41094: गोत्राद्यून्यस्त्रियाम्¶
Padacheda: गोत्रात् | S | 5 | 1 |
यूनि | S | 7 | 1 |
अ-स्त्रियाम् | S | 7 | 1 |
Sutrartha¶
युवापत्यस्य निर्देशार्थम् गोत्रप्रत्ययान्तशब्दात् एव प्रत्ययः विधीयते । परन्तु, स्त्रीवाचि यत् अपत्यम्, तस्य विषये युवसंज्ञायाः अभावात् एतादृशः प्रत्ययः न भवति ।
‘युवा’ इति अपत्याधिकारविशिष्टा संज्ञा । जीवति तु वंश्ये युवा (4.1.163), भ्रातरि च ज्यायसि (4.1.164), तथा वाऽन्यस्मिन् सपिण्डे स्थविरतरे जीवति (4.1.165) एतैः सूत्रैः इयम् संज्ञा दीयते। पौत्रप्रभृतीनाम् यद् अपत्यम्, तस्य एतैः सूत्रैः ‘युवा’संज्ञा भवितुमर्हति । यथा, शन्तनोः प्रपौत्रः अर्जुनः, तस्य (कुन्ती जीविता अस्ति चेत्) जीवति तु वंश्ये युवा (4.1.163) इत्यनेन ‘युवापत्यम्’ इति संज्ञा भवति । शन्तनोः युवापत्यमर्जुनः । अत्र अपत्यविशिष्ट-प्रत्ययस्य प्रयोगेण युवापत्यस्य निर्देशः कथं कर्तव्यः इति प्रश्ने प्राप्ते वर्तमानसूत्रेण तस्य उत्तरं दीयते - युवापत्यस्य निर्देशार्थम् गोत्रप्रत्ययान्तात् एव प्रत्ययः भवति । एकमुदाहरणं पश्यामश्चेत् स्पष्टं भवेत् । गर्गः इति कश्चन अस्तीति चिन्तयामः । तस्य अनन्तरापत्यस्य निर्देशं कर्तुम् अत इञ् (4.1.95) इत्यनेन गर्ग-शब्दात् इञ्-प्रत्ययं कृत्वा ‘गार्गि’ इति प्रातिपदिकं सिद्ध्यति । गर्गस्य अपत्यं गार्गिः । अग्रे गर्गस्य पौत्रस्य (= गोत्रापत्यस्य) निर्देशं कर्तुम् एको गोत्रे (4.1.163) इत्यनेन गर्गशब्दात् गर्गादिभ्यः यञ् (4.1.105) इति यञ्-प्रत्ययं कृत्वा ‘गार्ग्य’ इति रूपं सिद्ध्यति । इदानीम्, ‘गर्गस्य युवापत्यम्’ अस्य निर्देशं कर्तुम् ‘कस्मात् प्रातिपदिकात् प्रत्ययविधानं भवेत्’ इति प्रश्ने प्राप्ते वर्तमानसूत्रेण अस्य उत्तरम् दीयते - युवापत्यस्य निर्देशार्थम् गोत्रप्रत्ययान्तशब्दात् एव प्रत्ययः भवति । अतः गर्गस्य युवापत्यम् इत्यस्य निर्देशार्थम् ‘गार्ग्य’ शब्दादेव प्रत्ययः करणीयः, ‘गर्ग’ उत ‘गार्गि’शब्दात् न् । यञिञोश्च (4.1.101) इत्यनेन अत्र फक्-प्रत्ययं कृत्वा गार्ग्य + फक् → गार्ग्यायण इति रूपं सिद्ध्यति । अस्मिन् सूत्रे ‘अस्त्रियाम्’ इति अपि उक्तमस्ति । अस्मिन् विषये काशिकाकारः वदति - ‘योगविभागः कर्तव्यः’ । इत्युक्ते, अत्र सूत्रद्वयमस्तीति चिन्तनीयम् । ‘गोत्रात् युनि’ इति प्रथमं सूत्रम्, तथा च ‘अस्त्रियाम्’ इति अपरं सूत्रम् । एतत् ‘अस्त्रियाम्’ इति यत् सूत्रम्, तस्य अर्थः काशिकायाम् एतादृशः उच्यते - ‘ यूनि यदुक्तं तत् स्त्रियां न भवति। युवसंज्ञा एव प्रतिषिध्यते’ । इत्युक्ते, स्त्रीवाचि यत् अपत्यम्, तस्य विषये ‘युवासंज्ञा’ एव न भवति - इति अस्य आशयः । अतः ‘दक्षस्य प्रपौत्री’ अस्य निर्देशः ‘दक्षस्य गोत्रापत्यम्’ इत्यनेनैव भवति, ‘दक्षस्य युवापत्यम्’ इत्यनेन न । स्त्रीवाचिशब्दानां विषये वर्तमानसूत्रस्य प्रसक्तिरेव नास्ति, इत्येव ‘अस्त्रियाम्’ इति शब्दः निर्देशयति - इति अस्य आशयः ।
