41079: गोत्रावयवात्

Padacheda: गोत्र-अवयवात् | S | 5 | 1 |

Sutrartha


Vasu English Summary

After a word denoting a non-principal गोत्र , ष्यङ् is the substitute of अण् and इञ् , the feminine, even though the syllable preceding the final be not prosodially long.

Vasu English Translation

After a word denoting a non-principal गोत्र , ष्यङ् is the substitute of अण् and इञ् , the feminine, even though the syllable preceding the final be not prosodially long. The phrase अणिञोः of the last sutra governs this also, not so, however, the word अगरूपोत्तमः ॥ The phrase गोत्रावयव means insignificant or non-famous gotras. i. e. names of kulas i. e. कुलाख्या, such as families like पुणिक, भुणिक, मुखर which are not famous and are not included in the gotra list. Thus पौणिक्या, भौणिक्या and मौखर्या ॥

The word अवयव in the sutra has various significations, one sense being ‘separate from’, another being ‘part of’, and ‘individual members’ &c. If the last sense be taken, then we can evolve forms like दैवदत्त्या याज्ञदत्या ॥ These forms may also be explained by taking them as belonging to the कौड्यादि class of the next aphorism. In short, those who wish to apply this aphorism to ‘the immediate descendant’, such as ‘the son or daughter’, and not to a gotra descendant, which means a grandson and down; can also do so.

In fact the word गोत्रावयव is equal to अवयवगोत्र or अप्रधानगोत्र and is a karmadharaya samasa, namely gotras not enumerated in the प्रवराध्यायः ॥ These are, however technically called कुल ॥

Bhashya

गोत्रावयवात् (1327) (ष्यङादेशाधिकरणम्) (सूत्राक्षेपभाष्यम्) किमर्थमिदमुच्यते? (एकदेशिसमाधानभाष्यम्) गोत्रावयवादगोत्रार्थम्। गोत्रावयवादित्युच्यते, अगोत्रार्थोऽयमारम्भः॥ (5220 एकदेश्याक्षेपवार्तिकम्॥ 1 ॥) - गोत्रावयवादगोत्रार्थमिति चेत्तदनिष्टम् - (भाष्यम्) गोत्रावयवादगोत्रार्थमिति चेत्तदनिष्टं प्राप्नोति। इहापि प्राप्नोति -आहिच्छत्री, कान्यकुब्जीति॥ (एकदेशिसमाधानभाष्यम्) एवं तर्हि गोत्रादेव गोत्रावयवात्॥ (5121 सूत्राक्षेपवार्तिकम्॥ 2 ॥) - गोत्रादिति चेद्वचनानर्थक्यम् - (भाष्यम्) गोत्रादिति चेद्वचनमनर्थकं भवति। सिद्धं गोत्रे पूर्वेणैव॥ (सिद्धान्त्येकदेशिभाष्यम्) इदं तर्हि प्रयोजनम् -गुरूपोत्तमयोरित्युच्यते, अगुरूपोत्तमार्थोऽयमारम्भः॥ (5222 सूत्रप्रत्याख्याने वार्तिकम्। 3 ॥) - अगुरूपोत्तमार्थमिति चेत् सर्वेषामवयवत्वात्सर्वप्रसङ्गः - (भाष्यम्) अगुरूपोत्तमार्थमिति चेत् सर्वेषामवयवत्वात्सर्वत्र प्राप्नोति। अष्टाशीतिसहस्राण्यूर्ध्वरेतसामृषीणां बभूवुस्तत्रागस्त्याष्टमैर्ऋषिभिः प्रजनोऽभ्युपगतः। तत्रभवतां यदपत्यं तानि गौत्राणि, अतोऽन्ये गोत्रावयवाः, तत उत्पत्तिः प्राप्नोति। तच्चानिष्टम्। तस्मान्नार्थोऽनेन योगेन॥ (प्रत्याख्यानसाधकभाष्यम्) कथं येभ्योऽगुरूपोत्तमेभ्य इष्यते? (5223 प्रत्याख्यानसाधकवार्तिकम्॥ 4 ॥) - सिद्धं तु रौढ्यादिषूपसंख्यानात् - (भाष्यम्) सिद्धमेतत। कथम्? रौढ्यादिषूपसंख्यानात्। रौढ्यादिषूपसंख्यानं कर्तव्यम्। के पुना रौढ्यादयः? ये क्रौड्यादयः॥ (भारद्वाजीयमतेन फलप्रदर्शकम्भाष्यम्) भारद्वाजीयाः पठन्ति -सिद्धं तु कुलाख्याभ्यो लोके गोत्राभिमताभ्य इति। सिद्धमेतत्। कथम्? कुलाख्या लोके गोत्रावयवा इत्युच्यन्ते॥ अथ वा गोत्रावयवः को भवितुमर्हति? यो गोत्रादवयुतः। कश्च गोत्रादवयुतः? योऽनन्तरः -दैवदत्त्या, याज्ञदत्त्येति॥ इति श्रीभगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये चतुर्थस्याध्यायस्य प्रथम पादे द्वितीयमाह्निकम्॥

