41087: स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्¶
Padacheda: स्त्री-पुंसाभ्याम् | S | 5 | 2 |
नञ्-स्नञौ | S | 1 | 2 |
भवनात् | S | 5 | 1 |
Sutrartha¶
पञ्चमाध्यायस्य प्रथमपादस्य समाप्तिं यावत् उक्तेषु सर्वेषु अर्थेषु स्त्री-शब्दात् ‘नञ्’ तथा ‘पुंस्’ शब्दात् ‘स्नञ्’ तद्धितप्रत्ययः विधीयते ।
पञ्चमाध्यायस्य प्रथमपादस्य समाप्तिपर्यन्तम् ये केऽपि अर्थाः उक्ताः सन्ति, तेषां सर्वेषां विषये वर्तमानसूत्रेण ‘स्त्री’-शब्दात् ‘नञ्’ प्रत्ययः , तथा ‘पुम्स्’-शब्दात् स्नञ्-प्रत्ययः विधीयते । एतौ प्रत्ययौ सर्वेषाम् प्रत्ययानामपवादरूपेण आगच्छतः । यथा - 1. ‘स्त्रीणां समूहः’ अस्मिन् अर्थे प्राग्दीव्यतोऽण् (4.1.83) अनेन अण्-प्रत्यये प्राप्ते तस्य अपवादत्वेन स्त्री-शब्दात् नञ्-प्रत्ययः भवति ।
स्त्री + नञ्
→ स्त्रै + न [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → स्त्रैण [अट्कुप्वाङ्नुम्व्यवायेऽपि (8.4.2) इति णत्वम्] 2. ‘पुम्भ्यः हितम्’ अस्मिन् अर्थे तस्मै हितम् (5.1.5) इत्यनेन छ-प्रत्यये प्राप्ते तस्य अपवादत्वेन पुंस्-शब्दात् स्नञ्-प्रत्ययः भवति । पुम्स् + स्नञ् → पुम्स् + स्न [स्वादिष्वसर्वनामस्थाने (1.4.17) इति अङ्गस्य पदसंज्ञा ] → पौम्स् + स्न [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → पौम् स्न [संयोगान्तस्य लोपः (8.2.23) इति सकारस्य लोपः] → पौंस्न [मोऽनुस्वारः (8.3.23) इति पदान्तमकारस्य अनुस्वारः] ज्ञातव्यम् - 1. पञ्चमाध्यायस्य द्वितीयपादस्य प्रथमम् सूत्रमस्ति धान्यानां भवने क्षेत्रे खञ् (5.2.1) । तदपर्यन्तम् एतयोः प्रत्यययोः प्रसक्तिः स्यात्, एतत् दर्शयितुमस्मिन् सूत्रे ‘भवनात्’ इति उक्तमस्ति । 2. पञ्चमाध्यायस्य प्रथमपादे तेन तुल्यं क्रिया चेद् वतिः (5.1.115) इति किञ्चन सूत्रमस्ति । अनेन सूत्रेण तुल्यविधानार्थं ‘वति’ प्रत्ययः विधीयते । इदं सूत्रम् पञ्चमाध्यायस्य प्रथमपादे अस्ति, अतः वस्तुतः अस्य सूत्रस्य विषये अपि वर्तमानसूत्रस्य प्रसक्तिः अस्ति । इत्युक्ते, वति-प्रत्ययस्य अपवादरूपेण स्त्री-शब्दात् ‘नञ्’, पुम्स्-शब्दात् च ‘स्नञ्’-प्रत्ययः भवेत् । परन्तु आचार्यः सूत्रपाठे स्वयम् स्त्री पुंवत् च (1.2.66) एतादृशम् प्रयोगं करोति, यत्र पुम्स्-शब्दात् ‘वति’ प्रत्ययविधानं कृतं दृश्यते । अस्मात् निर्देशात् एतत् स्पष्टं भवति यत् पुम्स्-शब्दात् विहितः स्नञ्-प्रत्ययः वति-प्रत्ययस्य अपवादरूपेण न विधीयते । इत्युक्ते, येषु अर्थेषु ‘वति’ प्रत्ययस्य विधानं कृतमस्ति, तेषु अर्थेषु पुम्स्-शब्दात् अपि ‘वति’ प्रत्ययः एव करणीयः । यथा - पुंसा तुल्यम् = पुम्वत् । 