Vasu English Summary¶
When a descendant of the description denoted by युवन् – जीवति तु वंश्ये युवा (4.1.163), is intended to be expressed, a new affix is attached, only after that what already ends with an affix marking a descendant as low at least as a grandson (गोत्र): but in the feminine the word is not termed युवन् and no new affix is added.
Vasu English Translation¶
When a descendant of the description denoted by युवन् – जीवति तु वंश्ये युवा (4.1.163), is intended to be expressed, a new affix is attached, only after that what already ends with an affix marking a descendant as low at least as a grandson (गोत्र): but in the feminine the word is not termed युवन् and no new affix is added. This is also a niyama or restrictive rule. Thus the Yuvan of गार्ग्य is गार्ग्यायणः (4.1.101). Similarly वात्स्यायणः, दाक्षायणः, प्लाक्षायणः, औपगविः, नाडायनिः ॥
Why do we say “but in the Feminine the word is not termed Yuvan”? Observe दाक्षी which is the feminine of दाक्षिः (Gotra) as well as of दाक्षायणः (Yuvan). Similarly प्लाक्षी feminine of प्लाक्षिः and प्लाक्षायणः ॥ In short, Yuvan affixes are not added in the feminine. If it is intended to denote a feminine descendant of the kind Yuvan, the feminine word formed by Gotra affix will denote such a descendant also.
What is here prohibited i. e. is the term Gotra superseded by the term Yuvan? If it is a niyama rule, there will be no niyama with regard to the feminine, as the prohibition is contained in the same sentence. Therefore in the feminine, the Yuvan affix will not get the designation of Gotra, because Gotra-name is debarred by Yuvan Name. Therefore the sutra should be divided in two, e. g. गोत्राद् यूनि प्रत्ययो भवति (2) ततोऽस्त्रियाम् ॥ (1) After a Gotra formed word a new affix is added in denoting a Yuvan descendant, (2) but not so in the feminine. In fact the name Yuvan is prohibited in the feminine, therefore, the feminine will be known Gotra always and never by Yuvan.