Kashika

अणिञोरित्येव। गोत्रावयवा गोत्राभिमताःकुलाख्याः पुणिकभुणिकमुखरप्रभृतयः,ततो गोत्रे विहितयोरणिञोः स्त्रियां ष्यङादेशो भवति। अगुरूपोत्तमार्थ आरम्भः। पौणिक्या। भौणिक्या । मौखर्या। येषां त्वनन्तरापत्येऽपीष्यते दैवदत्या याज्ञदत्येति, ते क्रौड्यादिषु द्रष्टव्याः॥

Siddhanta Kaumudi

गोत्रावयवा गोत्राभिमताः कुलाख्यास्ततो गोत्रे विहितयोरणिञोः स्त्रियां ष्यङादेशः स्यात् । अगुरूपोत्तमार्थं आरम्भः । पौणिक्या । भौणिक्या ॥

Balamanorama

गोत्रावयवात् - गोत्रावयवात् । गोत्रावयवशब्दं व्याचष्टे-गोत्रावयवा गोत्राभिमता इति । गोत्र=कुलम्, अभिमतं=प्रख्यातं याभिरिति विग्रहः । कुलप्रख्यातिकृत इत्यर्थः ।कुलव्यपदेशकृत इति यावत् । तदाह — कुलाख्या इति । कुलमाख्यायते व्यपदिश्यते आभिरिति कुलाख्याः । कुलनामानीत्यर्थः । पुणिकादिशब्दैर्हि कुलं व्यपदिश्यते-॒पुणिकाः वयं॑,भुणिकाः वय॑मित्यादि । अवपूर्वकात् ‘यु मिश्रणे’ इति धातोरुपसर्गवशेन प्रख्यात्यर्थकात् पचाद्यचि अवयवशब्दः । कुवस्यावयवः प्रख्यापकशब्दः कुलावयव इति लभ्यत इति भावः । ननु पूर्वेणैव सिद्धे किमर्थमिदमित्यत आह — अगुरूपोत्तमार्थ इति । गोत्रादवयुतं=मिश्रितम्-अनन्तरापत्यं, तदर्थमित्यपि भाष्ये स्पष्टम् । एवञ् पूर्वसूत्रे अपत्याधिकारबहिर्भूतेऽपि पारिभाषिकमेव गोत्र गृह्रत इति भाष्यस्वरसः । पौणिक्येति । पुणिकस्यापत्यं स्त्रीति विग्रहे अत इञन्तात् ष्यङि चाप् । एवं मौणिक्या । मनुष्यनामत्वे तन्नामिकाऽणः ष्यङ् ।

Tattvabodhini

गोत्रावयवात् - गोत्रावयवात् । अवयवशब्दोऽप्रधानवाची, अवयवश्चासौ गोत्रं चेति कर्मधारयः, निपातनाद्गोत्रशब्दस्य पूर्वनिपातः । गोत्रभिमता इति ।गोत्र मित्येवमभिमताः=गोत्रवाचित्वेन देशविशेषे प्रसिद्धाः, न तु प्रवराध्याये पठिता इत्यर्थः । प्रवराध्यायेऽपाठाच्चाऽप्राधान्यम् । कुलाख्या इति । कुलमाख्यायते यैरिति कुलाख्याः — पुणिकभुणिक मुखरप्रभृतयः । तैर्हि कुलमाख्यायतेपुणिका वयं गोत्रेण॑भुणिका वयं गोत्रेण॑इति । तत इचि । गोत्रावयवादित्यर्थः ।