3. यद्यपि स्त्री-शब्दस्य विषये अष्टाध्याय्याम् ‘स्त्रीवत्’ इति प्रयोगः न दृश्यते, तथापि वतिँ-प्रत्ययस्य अवकाशे प्राप्ते पुम्स्-शब्दवत् स्त्री-शब्दस्य विषये अपि वतिँ-प्रत्ययः एव विधीयते, नञ्-प्रत्ययः न । अस्मिन् विषये काशिकाकारः वदति - ‘योगापेक्षं च ज्ञापकम्’ । इत्युक्ते - स्त्री-शब्दात् नञ्-प्रत्ययः यस्मिन् सूत्रे दीयते, तस्मिन्नेव सूत्रे पुम्स्-शब्दात् स्नञ्-प्रत्ययः अपि दीयते, अतः यदि वतिँ-प्रत्ययस्य अवकाशे प्राप्ते पुम्स्-शब्दस्य विषये वर्तमानसूत्रस्य प्रसक्तिः न स्यात् , तर्हि स्त्री-शब्दस्य विषये अपि अस्य सूत्रस्य प्रसक्तिः न स्यात् । अतः स्त्री + वत् → स्त्रीवत् इत्येव प्रातिपदिकं सिद्ध्यति । अतः सारांशरूपेण - वति-प्रत्ययार्थान् विहाय पञ्चमाध्यायस्य प्रथमपादं यावत् विहितेषु अन्येषु सर्वेषु अर्थेषु स्त्री-शब्दात् नञ्-प्रत्ययः तथा पुम्स्-शब्दात् स्नञ्-प्रत्ययः भवति ।
Sutrartha (English)¶
For the meanings given till the end of the first पाद of the पञ्चमाध्याय, the word स्त्री gets the प्रत्यय नञ्, and the word पुम्स् gets the प्रत्यय स्नञ्.
Vasu English Summary¶
The affixes नञ् and स्नञ् come after the words स्त्री and पुंस respectively, in the senses specified in the sūtra reckoning from this one as far as sūtra धान्यानां भवने क्षेत्रे खञ् (5.2.1).
Vasu English Translation¶
The affixes नञ् and स्नञ् come after the words स्त्री and पुंस respectively, in the senses specified in the sūtra reckoning from this one as far as sūtra धान्यानां भवने क्षेत्रे खञ् (5.2.1). Thus स्त्री + नञ् = स्त्रैणम् ‘feminine.’ The sense of the affixes taught in the Fourth Book, and Chapter I of the Fifth Book, are various. Therefore the word स्त्रैणम् will have all those various significations; thus, it will mean either स्त्रीषुभवं (4.3.53) ‘existing in females,’ or स्त्रीणां संमूहः (4.2.37) ‘a collection of females,; or स्त्रीभ्यआगतं (4.3.74) ‘what has come from females’; or स्त्रीभ्यो हितं (5.1.5) ‘suitable for females’ &c.
Similarly पुंस + स्नञ् = पौंस्नम् ‘masculine, or existing in males, or a collection of males, or what has come from males, or suitable for males &c.’
These affixes, however, are not to be employed in the sense of the affix वत् taught in (5.1.115). For Panini himself uses the form पुंवत् (and not पौंस) in sutra (6.3.34), thus indicating by implication (ज्ञापक) that in the sense of वत्, the affix स्नञ् is not to be used. Thus स्त्रीवत्, ॥ The forms स्त्रीत्वं, स्त्रीता, पुंस्त्वं and पुंस्त्वा are exceptional. See (5.1.121). The स् of पुंस् is elided before स्नञ् by (8.2.23) had it not been elided, one affix नञ् would have been taught in the sutra, and not two.
