41101: यञिञोश्च¶
Padacheda: यञ्-इञोः | S | 6 | 2 |
च | S | 0 | 0 |
Sutrartha¶
युवापत्यस्य निर्देशार्थम् यञ्-प्रत्ययान्तशब्देभ्यः इञ्-प्रत्ययान्तशब्देभ्यः च फक्-प्रत्ययः भवति ।
Vasu English Summary¶
The affix फक् is added in denoting a descendent after a प्रातिपदिक (Nominal Stem) ending in the affixes यञ् or इञ्।
Vasu English Translation¶
The affix फक् is added in denoting a descendent after a प्रातिपदिक (Nominal Stem) ending in the affixes यञ् or इञ्। The फक् of this sutra has, like that of the preceding sutra, the force of a Yuvan affix, since it is to be added to words formed by the Gotra affixes यञ् and इञ् ॥ Thus गर्ग + यञ् (4.1.105) = गार्ग्यः ॥ गार्ग्य + फक् = गार्ग्यायणः ॥ दक्ष + इञ् = दाक्षिः; दाक्षि + फक् = दाक्षायणः ॥ It is not every word which ends in यञ् or इञ् which takes the Yuvan affix फक्; but only that word where the affix यञ् or इञ् has the force of a Gotra affix. Thus the affix यञ् is added by (4.3.10) to denote proximity to a sea. As द्वीप + यञ् = द्वैप्यः ॥ This word will not take the affix फक् ॥ Similarly by (4.2.80) the affix इञ् is added to the words सुतंगम &c, the force of the affix being चातुरर्थिक ॥ Thus सौतंगमिः. This word will not take the affix फक् ॥
Kashika¶
यञन्ताद् इञन्तात् च प्रातिपादिकादपत्ये फक् प्रत्ययो भवति। गार्ग्यायणः। वात्स्यायनः। इञन्तात् — दाक्षायणः। प्लाक्षायणः। द्वीपादनुसमुद्रं यञ् (४.३.१०), सुतङ्गमादिभ्य इञ् (४.२.८०) इत्यतो न भवति। गोत्रग्रहणेन यञिञौ विशेष्येते। तदन्तात् तु यून्येवायं प्रत्ययः, गोत्राद् यूनीति वचनात्॥
Siddhanta Kaumudi¶
गोत्रे यौ यञिञौ तदन्तात् फक् स्यात् । अनाति इत्युक्तेः आपत्यस्य-(SK1082)इति यलोपो न, गार्ग्यायणः । दाक्षायणः ॥
Laghu Siddhanta Kaumudi¶
गोत्रे यौ यञिञौ तदन्तात्फक् स्यात्॥
Balamanorama¶
यञिञोश्च - यञिञोश्च । ‘गोत्रे’ इत्यधिकृतं यञिञोर्विशेषणं, नतु विधेयस्य फकः, व्याख्यानात् । तदाह — गोत्रे यौ यञिञाविति । सामर्थ्याद्यून्ययम् । न हि गोत्रप्रत्ययात् गोत्रप्रत्ययोऽस्ति, ‘एको गोत्रे’ इति नियमात् । अनातीति । गर्गस्य गोत्रं गार्ग्यः । गर्गादित्वाद्यञ् । गाग्र्यस्यापत्यं युवेत्यर्थे यञन्तात्फकि आयन्नादेशअनाती॑ति पर्युदासात्आपत्यस्य चे॑ति यलोपाऽभावे णत्वे ‘गाग्र्यायण’ इति रूपमित्यर्थः । दाक्षायण इति । दक्षस्य गोत्रापत्यं दाक्षिः, अत इञ्, दाक्षेरपत्यं युवा दाक्षायणः । इञन्तात्फक् । गोत्रे किम् । सुतङ्गमस्यादूरभव इत्यर्थेसुतङ्गमादिभ्य इ॑ञितीञि सौतङ्गमेरपत्ये न फक् ।
Tattvabodhini¶
यञिञोश्च - यञिञोश्च ।अधिकारप्राप्तं गोत्रग्रहणं यञिञोर्विशेषणं न तु विधेयस्य फकः, व्याख्यानात् । तदेतदाह -गोत्रे याविति । गोत्रे किम् ।द्वीपादनुसमुद्रं॑यञ॑द्वीपे भवो द्वौप्यः । सुतङ्गमादिभ्यश्चातुरर्थिक इञ् । सौतङ्गमिः । तदपत्ये फक्मा भूत् । फक्स्यादिति । सामर्थ्याद्यृन्ययम् ।
Padamanjari¶
गोत्रग्रहणेन यञिञौ विशेष्येतीति । गोत्रे यौ यञिञौ विहितावित्येवम् । न चैव प्रत्ययार्थस्यापत्यस्याविशेषितत्वादपत्यमात्रे प्रत्ययप्रसङ्ग इत्याह - तदन्ताद्यौउन्येवायं प्रत्यय इति । एवकारः पौनर्वचनिकः -न केवलं पूर्व एव प्रत्ययो यूनि भवति, यमपि यून्येवेति । कस्मात् ? इत्याह - गोत्राद्यौउनीति वचनादिति ॥
Nyaas¶
अथ द्वीपादनुसमुद्रं यञ् (4.3.10) इति यो यञ् विहितः, यश्च वृञ्छण् (4.2.79) इत्यादिना सूत्रेण सुतङ्गमादिभ्य इञिति तदन्तात् कस्मान्न भवति, न ह्यत्र कश्चिद्विशेष उपात्तः?इत्यत आहः - द्वीपादनुसमुद्रं यञ् इत्यादि। गोत्रग्रहणेन ह्यत्र यञिञौ विशेष्येते - गोत्रे यौ यञिञाविति। न च द्वीपात् (4.3.10) इत्यादिना गोत्रे यञ् विहितः,किं तर्हि? जातादावर्थविशेषे। नापि सुतङ्गमादिभ्यो गोत्रे इञ् विहितः, किं तर्हि? तदस्मिन्नस्तीति देशे` (4.2.68,70) इत्येवमादिषु चतुष्र्वर्थेषु, तेन तदन्तान्न भवति। यदि तर्हि गोत्रग्रहणेनेह यञिञौ विशेष्येते, न प्रत्ययार्थः, एवं सति क्वायं प्रत्ययो भवतीति न विज्ञायत इत्यत आह -तदन्तात् इत्यादि। कस्मात् तदित्याह - गोत्राद्यूनीति वचनात् इति॥