Padamanjari

गोत्रशब्दोऽयमस्ति पारिभाषिकः ठपत्यं पौत्रप्रभृति गोत्रम्ऽ इति, अस्ति च लौकिकोऽपत्यमात्रवचनः, अस्ति च व्युत्पन्नः - गूयन्ते शब्द्यन्तेऽनेन स्वसन्तानप्रभवा इति प्रधानभूत आदिपुरुषः, स्वप्रभवस्यापत्यं सन्तानस्य संज्ञाकारी गोत्रमित्युच्यते, यथा - भरतः, रघुः, यदुरिति । अवयवशब्दोऽप्यस्ति एकदेशे यत्सम्बन्धादवयवतीति समुदाय उच्यते; अस्ति च पृथग्भावे, अवयुत्यानुवाद इत्यादाववपूर्वस्य यौतेः पृथग्भावेऽपि दर्शनात्; अस्ति चाप्रधाने - अवयवभूतोऽयमस्मिन् ग्राम इति । तत्र पारिभाषिके गोत्रे एकदेशे चावयवे च वचनमनर्थकमिदं स्यात्, कथम् ? पौत्रप्रभृत्यपत्यसमुदायो गोत्रं तदवयवश्चतुर्थादिस्तदपि गोत्रमेव, तद्वाचिनोऽणिञन्तात्पूर्वेणैव सिद्धः ष्यङ् । अथ कस्मिश्चिन्महागोत्रे यान्यवान्तरगोत्राणि, यथा - भार्गवगोत्रस्य च्यवनादीनि, ते गोत्रावयवास्तेष्वगुरूपोतमार्थोऽयमारम्भः । यद्येवम्, सप्तर्षीणामगस्त्याष्टमानामष्टौ महागोत्राणि प्रवराध्याये पंठ।ल्न्ते तद्व्यतिरिक्तेभ्यः सर्वेभ्यः ष्यङः प्रसङ्गः; न चैतदिष्टम्, अगुरूपोतमेभ्योऽपि पुणिकादिभ्य एवेष्यते । पृथग्भाववचने त्ववयवशब्दे गोत्रादन्यवाचिनोऽणिञन्तअत्ष्यङ् इविधीयमाने पूर्वसूत्रे गोत्रग्रहणमनर्थकम् । अथाप्रधानवचनोऽवयवशब्दः, पारिभाषिकमेव गोत्रं प्रवराध्याये पाठाच्चाप्राधान्यम्, ततोऽयमर्थः स्यात् - येऽणिञन्ता गोत्रापत्यवाचिनः प्रवराध्याये न पठ।ल्न्ते तेभ्यः ष्यङिति । तत्रानृषिभ्यो गुरूपोतमेभ्यः पूर्वेणैव सिद्धः, अगुरूपोतमेभ्यस्तु संज्ञाकारिभ्य एवेष्यते, पारिभाषिके च गोत्रे संज्ञाकारित्वं विशेषो न लभ्यत इति । इहापि प्रसज्येत - तुषजको नाम कश्चितस्य गोत्रं स्त्री ठत इञ्ऽ तौषजकी, अपत्यमात्रे तु गोत्रे यद्येकदेशोऽवयवस्ततोऽपत्यसमुदायस्य पौत्रप्रभृत्यपत्यमवयव इति तद्वाचिनोऽणिञन्तात्पूर्वेणैव सिद्धः । पृथग्भावे त्वपत्यादन्यवाचिन आहिच्छत्रादेरेव प्रसङ्गः । अप्रधाने त्वप्रधानापत्यवाचिनोऽणिञन्ताद् गुरूपोतमान्न सर्वत्रेष्यते, किन्तु संज्ञाकारिभ्यः, तत्रापि गोत्रे । व्युत्पन्ने गोत्रे एकदेशवचनोऽवयवशब्दो न सम्भवति, न हि येन पुरुषेण स्वसन्तानप्रभवा गूयन्ते तदवयवाद्धस्तपादादेर्गोत्रेऽणिञोऽसम्भवः । अथ गोत्रं च तदवयवश्चेति कर्मधारयस्तदा भार्गवादिगोत्रेषु येऽवान्तरव्यपदेशकारिणश्च्यवनादयस्तेभ्यः प्रसङ्गः । पृथग्भावे च ये संज्ञाकअरिभ्यः पृथग्भूतास्तुषजकादयस्तेभ्य एव स्यात् । अत एवमेषु पक्षेषु दोषसम्भवाद्व्युत्पन्नो गोत्रशब्दः, अप्रधानावचनोऽवयवशब्दः, कर्मधारयश्चसमासः । निपातनाद्विशेषणस्य परनिपातः, प्रवराध्यायेऽपाठाच्चाप्राधान्यम् । तदेतदाह - गोत्रावयवा गोत्राभिमता इति । गोत्रमित्येवमभिमताः, गोत्राभिधायिन इत्येव लोके प्रसिद्धाः, न पुनः प्रवराध्याये पठिता इत्यर्थः । काः पुनस्ता इत्यत्राह - कुलाख्या इति । कुलमाख्यायते आभिरिति कुलाख्याः, पुणिकादिभिर्हि कुलमाख्यायते - पुणिकावयंगोत्रेणेत्येवमादि । तत इति । तथोक्तविशेषणविशिष्टाभ्यः कुलाख्याभ्यः । अगुरूपोतमार्थ आरम्भ इति ।’गुरूपोतमयोः’ इति निवृतम्, अन्यत्सर्वमनुवर्तत इति भावः । पौणिक्येत्यादिः । पुणिक-भुणिक-मुखरशब्देभ्यः ठत इञ्ऽ, तस्य ष्यङदेशः । ते क्रौड।लदिषु द्रष्टव्या इति । अवृत्कृतत्वातस्येति भावः ॥