Bhashya¶
स्त्रीपुंसाभ्यां नञ्ञ्स्नञ्ञौ भवनात् (1332) (नञ्ञ्स्नञ्ञाधिकरणम्) (प्रत्ययभेदाक्षेपभाष्यम्) किमर्थं नञ्ञ्स्नञ्ञावुच्येते, न नञ्ञेवोच्येत? का रूपसिद्धिः? पौंस्नम्। पुंस् इति सकारान्तः, नञ्ञ्शब्दश्च प्रत्ययः। न सिध्यति। संयोगान्तस्य लोपः(8.2.23) इति लोपः प्राप्नोति। एवं तर्हि नैवार्थो नञ्ञा, नापि स्नञ्ञा। अञ्ञ् प्रकृतः सोऽनुवर्तिष्यते, नकारश्चागमो वक्तव्यः। अथ नकारागमे सति किं पूर्वान्तः करिष्यते, आहोस्वित्परादिः? किं चातः? यदि पूर्वान्तः - स्त्रैणाः, बहुषु लोपः प्राप्नोति। स्त्रैणानां सङ्घः, सङ्घाङ्कलक्षणेष्वञ्ञ्यञ्ञिञ्ञामण् (4.3.127) इत्यण् प्राप्नोति॥ अथ परादिः -पौंस्नम्। स एव दोषः -संयोगान्तलोपः प्राप्नोति॥ अस्तु पूर्वान्तः। कथं स्त्रैणाः, स्त्रैणानां सङ्घ इति? उभयत्र लौकिकस्य गोत्रस्य ग्रहणम्। न चेदं लौकिकं गोत्रम्॥ ईकारस्तर्हि प्राप्नोति। इष्टमेवैतत्संगृहीतम् -स्त्रैणी, पौंस्नीत्येव भवितव्यम्। एवं हि सौनागाः पठन्ति -नञ्ञ्स्नञ्ञीकक्ख्युंस्तरुणतलुनानामुपसंख्यानम् इति॥ (प्रयोजनमुखेन समाधानभाष्यम्) टिलोपस्तर्हि प्राप्नोति। नुग्वचनान्न भविष्यति। भवेदिह नुग्वचनान्न स्यात्स्त्रैणमिति। इह तु खलु पौंस्नमिति, नुग्वचनादेव प्राप्नोति। तस्मान्नञ्ञ्स्नञ्ञौ वक्तव्यौ॥ (जिज्ञासाभाष्यम्) अथेमौ नञ्ञ्स्नञ्ञौ प्राग्भवनादिति, आहो स्वित्प्राग्वतेः? कश्चात्र विशेषः? (5242 पूर्वपक्षवार्तिकम्॥ 1 ॥) - नञ्ञ्स्नञ्ञौ भवनादिति चेद्वत्यर्थे प्रतिषेधः - (भाष्यम्) नञ्ञ्स्नञ्ञौ भवनादिति चेद्वत्यर्थे प्रतिषेधो वक्तव्यः -स्त्रीवत्, पुंवदिति। किं पुनः कारणं न सिद्ध्यति? इमौ नञ्ञ्स्नञ्ञौ प्राग्भवनादित्युच्येते, तौ विशेषविहितौ सामान्यविहितं वतिं बाधेयाताम्। तत्तर्हि वक्तव्यम्। न वक्तव्यम्। वतेः प्रागिति वक्ष्यामि॥ (5243 पूर्वपक्षवार्तिकम्॥ 2 ॥) - वतेः प्रागिति चेद् भाव उपसंख्यानम् - (भाष्यम्) वतेः प्रागिति चेद् भाव उपसंख्यानं कर्तव्यम् -स्त्रीभावः स्त्रैणम्, पुंभावःपौंस्नमिति। सूत्रं च भिद्यते॥ (समाधानभाष्यम्) यथान्यासमेवास्तु॥ ननु चोक्तं नञ्ञ्स्नञ्ञौ भवनादिति चेद्वत्यर्थे प्रतिषेध इति। नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति -न वत्यर्थे नञ्ञ्स्नञ्ञौ भवत इति, यदयं स्त्रियाः पुंवदिति निर्देशं करोति। एवमपि स्त्रीवदिति न सिध्यति। योगापेक्षं ज्ञापकम्॥
Kashika¶