Kashika¶
अयमपि नियमः। यून्यपत्ये विवक्षिते गोत्रादेव प्रत्ययो भवति, न परमप्रकृत्यनन्तरयुवभ्यः। गार्ग्यस्यापत्यं युवा, गार्ग्यायणः। वात्स्यायनः। दाक्षायणः। प्लाक्षायणः। औपगविः। नाडायनिः। अस्त्रियामिति किम्? दाक्षी। प्लाक्षी। किं पुनरत्र प्रतिषिध्यते? यदि नियमः, स्त्रियामनियमः प्राप्नोति। अथ युवप्रत्ययः, स्त्रियां गोत्रप्रत्ययेनाभिधानं न प्राप्नोति, गोत्रसंज्ञाया युवसंज्ञया बाधितत्वात्। तस्माद् योगविभागः कर्तव्यः। गोत्राद् यूनि प्रत्ययो भवति। ततोऽस्त्रियाम्। यूनि यदुक्तं तत् स्त्रियां न भवति। युवसंज्ञैव प्रतिषिध्यते, तेन स्त्री गोत्रप्रत्ययेनाभिधास्यते॥
Siddhanta Kaumudi¶
यून्यपत्ये गोत्रप्रत्ययान्तादेव प्रत्ययः स्यात् । स्त्रियां तु न युवसंज्ञा । गर्गस्य युवापत्यं गार्ग्यायणः । स्त्रियां गोत्रत्वादेक एव प्रत्ययः ॥
Laghu Siddhanta Kaumudi¶
यून्यपत्ये गोत्रप्रत्ययान्तादेव प्रत्ययः स्यात्, स्त्रियां तु न युवसंज्ञा॥
Balamanorama¶
गोत्राद्यून्यस्त्रियाम् - गोत्राद्यून्यस्त्रियाम् । गर्गस्य गोत्रं गार्ग्यः, गर्गस्य तृतीयः । ‘गर्गादिभ्यः’ इति गोत्रे यञ् । गाग्र्यस्य तृतीयः सगर्गस्य पञ्चमो युवापत्यं, तस्मिन्बुबोधयिषिते गाग्र्यशब्दात् गोत्रप्रत्ययान्तात्यञिञोश्चे॑ति फकि ‘गाग्र्यायण’ इति रूपमिष्यते । तथा षष्ठादिष्वपि युवापत्येषु ‘गाग्र्यायण’ इत्येवेष्यते । तदिदमपत्यशब्दः पुत्रपौत्रादिसाधारण इति पक्षे यद्यपि सुलभमेव,गर्गात्तृतीयं गाग्र्यं प्रति पञ्चमादीनामप्यपत्यत्वात्, तथापि गर्गस्य पञ्चमाद्यपत्ये यूनि विवक्षिते गर्गान्मूलप्रकृतेरपि इञ् स्यात् । तथा गर्गस्य अन्तरापत्ये इञि गार्गिः, तदपत्यत्वेन विवक्षिते गर्गान्मूलप्रकृतेरपि इञ् स्यात् । तथा गर्गस्य अन्तरापत्ये इञि गार्गिः, तदपत्यत्वेन विवक्षिते गर्गस्य पञ्चमादौ यूनि गार्गेः फकि ‘गार्गायण’ इत्यपि स्यात् । तथा गर्गस्य चतुर्थे यूनि गोत्रत्वाऽभावात् यञभावे इञि गार्गिः । तदपत्यत्वेन विवक्षिते गर्गस्य पञ्चमादौ यूनि गार्गेः फकि ‘गार्गायण’ इति स्यात् । गोत्रपत्ययान्तादेव यूनि प्रत्यया॑ इति नियमः क्रियते — गोत्राद्यूनी॑ति । तदाह — यून्यपत्ये गोत्रप्रत्ययान्तादेवेति । नतु मूलप्रकृतेस्तदनन्तरापत्यप्रत्ययान्ताद्युवप्रत्ययान्ताच्चेति भावः । नचापत्यशब्दः पुत्र एव रूढ इति पक्षे पञ्चमादौ यूनि चतुर्थाद्यपत्यप्रत्ययान्तादेव प्रत्ययः स्यात्, नतु