Nyaas

गोत्रञ्च तदवयवञ्चेति गोत्रावयवः। इह त्वभिधानेऽभिधेयोपचारं कृत्वा तदभिधायिप्रातिपदिकं गोत्रावयव शब्देनोक्तम्। ननु चैवं विग्रहे विशेषणत्वादवयवशब्दस्य नीलोत्पल इव नीलशब्दस्य पूर्वनिपातः स्यात्। राजदन्तादेराकृतिगणत्वाद्विशेषणस्य परनिपातो भविष्यति। गोत्रं पुनरिह लौकिकं गृह्रते, न पारिभाषिकम्। लोके च प्रधानभूत आदिपुरुषः स्वप्रभवस्यापत्यसन्तानस्य संज्ञाकारी गोत्रमुच्यते। तथा हि भरतो नाम कश्चिदाद्यः प्रधानः पुरुषोऽभूत्, तेन सर्व एव तत्पूर्वकाः पुत्त्रपौत्त्रादयो भरता इति व्यपदिश्यन्ते। अवयवशब्दोऽयमस्त्येवैकदेशे, तत्सम्बन्धादवयवीति समुदाय उच्यते। अस्ति च पृथग्भावे -अवयुतिः = अवयवः, पृथग्भूत इत्यर्थः। यद्यपि यौतिर्मिश्रणे पठते, तथाप्यनेकार्थत्वाद्धादूनामवपूर्वः पृतघ्भावमाचष्टे। अस्त्यप्रधाने, यथा - कुलावयवोऽयम्, सङ्घावयवोऽयमिति। कुलसय् सङ्घस्य चाप्रधानभूतोऽयमिति गम्यते। तत्र यदेयकदेशवाची गृह्रते तदुपादानमनर्थकं स्यात्, गोत्रादित्येव वक्तव्यम्। गोत्रादवयवोऽपि हि गोत्रं भवति, यथा - क्षीरावयवः क्षीरमिति। अथापि पृथग्भावे गोत्रादन्यत्र वर्तमानो गृह्रते, एवमपि पुणिकादिभ्यो विहितयोरणिञो विहितौ; अनिष्टञ्चैतत्; तस्यैकदेशवाचिनि पृथग्भाववाचिनि वाक्यशब्दे दोष इत्यत्राप्रधानवाच्येव गृह्रते। गोत्रावयवाः इति। पुणिकादिश्रुतीनामेतद्विशेषणम्। अप्रधानगोत्राभिधायिन्य इत्यर्थः। गोत्रभमताः इति। गोत्रमित्येवमभिमता गोत्राभिवायिन्य इत्येवं लोके प्रसिद्धाः। न पुनर्गोत्राध्याये पठिता इत्यर्थः। अत एव तासामप्रधान्यम्; गोत्राध्यायेऽपठितत्वात्। कुलाख्याः इति। कुलम् = गोत्रम्, आख्यायत आभिरित्याख्याः, गोत्रेणेत्येवमादि। ततः इति। यथोक्तविशेषणविशिष्टाभ्यः पुणिकादिश्रुतिभ्यः। यदि तर्हि ततो गोत्रविहितयोरणिञोः ष्यङ् भवत्येवं सत्यपार्थकोऽयं योगः, पूर्वेणैव सिद्धत्वात्? इत्यत आह - अगुरुपोत्तमर्थ आरम्भः`इति। `पौणिक्या इत्यादि। पुणिकभुणिकमुखरशब्देभ्यः अत इञ् (4.1.95) इतीञन्तस्य ष्यङश्चाप्॥

Prakriyasarvasvam

<karika>स्वतो न गोत्रशब्दा ये कुलाख्या गोत्रवन्मताः । ते गोत्रावयवा नाम ये केचिन्मुखरादयः ॥ २१७ ॥</karika> तेभ्योऽणिञोः स्त्रियां गोत्रे ष्यङादेशः स्यात् । मुखरस्य गोत्रस्त्री मौखर्या ॥