धान्यानां भवने० (५.२.१) इति वक्ष्यति। तस्य प्रागित्यनेनैव संबन्धः। प्राग् भवनसंशब्दनाद् येऽर्थास्तेषु स्त्रीशब्दात् पुंस्शब्दात् च यथाक्रमं नञ्स्नञौ प्रत्ययौ भवतः। स्त्रीषु भवं स्त्रैणम्। पौंस्नम्। स्त्रीणां समूहः स्त्रैणम्। पौंस्नम्। स्त्रीभ्य आगतं स्त्रैणम्। पौंस्नम्। स्त्रीभ्यो हितं स्त्रैणम्। पौंस्नम्। स्त्रियाः पुंवद्० (६.३.३४) इति ज्ञापकाद् वत्यर्थे न भवति। योगापेक्षं च ज्ञापकमिति स्त्रीवदित्यपि सिद्धम्॥
Siddhanta Kaumudi¶
धान्यानां भवने (SK1802) इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्यां क्रमान्नञ्स्नञौ स्तः । स्त्रैणः । पौंस्नः । वत्यर्थे न, स्त्री पुंवच्च (SK932) इति ज्ञापकात् । स्त्रीवत् । पुंवत् ॥
Laghu Siddhanta Kaumudi¶
धान्यानां भवन इत्यतः प्रागार्थेषु स्त्रीपुंसाभ्यां क्रमान्नञ्स्नञौ स्तः । स्त्रैणः । पौस्रः ॥
Balamanorama¶
स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् - अथाऽपत्याधिकारो निरूप्यते । स्त्रीपुंसाभ्याम् । भवनशब्देनधान्यायां भवने क्षेत्रे ख॑ञिति सूत्रं विवक्षितम् । ‘प्राग्दीव्यत’ इत्यतः प्रागित्यननुवृत्तम् । तदाह — धान्यानामिति । स्त्रीपुंसाभ्यामिति ।अचतुरे॑त्यच् । स्त्रीशब्दात्, पुंस्शब्दाच्चेत्यर्थः । स्त्रैण इति । स्त्रिया अपत्यं, स्त्रीषु भवः स्त्रीणां समूह इत्यादिविग्रहः । नञ्, वृद्धिः, णत्वम् । पौंस्न इति । पुंसोऽपत्यं, पुंसि भवः, पुंसां समूह इत्यादिविग्रहः । पुंस्शब्दात् स्नञिस्वादिषुइति पदत्वात्संयोगान्तलोपः, आदिवृद्धिः । प्रत्ययसकारस्तु श्रूयते, उभाभ्यामपि नञ्प्रत्ययस्यैव विधौ तु पुंसः सकारस्य संयोगान्तलोपे ‘पुन्न’ इति स्यादिति भावः । वत्यर्थे नेति ।तेन तुल्यं क्रिया चेद्वति॑रिति वतिप्रत्ययो वक्ष्यते । तस्यार्थे स्त्रीपुंसाभ्यां नञ्स्नञौ न भवत इत्यर्थः । कुत इत्यत आह स्त्री पुंवच्चेति ज्ञापकादिति । अन्यथापुंव॑दिति निर्देशोऽनुपपन्नः स्यादिति भावः । न चपुंव॑दिति निर्देशः पुंस्शब्दाद्वतद्यर्थे स्नञभावं ज्ञापयेन्नतु स्त्रीशब्दान्नञभावमपीति वाच्यं, नञ्स्नञोरेकसूत्रोपात्ततया वत्यर्थे स्नञभावे ज्ञापिते सति स्त्रीशब्दान्नञभावस्यापि लाभात्, ज्ञापकस्य सामान्यापेक्षत्वात् । तदुक्तं भाष्येयोगापेक्षं ज्ञापक॑मिति ।
Tattvabodhini¶