तृतीयवाचिगोत्रप्रत्ययान्तादिति तत्र विष्यर्थमेवेदं स्यात्, नतु नियमार्थमिति वाच्यं,पुत्रपौत्रादिसाधारणोऽपत्यशब्द॑ इत्येव भाष्ये सिद्धान्तितत्वादिति भावः । स्त्रियां तु न युवसंज्ञेति । इहअस्त्रिया॑मिति योगो विभज्यते । यूनीत्यनुवर्तते । उभयमपि प्रथमया विपरिणम्यते । तथाचस्त्री उक्तयुवसंज्ञिका ने॑ति फलितमिति भावः । नच स्त्रीभिन्ने यूनि गोत्रादेवेत्यर्थः कुतो नाश्रीयते, एवं सत्येकवाक्यत्वलसाभादिति वाच्यं, युवसंज्ञया गोत्रसंज्ञाया बाधात् । नच ‘एको गोत्रे’ इति नियमात्तन्निवृत्तिः संभवतीति वाच्यं, युवसंज्ञया गोत्रसंज्ञाया बाधात् । नच सत्यपि योगविभागेस्त्रियां न युवप्रत्यय॑ इति व्याख्यायतामिति वाच्यं, गोत्रप्रत्ययेन युवत्यभिधानानापत्तेरित्यलम् । गर्गस्येति । गर्गस्य पञ्चमादौ यूनि गाग्र्यशब्दाद्गोत्रे यञन्तात्फकि ‘गाग्र्यायण’ इति रूपमित्यर्थः । स्त्रियां युवसंज्ञानिषेधस्य प्रयोजनं दर्शयति — स्त्रियामिति । पञ्चमादियुवतीनां युवसंज्ञानिरहेण गोत्रत्वात् । ‘एको गोत्रे’ इति नियमाद्गार्गीत्येव भवति, नतु गाग्र्यायणीति रूपमित्यर्थः ।स्त्रीभिन्ने यूनि गोत्रादेवे॑त्यर्थाश्रयणे तु युवसंज्ञया गोत्रसंज्ञाया बाधात् ‘एको गोत्रे’ इत्यस्याऽप्रवृत्तेः प्रत्ययमाला स्यादिति भावः ।
Tattvabodhini¶
गोत्राद्यून्यस्त्रियाम् - गोत्राद्यूनि । असत्यस्मिन्सूत्रे मुख्यमते पञ्चमादौ यूनि विवक्षिते गोत्रप्रत्ययन्ताद्युवप्रत्ययोत्पत्ताविष्टे सिद्धेऽपि मूलप्रकृत्यनन्तरयुवभ्योऽपि स्यादिति पाक्षिकानिष्टे प्राप्ते नियमार्थमिदमित्याशयेनाह -गोत्रप्रत्ययान्तादेवेति । न तु मूलप्रकृत्यनन्तरयुबभ्य इत्यर्थः । मनोरमायां तुनतु युप्रत्ययान्तादिति प्रथमपक्षेऽर्थ॑इत्यपि स्थितम् । अत्र वदन्ति -पञ्चमादौ यूनि विवक्षिते तस्य यूस्तृतीयं प्रत्यनपत्यत्वादप्राप्तौ विध्यर्थमेवेदं स्यान्न तु नियमार्थमिति युवप्रत्ययान्तात्प्रत्त्ययो दुर्वारः स्यात् । तस्मादिहपितुरेवापत्य॑मिति पक्षो नाश्रयणीय इति । अन्ये त्वाहुः -आद्यपक्षेगोत्राद्यूनि॑त्यावत्र्य एकेनाऽप्राप्तप्रत्ययं विधाय द्वितीयेन नियम्यतेयूनि गोत्रादेव॑इति । एवं चततः प्राचामपी॑ति पक्षेण सहास्यैकरूपता भवतीति ।