद्याया गोत्रादङ्कवदिष्यते । ॑इति । जातेऽर्थे यो द्विरण् स च वा डिदित्यन्वयः । शतभिषजि जातः शातभिषः, शातभिषझः । इह हिप्राग्दीव्यतः॑इति प्राप्तोऽण् कालाट्ठञा बाधितः, स चसन्धिवेलादि॑सूत्रेण प्रतिप्रसूयते इत्ययं द्विरुक्तोऽम् । तीयादिति । तीयादिकक् स्वार्थे भवतीत्यर्थः । द्वैतीयीकः । तार्तीयीकः । न विद्याया इति । विद्यावाचकात्तीयान्तादीकङ्न भवतीत्यर्थः । द्वितीया विद्या । गोत्रादङ्कवदिति । गोत्रप्रत्ययान्तादङ्के यः प्रत्ययः स दृष्टे सामन्यपि भवति । औपगवेन दृष्टपगवकम् । इहगोत्रचरणाद्वु॑ञिति वुञ् ।

Padamanjari

यस्य साम्नो विशिष्टकार्यविषये विनियोगो येन ज्ञातस्तेन दृष्टमित्युच्यते ॥

Nyaas

तीयात् इति। द्वेस्तीयः` (5.2.53) इति तीयः। त्रेः सम्प्रसारणञ्च (5.2.55) इति तीयं वक्ष्यति, तदन्तात् स्वार्थ ईकग्वक्तव्यः।न विद्यायाः`इति। विद्याया अभिधाने तीयादीकग्न भवति।`गोत्रादह्कवत् इति। यथा तस्याङ्क इत्यत्रार्थे विवनक्षिते गोत्रात् प्रत्ययो भवति, तेन दृष्टं साम (4.2.7) इत्यत्रार्थे विवक्षिते तथैवेष्यते। औपवेन दृष्टं साम इति। औपगवशब्दः तस्यापत्यम् (4.1.92) इतिगोत्रप्रत्ययान्तः। गोत्रचरणाद्वुञ् भवति इति। यथौपगवस्यायमङ्क औपगवक इत्यौपगवशब्दाद्गोत्रप्रत्ययान्तादङ्के वुञ्भवति, तथा तेन दृष्टं साम इत्यत्रापि। ननु च गोत्रचरणाद्वुञ् (4.3.126) इत्यत्र नाङ्कार्थ उपात्तः, तत्कथमनेनाह्कवदित्युच्यमाने वुञ् बवति? नैष दोषः; तत्राङ्कवदित्यनेन विहितस्येदमर्थो विवक्ष्यते। तेन गोत्रप्रत्ययान्ताद्यथा **तस्येदम्** (4.3.120) इत्यत्रार्थे प्रत्यय इष्यते, तथा तेन दृष्टं साम इतत्यत्रापीत्यर्थः। दृष्टे सामनि इति सङ्ग्रहः।गतार्थः॥बाल-मनोरमादृष्टं साम 1190, 4.2.7 दृष्टं साम। तेनेत्येवेति। अनुवर्तत एवेत्यर्थः। तेन दृष्टं सामेत्यर्थे तृतीयान्तादणादयः स्युरित्यर्थः। अस्मिन्नर्थे इति। दृष्टं साम इत्यर्थे यः अण् स डिद्वेत्यर्थः। औशनमिति। अमि टिलोपपक्षे रूपम्। बाल-मनोरमाकलेर्ढक् 1191, 4.2.7 कलेर्ढक्। वार्त्तिकमिदम्।

Prakriyasarvasvam

तेन दृष्टं सामेत्यर्थेऽण् स्यात् । वसिष्ठेन दृष्टं साम वासिष्ठम् ॥