स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् - स्त्रीपुंसाभ्याम् । प्रागित्यनुवर्तते । तदाह -प्रागर्थेष्विति । र्पौस्न इति । इहस्वादिषु॑इति पदत्वात्संयोगान्तलोपेन पुंसः सस्य निवृत्तावपि प्रत्ययसकारः श्रूयत एव । अतएवोभाभ्यां परतो नञेव न विहितः, पौंस्नमिति रूपाऽसिद्धिप्रसङ्गात् । स्यादेतत् -उभाभ्यामपि प्रकृतोऽञेवाऽस्तु, तत्संनियोगेनस्त्रीपुंसयोर्ुक्चे॑ति नुगेव विधीयताम् । न चैवंस्त्रैणाः, पौंस्नाः॑इत्यत्रयञञोश्चे॑ति लुक्प्रसङ्गः, रुऔणानां सङ्घ इत्यादौसङ्घाह्कलक्षणेषु॑ इत्यणप्रसङ्गश्च स्यादिति वाच्यम्, उभयत्रापिगोत्रे॑इत्यनुवृत्तेः । प्रवराध्यायप्रसिद्धं हि तत्र गोत्रम् । अन्यथापौत्राः, दौहित्राः॑इत्यत्राऽप्यञो लुक्स्यात् । एवं चनञ्स्नञीकक्ख्यु॑न्निति वार्तिके नञ्स्नञ्ग्रहणं विनाऽञन्तत्वादेव ङीप्सिध्यतीत्यपरमप्यनुकूलमिति चेत् । अत्राहुः -नुकिनस्तद्धिते॑इति टिलोपः स्यात् । न चैवं नुगानर्थंक्यं, टिलोपप्रवृत्त्यैव नुकः सार्थकत्वात् । यद्यपि स्त्रीशब्दे तस्य सार्थक्यं नास्ति,यस्येति चे॑त्यनेनापीकारलोपसंभवात्, तथापिश्रीर्देवताऽस्य श्रायं हविः॑इत्यत्रैव लोपात्परत्वाद्वृद्धिः स्यात्, नुकि तु टिलोपः प्रवर्तते इति स्त्रीशब्देऽपि नुकः सार्थक्यमस्तु । तस्मान्नञ्स्नञाविति यतान्यासमेव स्वीकर्तव्यमिति । अन्ये तुस्त्रीपुंसयोर्नुक्चे॑त्यस्तु, आगमे अकारो विवक्षितः । तस्य चयस्येति चे॑ति लोपे कृतेऽपि स्थामिवत्त्वाट्टिलोपो न भविष्यति । एवं चटिड्ढाण॑ञिति सूत्रेणैव डीप्सिद्धौ नञ्स्नयोरुपसङ्ख्यानं माऽस्विति महदेव लाघवमित्याहुः । वत्यर्थ इति ।स्त्रीपुंसाभ्यां नञ्स्नञौ वत्यर्थे न प्रवर्तेते॑ इति सामान्यापेक्षं ज्ञापकमिति भावः । अत एवोदाहरति -स्त्रीवदिति ।आ च त्वा॑दिति चकारो नञ्स्नञ्भ्यां त्वतलोः समावेशार्थ इति वक्ष्यति । तेन स्त्रीत्वं स्त्रीता, पुंस्त्वं पुंस्तेति सिद्धम् ।
Padamanjari¶
स्त्रीशब्दात्पूंशब्दात्पुंस्शब्दाच्चेति । स्त्र्यधिकारविहितानां टाबादीनां’पुंसि संज्ञायां घः’ इत्येतदधिकारविहितानां च प्रत्ययानां ग्रहणं न भवति, स्त्रीपुंस्शब्दयोरस्वरितत्वात् । नापि स्त्रीपुंसार्थग्रहणम्,’स्वं रूपं शब्दस्य’ इति वचनात् । पाéस्नमिति । संयोगान्तस्य लोपःऽ इति पुंस्शब्दसकारस्य लोपः, तत्र कर्तव्येऽनुस्वारस्यासिद्धत्वात्सकारस्य संयोगान्तत्वात् । अत एव संयोगान्तलोपप्रसङ्गान्नञेवोभाभ्यां न विधीयते । एवं हि मा भून्नञ्, मा च भूत्स्नञ् , अञ् प्रकृतस्तत्रैतावदस्तु स्त्रीपुंसयोर्नुक्येति; तत्रायमप्यर्थः, स्त्रैणी पौस्नी अञ इतीकारः सिद्धो भवति ? नैव शङ्क्यम्; स्त्रैणाः, पाéस्नाः -‘यञञोश्च’ इति बहुषु लुक् प्राप्नोति । इह च स्त्रैणानां सङ्घः’सङ्घाङ्कलक्षणेष्वञ्यञिञाम्’ इत्यण् प्राप्नोति ? नैष दोषः; उभयत्रापि गोत्र इति वर्तते, लौकिकस्य च गोत्रस्य ग्रहणं ऋषिप्रजनं च लोके गोत्रमुपचरन्ति, न च स्त्र्यर्षिणापि पुंशब्दवाच्यं सामान्यम् ।’