गोत्राच्चेद्यून्येवे॑ति विपरीतनियमस्त्विह न कृतः, व्यावर्त्त्याऽलाभात् । न च शैषिकाश्छादयो व्यावर्त्त्या इति वाच्यं,गोत्रेऽलुगची॑ति लिङ्गात् । स्त्रियां त्विति । यद्यत्रअस्त्रिया॑मित्यस्यैकवाक्यतयास्त्रीभिन्ने यूनि गोत्रादेवे॑त्यर्थः क्रियते, तर्हि स्त्रीषु युवसंज्ञाय#आ अनषेधाद्यवतिषु स्त्रीषु प्रत्ययानां परम्परा प्रसज्येत । न चएको गोत्रे॑इत्यनेन निस्तारः, युवसंज्ञया गोत्रसंज्ञाया बाधात् । अथस्त्रियां न युवप्रत्ययः॑इति वाक्यभेदेनार्थः क्रियते, तदा गोत्रप्रत्ययेन युवतिर्नाभिधोयेत । ततश्च गाग्र्यस्यापत्यं स्त्री गार्गी न स्यात् । किं तु वाक्यमेव स्यात् । अतोयुवसंज्ञानिषेधपरमेवेद॑मित्याशयेन व्याचष्टे -न युसंज्ञेति । अत्रायमाशयः -॒अस्त्रिया॑मिति योगो विभज्यते ।यूनी॑ति शब्दस्वरूपमनुवर्तते । परिभाषा चेयम् । यत्र युवसंज्ञाविधानं तत्रअस्त्रिया॑मित्युपतिष्ठत॑इति, -सिद्धस्य गतिरियम् ।जीवति तु वंश्ये युवाऽस्त्रिया॑मित्येव सूत्रयितुं युक्तम् ।
Padamanjari¶
अत्राप्यनारभ्यमाणेऽस्मिन्योगे उत्पादयितर्यपत्ययुक्ते गोत्रसंज्ञाया युवसंज्ञया बाधितत्वादसति पूर्वसूत्रव्यापारे चतुर्थे तृतीयात्पञ्चमे चतुर्थात्षष्ठे पञ्चमादौ यूनि तृतीयादुत्पत्तिर्न प्राप्नोति, तं प्रत्यनपत्यत्वादितीष्ट्ंअ न सिध्यति । सर्वेषु त्वपत्ययुक्तेषु पञ्चमे यूनि पूर्वेभ्यश्चतुर्भ्यः प्रत्ययः प्राप्नोति । तत्र यदा तृतीयातदा गार्ग्यायण इतीष्ट्ंअ तावत्सिध्यति, अनिष्टमपि प्राप्नोति; प्रकृत्यन्तरेभ्योऽपि प्रत्ययप्रसङ्गादित्यत इदमारभ्यते । अत्रापि यदि पूर्वः पक्ष आश्रीयते ततो विध्यर्थमेतत्स्यात्, नियमार्थं वा ? यदि युवशब्देनैकमपत्यमुच्यते, तत एकस्मिन्यूनि गोत्रादगोत्राच्च प्राप्त्यभावात् चतुर्थेन व्यवहिते पञ्चमादौ यूनि गोत्राद्विध्यर्थं भवति । अथ चतुर्थप्रभृत्यपत्यसमुदायो युवशब्देनोच्यते, ततो गोत्राच्चतुर्थे चतुर्थादगोत्रात्पञ्चम इति गोत्रादगोत्राच्च युवसमुदाये प्रत्ययप्रसङ्गे गोत्रादेवेति नियमार्थं भवति । तत्र विधौ गर्ग्यायण इतीष्ट्ंअ सिध्यति, प्रत्ययमालाप्रसङ्गदोषः स्यादेव; तत्पितृवचनात्प्राप्तस्य प्रत्ययस्यानिषिद्धत्वात् । नियमे चतुर्थादेः प्राप्तस्य प्रत्ययस्य प्रतिषेधोऽयं सम्पद्यते - यदि चतुर्थादेः स्याद् युवसमुदाये गोत्रादपि प्रत्ययः कृतः स्यादिति, ततश्च नानिष्टप्रसङ्गः; किन्तु पञ्चमादौ यूनि गोत्रादुत्पत्तिर्न प्राप्नोति, तं प्रत्यनपत्यत्वादिति पञ्चमस्य वाक्येनाभिधानंस्याद् - गार्ग्यायणस्यापत्यमिति । षष्ठस्य तु वाक्येनापि न सिद्ध्यति, न हि तत्पितृवचनोऽपत्याप्रत्ययान्तः शब्दोऽस्ति, येन विगृह्यएत । तदेवमत्रापि द्वितीयः पक्ष आश्रीयते, नियमश्च, तदाह - अयमपि नियम इति । गोत्रादेवेति । यून्येवेत्येष विपरीतं नियमो न भवति; ठेको गोत्रेऽ इति नियमाद्यौउनोऽन्यत्र गोत्रप्रत्ययस्य प्रसङ्गाभावात् । न परमप्रकृत्यनन्तरयुवभ्य इति । अन्यथा प्रयोगभेदेन तेभ्योऽपि स्यात् । कि पुनरत्र प्रतिषिध्यत इति । सर्वस्मिन्नपि प्रतिषिध्यमाने दोषदर्शनात्प्रश्नः । तमेव दोषमाविष्करोति - यदि नियम इति । तदेकवाक्यत्वात्प्रतिषेधस्येति भावः । स्त्रियामनियमः प्राप्नोतीति । परमप्रकृत्यनन्तरयुवलक्षणाः प्रत्ययाः प्रयोगभेदेन पर्यायेण स्युरित्यर्थः । अथ युवप्रत्ययः प्रतिषिध्यत इति । अस्त्रियामिति योगविभागेन प्रसज्यप्रतेषेधाश्रयेण चेति भावः । गोत्रप्रत्ययेनाभिधानं न प्राप्नोतीति । तद्यथा’गर्गादिभ्यो यञ्’ गार्गी गार्ग्यायणी, अपत्यसामान्यलक्षण एव तु प्रत्ययः स्यात् । किं कारणमनभिधानं प्राप्नोतीत्यत आह - गोत्रसंज्ञाया युवसंज्ञया बाधितत्वादिति । यथा च बाधस्तथा तत्रैव वक्ष्यते । स्यादेतत् - युवप्रत्ययस्य स्त्रियां लुक्करिष्यते, कथम् ?’यूनि लुक्’ इत्यस्यानन्तरं स्त्रियां चेति वक्ष्यामि, यूनि लुगित्येव,’प्राग्दीव्यतः’ इत्येतन्निवृतम् । यद्वा’वतण्डाच्च, लुक् स्त्रियाम्, यूनि च’ इति वक्ष्यामि, लुक् स्त्रियामित्येव, ततश्च गार्ग्यशब्दादुत्पन्नस्य फको लुकि कृते लुप्तस्याप्यर्थं प्रकृतिरेवाहेति यञन्तात्स्त्रियां वर्तमानान्ङीष्ष्फौ भविष्यत इति ? एवमप्यौपगवशब्दादत इञो लुकि कृते, अनुपसर्जनाधिकारादण्योऽनुपसर्जनमित्युच्यमान ईकारो न प्राप्नोति; अणर्थस्याप्रधानत्वात्, यूनि संक्रान्तत्वात् । मा भूदेवमण्योऽनुपसर्जनमिति, अणन्तादनुपसर्जनादित्येवं भविष्यति ? नैवं शक्यम्; इह हि दोषः स्याद् - आपिशलिना प्रोक्तं व्याकरणम्, ठिञश्चऽ इत्यण्, तदधीते आपिशला ब्राह्मणी,’तदधीते’ इत्यणः प्रोक्ताल्लुकि अणन्तस्याध्येत्र्यां प्रधानस्त्रियां संक्रान्तत्वान्ङीप्प्राप्नोति, तस्मादण्योऽनुपसर्जनमित्येवाश्रयणीयम्, स्त्रियां योऽण्विहित इति वा । यथा च सत्यौपगवीतीकारो न प्राप्नोति । यद्यप्यत्र प्रत्ययलक्षणेन इञ उपसङ्ख्यानमितीकारः स्यात्, इह तु ग्लुचुकायनेरपत्यमौत्सर्गिकस्याणो लुकि ङीन्न प्राप्नोति, ठितो मनुष्यजातेःऽ इति ङीष् भविष्यति । इह तर्हि यस्कस्यापत्यं शिवाद्यण् यास्कः, तस्यापत्यं स्त्री, ठणो द्व्यचःऽ इति फिञ्, स्त्रियां लुकि ईकारो न प्राप्नोति ? न ह्यत्र लुप्तः प्रत्यय ईकारस्य निमितम्, यश्च श्रूयते न स