41064: पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च¶
Padacheda: पाक-कर्ण-पर्ण-पुष्प-फल-मूल-वाल-उत्तरपदात् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
And the feminine affix ङीष् comes after the प्रातिपदिक (Nominal Stem) expressive of जाति , followed by the following 1. पाक ‘cooked’ 2. कर्ण ‘ear’ 3. पुष्प ‘flower’ 4. फल ‘fruit’ 5. मूल ‘root’ 6. बाल ‘youth’
Vasu English Translation¶
And the feminine affix ङीष् comes after the प्रातिपदिक (Nominal Stem) expressive of जाति , followed by the following 1. पाक ‘cooked’ 2. कर्ण ‘ear’ 3. पुष्प ‘flower’ 4. फल ‘fruit’ 5. मूल ‘root’ 6. बाल ‘youth’ Here the affix applies to words which in their original sense denoted females and therefore were not provided by the last sutra. Thus ओदनपाकी, शंककुर्णी, शालपर्णी, शंखपुष्पी, दासीफली दर्भमूली, and गोवाली ॥
When, however the affix ङीष् is not intended to be applied to compounds ending with फल, पुष्प, and मूल, then those compounds will fall under Ajadi class (4.1.4); such as संफला, भस्त्रफला, सत्पुष्पा, अमूला &c.
Bhashya¶
पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च (1315) (ङीषधिकरणम्) (5205 अतिव्याप्तिवारकवार्तिकम्॥ 1 ॥) - सदक्काण्डप्रान्तशतैकेभ्यः पुष्पात् प्रतिषेधः - (भाष्यम्) सदक्काण्डप्रान्तशतैकेभ्यः पुष्पात्प्रतिषेधो वक्तव्यः -सत्पुष्पा, प्राक्पुष्पा, प्रत्यक्पुष्पा, काण्डपुष्पा, प्रान्तपुष्पा, शतपुष्पा, एकपुष्पा॥ (5206 अतिव्याप्तिवारकवार्तिकम्॥ 2 ॥) - सम्भस्त्राजिनशणपिण्डेभ्यः फलात् प्रतिषेधः - (भाष्यम्) सम्भस्त्राजिनशणपिण्डेभ्यः फलात्प्रतिषेधो वक्तव्यः -सम् -सम्फला -सम्। भस्त्रा -भस्त्राफला-भस्त्रा। अजिन -अजिनफला -अजिन। शण -शणफला -शण। पिण्ड -पिण्डफला॥ श्वेताच्चेति वक्तव्यम्। श्वेतफला॥ (5208 अतिव्याप्तिवारकवार्तिकम्॥ 3 ॥) - त्रेश्च - (भाष्यम्) त्रेश्च प्रतिषेधो वक्तव्यः। त्रिफला॥ (5209 अतिव्याप्तिवारकवार्तिकम्॥ 4 ॥) - मूलान्नञ्ञः - (भाष्यम्) मूलान्नञ्ञः प्रतिषेधो वक्तव्यः। अमूला॥
Kashika¶
पाकाद्युत्तरपदाज् जातिवाचिनः प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो भवति। स्त्रीविषयत्वादेतेषां पूर्वेणाप्राप्तः प्रत्ययो विधीयते। ओदनपाकी। शङ्कुकर्णी। शालपर्णी। शङ्खपुष्पी। दासीफली। दर्भमूली। गोबाली। पुष्पफलमूलोत्तरपदात् तु यतो नेष्यते तदजादिषु पठ्यते। सत्प्राक्काण्डप्रान्तशतैकेभ्यः पुष्पात् (ग०सू० ३७)। संभस्त्राजिनशणपिण्डेभ्यः फलात् (ग०सू० ३५)। मूलान्नञः (ग०सू० ३९) इति॥
Siddhanta Kaumudi¶
पाकाद्युत्तरपदाज्जातिवाचिनः स्त्रीविषयादपि ङीष् स्यात् । ओदनपाकी । शङ्कुकर्णी । शालपर्णी । शङ्खपुष्पी । दासीफली । दर्भमूली । गोवाली । ओषधिविशेषे रूढा एते ॥
Balamanorama¶
पाककर्णपर्णपुष्पफलमूलबालोत्तरपदाच्च - पाककर्ण ।जातेरस्त्रीविषया॑दिति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह — स्त्रीविषयादपीति । नियतस्त्रीलिङ्गादपीत्यर्थः । नियतस्त्रीलिङ्गत्वात्पूर्वेणाऽप्राप्तिरिति भावः । जातिवाचित्वं दर्शयितुमाह — ओषधिविशेष रूढा इति । अवयवव्युत्पत्तिरहिता इत्यर्थः ।
Tattvabodhini¶
पाककर्णपर्णपुष्पफलमूलबालोत्तरपदाच्च - इतो मनुष्य । इतः किम् । विट् । दरद् । विटशब्दात्जनपदशब्दात्क्षत्त्रि#आदञ्इत्यञ् । दरच्छब्दात्तुद्द्यञ्मगदे॑त्यण् । तयोःअतश्चे॑ति लुक् । यस्तु वैश्यपर्यायो विट्शब्दः सोऽपि प्रत्युदाहरणमित्याहुः । दाक्षिति ।अत इञ॑ । गोत्रलक्षणा जातिः । अदन्तत्वाऽभावादप्राप्तो ङीष् विधीयते । योपधादपीति ।जाते॑रित्यनुवर्तमाने पुनर्जातिग्रहणादिति भावः । उदमेयस्येति । उदकं मेयं यस्य उदमेयः ।उदकस्योदः संज्ञाया॑मित्युदादेशः । इञ उपसङ्ख्यानमजात्यर्थम् । सौतङ्गमी । निर्वृत्ताद्यर्थेवुञ्छ॑णादिसूत्रेण सुतङ्गमादिभ्य इञ् । न चायमिञन्तो जातिः ।
Padamanjari¶
स्त्रीविषयत्वादेतेषामिति । पूर्वत्र समानायामाकृतौ यदस्त्रीविषयमित्याश्रयणान्निमितभेदेन नानालिङ्गानामेषां न सिध्यतीति भावः । ओदनपाकादयः संज्ञाशब्दा यथाकथञ्चिद्व्युत्पाद्याः ॥
Nyaas¶
ओदनपाकी इति। ओदनस्य पाक इति षष्टीसमासः। व्युत्पत्तिमात्रार्थं त्वसौ क्रियते, न त्ववयवार्थो विद्यते। समुदाय एव ह्रयं कस्याञ्चिज्जातौ वर्तते। एवं शह्कुकर्णी इत्यदिष्वपि वेदितव्यम्॥
Prakriyasarvasvam¶
पाकाद्युत्तराज्जात्यर्थात् स्त्रीनियतत्वेऽपि ङीष् स्यात् । ओदनपाकी । शङ्ककर्णी । सालपर्णी । शङ्खपुष्पी । डाडिमफली । दर्भमूली । गोवाली ।
Vartika¶
सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात्प्रतिषेधः ।