नस्तद्धिते’ इति टिलोपस्तर्हि प्राप्नोति ?’प्रकृत्यैकाच्’ इति प्रकृतिभावो भविष्यति, ठिष्ठेमेयस्सुऽ इति तत्रानुवर्तते । एवं तर्हि नुग्विधानसअमर्थ्याट्टिलोपो न भविष्यति ? यं विधि प्रत्युपदेशोऽनर्थकः स विधिबाध्यते, यस्य तु विधेर्निमितमेव नासौ बाध्यते, तत्र टिलोपार्थमेव नुग्विधानं स्यात् । स्त्रीशूब्दस्यापि नुगेव लोपस्य निमितम्, अन्यथा यस्येति लोपात्परत्वाद् वृद्धिः स्यात्, यथा - श्रीर्देअवता अस्य श्रायं हविरिति । तस्माद्यथान्यासमेवास्तु । योगापेक्षं चेति । स्त्रीपुंसाभ्यामित्ययं योगो वत्यर्थे न प्रवर्तत इत्येवं ज्ञापनशरीरम्, न तु स्नञ् वत्यर्थे न प्रवर्तत इतियर्थः । कथं स्त्रीत्वं स्त्रीता पुंस्त्वं पुंस्ता चेति ? ठा च त्वात्ऽ इत्यत्र परिहारो भविष्यति ॥
Nyaas¶
अत्र तावत् स्त्रीशब्दस्य स्वरूपग्रहणम्, न टाबादिस्त्रीप्रत्ययन्तस्य शब्दस्य। ततो हि **स्त्रीभ्यो ढक्** (4.1.120) इति ढकं वक्षति, तत्साहचर्यात् पुंशब्दोऽपि तद्धर्मैव विज्ञायते। तस्यापि स्वरूपग्रहणेव। `पौस्नम् इति। संयोगानतस्य लोपः (8.2.23) इति लोपः।यदि प्राग्भवनसंशब्दनात् स्त्रीपुंसाभ्यां नञ्सनञौ भवतः, वत्यर्थेऽपि तौ स्याताम्, ततश्च स्त्रीवत्, पुंवदिति न सिध्येदित्याह- स्त्रियाः पुंवत् इत्यादि। यदयम् स्त्रियां पुंवत् (6.3.33) इति निर्देशं करोति ततो ज्ञायते - वत्यर्थे नञ्स्नञौ न भवतः। ननु चैतस्मान्निर्देशात् स्नञ्प्रत्ययो वत्यर्थे न भवतीति शक्यं विज्ञातुम्, न तु नञ्प्रत्ययो न भवतीति, ततश्च स्त्रीवदिति न सिध्यति? इत्यत आह - योगापेक्षञ्च इत्यादि। पुंवत् इति निर्देशादयं योगो वत्यर्थे न प्रवर्तते - इत्यवमर्थमिदं योगापेक्षं ज्ञापकम्, न तु स्नञ्प्रत्ययापेक्षम्। तेन स्त्रीवदित्येतदपि सिध्यति॥
Prakriyasarvasvam¶
धान्यानां भवन इत्यतः प्राच्येष्वर्थेषु स्त्रीपुंशब्दाभ्यां क्रमादेतौ स्तः, स्त्री नञ् वृद्धिणत्वे । स्त्रियोऽपत्यादिः स्त्रैणः ।। तस्येदमर्थतोऽन्यत्र ण्यादयः सर्वबाधकाः । इत्येवं माधवाद्युक्तैः स्त्रीभ्यो ढग् बाध्यते नञा ।। २२३ ।।
Sutra Prayogas¶
स्त्रैणेन (भट्टिकाव्यम्): स्त्री-पुंसाभ्यां नञ् - स्रजौ इति नञ् ।