स्त्रियां विहित उपसर्जनं च । तर्हि का गतिः ? इत्यत आह - तस्मादिति । युवसंज्ञैव प्रतिषिध्यत इति । ननु यूनि यदुक्तं तत्स्त्रियां न भवतिऽ इत्युक्तम्, न च युवसंज्ञा यून्यूक्ता, नहि युवसंज्ञायाः प्राग्युवसंज्ञास्ति ? चतुर्थादेर्जीवद्वंश्यस्यापत्यस्योपलक्षणं युवशब्द इत्यदोषः । अपर आह - स्वरूपपरो युवशब्दः, परिभाषा चेयम् - यत्र युवशब्दः श्रूयते तत्र ठस्त्रियाम्ऽ इत्युपतिष्ठते ।’जीवति तु वंश्ये युवा अस्त्रियाम्’ इति वा व्यक्तमेव पठितव्यमिति ॥
Nyaas¶
अयमपि नियमः इति। न केवलं पूर्वः - इत्यपिशब्देन दर्शयति। सर्वेषां ह्रपत्येन योगे परमप्रकृत्यनन्तरयुवभ्योऽपि युवापत्यविवक्षायां प्रत्ययः प्राप्नोति, अतस्तन्निवृत्त्यर्थं नियमः क्रियते। गोत्रादेव`इति। गोत्रपत्ययान्तादेवेत्यर्थः। अनेन नियमस्वरूपं दर्शयति। `न परम इत्यादिना नियमस्य व्यवच्छेद्यम्। गाग्र्यायणः, दाक्षायणः इति। गोत्रे यौ यञिञौ विहितौ तदन्तात् यञिञोश्च (4.1.101) इति फक्। औपगविः नाडायनिः` इति। गोत्रे यावण्फकौ विहितौ तदन्तात् अत इञ् (4.1.95) ।दाक्षी इति। वक्षस्यापत्यं चतुर्थ स्त्री। अत इञ् (4.1.95) , इतो मनुष्यजातेः (4.1.65) इति ङीष्।किं पुनरत्र प्रतिषिध्यते इति। सर्वस्मिन् प्रतिषिध्यमाने दोषं मन्यते। तमेव दोषमाविष्कर्तुमाह - यदि इत्यादि। स्त्रियामनियमः प्राप्नोति इति। परमप्रकृत्यनन्तरयुवभ्योऽपि स्त्रियां युवप्रत्ययः प्राप्नोतीत्यर्थः। गोत्रसंज्ञाया युवसंज्ञया बाधितत्वात् इति। जीवति तु वंश्ये युवा इत्यत्र तुशब्दोऽवधारणार्थः कृतः। तेन अभिधानं न प्राप्नोति। तस्मात् इत्यादि। यत एव च नियमयुवप्रत्यययोरुभयोरपि प्रतिषेधे दोषः, तस्मात् तन्निरासाय योगविभागः कर्तव्यः। तत्र ` गोत्राद्यूनि` इत्येको योगः, अनेन च नियमः क्रियते, यदाह - गोत्राद् यूनि प्रत्ययो भवति इति। ततः अस्त्रि याम् इति द्वितीयो योगः। तेन च यूनीत्यत्र यदुक्तं कार्यं तस्य प्रतिषेधः क्रियते, यदाह - यूनि यदुक्तं स्त्रियां तन्न भवति इति। युवसंज्ञैव प्रतिषिध्यते इति। कथम्? अस्त्रियाम् इत्यत्र हि योगे यूनीत्येतदनुवर्तते, तेनैवं विज्ञायते - यूनि यदुक्तं कार्यं स्त्रियां तन्न भवतीति। युवसंज्ञा च यून्येव कार्ययुक्तेत्यतः सैव प्रतिषिध्यते। युवसंज्ञैव इति। एवकारेण नियमयुवप्रत्ययोव्र्यवच्छेदः क्रियते। तेन स्त्री गोत्रपत्ययेनाभिधास्यते इति। तस्यां युवसंज्ञायां प्रतिषिद्धायां गोत्रसंज्ञाया अविचलत्वात्॥